उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः
कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शुक्लापाङ्गैः सनयनजलैः स्वागतीकृत्य केकाः
प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥

अन्वयः AI सखे! मत्-प्रिया-अर्थं यियासोः अपि ते द्रुतं ककुभ-सुरभौ पर्वते पर्वते काल-क्षेपम् उत्पश्यामि। शुक्ल-अपाङ्गैः स-नयन-जलैः केकाः स्वागतीकृत्य प्रत्युद्यातः भवान् कथम् अपि आशु गन्तुं व्यवस्येत्।
Summary AI O friend! Though you are eager to travel quickly for the sake of my beloved, I foresee you lingering on every mountain fragrant with kakubha flowers. The peacocks, with tearful eyes and white corners, will welcome you with their cries. Having been greeted thus, you must somehow resolve to move forward quickly to fulfill your mission.
सारांश AI हे मित्र, यद्यपि तुम शीघ्र जाना चाहते हो, फिर भी ककुभ के फूलों से सुगन्धित पर्वतों पर तुम्हारा विलम्ब होना सम्भव है। सफेद कोरों वाली आँखों से हर्ष के आँसू बहाते हुए मोर अपनी केका ध्वनियों से तुम्हारा स्वागत करेंगे।
वल्लभदेवः अस्मद्धितार्थं त्वरितमपि जिगमिषोस्तव ककुभकुसुममुगन्धौ सर्वस्मिन्नद्रौ तवाहं कालहारमुत्पश्याम्युत्प्रेक्षे । कुत इत्याह । यस्मात्प्रियमित्रैः शुक्लापाङ्गैर्मयूरैः सनयमजलैर्नेत्रोदकयुक्तैः केकाः स्वागतीकृत्य वाग्भिः स्वागतं कृत्वा प्रत्युद्गत इत्युक्तिप्रत्युक्तिवशात्कालक्षेपः । अतश्चार्थये त्वाम् । अस्मदर्थं कथमपि भवान्गन्तुं व्यवस्येद्व्यायामं कुर्यात् । अहमार्तस्त्वं चोन्नत इति भावः । सनयनजलत्वमत्र चिरेण मित्रालोकनात् ॥
पदच्छेदः AI
उत्पश्यामिउत्पश्यामि (उत्√दृश् कर्तरि लट् (परस्मै.) उ.पु. एक.) I foresee
द्रुतम्द्रुतम् quickly
अपिअपि though
सखेसखि (८.१) O friend
मत्प्रियार्थम्मत्प्रियाअर्थम् for the sake of my beloved
यियासोःयियासु (+सन्, ६.१) of you who is desirous of going
कालक्षेपम्कालक्षेप (२.१) delay
ककुभसुरभौककुभसुरभि (७.१) fragrant with Kakubha flowers
पर्वतेपर्वत (७.१) on the mountain
पर्वतेपर्वत (७.१) on the mountain
तेयुष्मद् (६.१) your
शुक्लापाङ्गैःशुक्लअपाङ्ग (३.३) with white-cornered eyes
सनयनजलैःनयनजल (३.३) with tears in their eyes
स्वागतीकृत्यस्वागतीकृत्य (√स्वागतीकृ+ल्यप्) having welcomed
केकाःकेका (२.३) cries of peacocks
प्रत्युद्यातःप्रत्युद्यातृ (१.१) greeted on arrival
कथम्कथम् somehow
अपिअपि or other
भवान्भवत् (१.१) you
गन्तुम्गन्तुम् (√गम्+तुमुन्) to go
आशुआशु quickly
व्यवस्येत्व्यवस्येत् (वि+अव√सो कर्तरि विधिलिङ् (आत्मने.) प्र.पु. एक.) should resolve
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
त्प श्या मि द्रु पि खे त्प्रि या र्थं यि या सोः
का क्षे पं कु सु भौ र्व ते र्व ते ते
शु क्ला पा ङ्गैः लैः स्वा ती कृ त्य के काः
प्र त्यु द्या तः पि वा न्ग न्तु मा शु व्य स्येत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.