नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै-
राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।
दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥

अन्वयः AI अर्ध-रूढैः केसरैः हरित-कपिशं नीपं दृष्ट्वा, अनुकच्छम् आविर्भूत-प्रथम-मुकुलाः कन्दलीः च, दग्धारण्येषु उर्व्याः अधिक-सुरभिं गन्धम् आघ्राय च, जल-लव-मुचः ते मार्गं सारङ्गाः सूचयिष्यन्ति।
Summary AI On your path, the deer will indicate your way. They will observe the nīpa flowers, greenish-brown with half-risen filaments, and the kandalī plants blossoming with their first buds along the marshy banks. They will also inhale the intensely fragrant scent of the parched earth as it receives the first drops of rain, marking your progress as you release your moisture.
सारांश AI आधे खिले केसर वाले कदम्ब के फूलों, तटों पर उगी नई कलियों वाली कन्दली और वर्षा से भीगी मिट्टी की सुगन्ध को सूंघते हुए हिरण वर्षा की बूंदें बरसाते हुए तुम्हारे मार्ग की सूचना देंगे।
वल्लभदेवः चिह्नैरूहिष्यन्ते । नूममनेन पथास्मत्सुहृज्जीमूत आयात इति । तर्हि मेघात्तोयकणाः पातव्या इति तदनुसरणम् । स्वादादिहृतचित्तत्वाद्व्रजंश्चासौ तैर्न लक्षित इति मार्गोन्नयनम् । किं कृत्वा सूचयिष्यन्तीति चिह्नान्याह । अर्धं रूढैः सामिपक्वैः केसरैर्हरितकपिशं नीलपिङ्गं नीपकुममं दृष्ट्वा । तद्धि वर्षासु नवजलपातं विना न जायते । तथाविर्भूतप्रथममुकुला उत्पन्नाद्यकोरकाः कन्दलीलता अनुकच्छं तीरममीपे दृष्ट्वा । ता हि वर्षामु फुल्लन्ति । तथा दग्धारण्येषु निदाघप्लुष्टकाननेष्वधिकसुरभिं गन्धं पृथिव्या आघ्राय शिङ्घित्वा । जलकणपाताद्धि तत्र सौगन्ध्याविर्भावः । जललवमुच इति मेघविशेषणं न तु जसन्तम् ॥
पदच्छेदः AI
नीपम्नीप (२.१) the Nipa flower
दृष्ट्वादृष्ट्वा (√दृश्+क्त्वा) having seen
हरितकपिशम्हरितकपिश (२.१) greenish-brown
केसरैःकेसर (३.३) with filaments
अर्धरूढैःअर्धरूढ (३.३) half-grown
आविर्भूतप्रथममुकुलाःआविर्भूतप्रथममुकुल (२.३) with first buds appeared
कन्दलीःकन्दली (२.३) Kandali plants
and
अनुकच्छम्अनुकच्छम् along the marshy banks
दग्धारण्येषुदग्धअरण्य (७.३) in the burnt forests
अधिकसुरभिम्अधिकसुरभि (२.१) very fragrant
गन्धम्गन्ध (२.१) scent
आघ्रायआघ्राय (आ√घ्रा+ल्यप्) having smelled
and
उर्व्याःउर्वी (६.१) of the earth
सारङ्गाःसारङ्ग (१.३) the deer
तेयुष्मद् (६.१) your
जललवमुचःजललवमुच् (६.१) of you, the shedder of water droplets
सूचयिष्यन्तिसूचयिष्यन्ति (√सूच् कर्तरि लृट् (परस्मै.) प्र.पु. बहु.) will indicate
मार्गम्मार्ग (२.१) the path
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
नी पं दृ ष्ट्वा रि पि शं के रै र्ध रू ढै
रा वि र्भू प्र मु कु लाः न्द ली श्चा नु च्छम्
ग्धा ण्ये ष्व धि सु भिं न्ध मा घ्रा चो र्व्याः
सा ङ्गा स्ते मु चः सू यि ष्य न्ति मा र्गम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.