Loading data... On slow networks this could take a few minutes.
100%

तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि-
र्जम्बूषण्डप्रतिहतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥

अन्वयः AI हे घन! तस्याः तिक्तैः वन-गज-मदैः वासितं जम्बू-षण्ड-प्रतिहत-रयं तोयम् आदाय वान्त-वृष्टिः (त्वम्) गच्छेः। अनिलः त्वाम् अन्तः-सारं तुलयितुं न शक्ष्यति, हि सर्वः रिक्तः लघुः भवति, पूर्णता गौरवाय (भवति)।
Summary AI After raining, the cloud should drink the water of the Revā, fragrant with elephant ichor and slowed by rose-apple thickets. Possessing this inner weight, the wind will not be able to blow it away; for emptiness brings lightness, while fullness brings dignity and stability.
सारांश AI हाथियों के मद से सुगंधित और जामुन के झुरमुटों से टकराकर बहते हुए नर्मदा के जल को पीकर तुम आगे बढ़ना। जल से भरे होने के कारण वायु तुम्हें हिला नहीं सकेगी, क्योंकि खालीपन लघुता का और पूर्णता गौरव का प्रतीक होती है।
वल्लभदेवः तस्या रेवाया जलमादाय गृहीत्वा त्वं यायाः । यतो वान्तवृष्टिरुत्सृष्टतोयः । कीदृशं जलम् । तिक्तः कटुकैर्वनगजमदैर्वासितं सुरभीकृतम् । विन्ध्यो हि गजावासः । तथा तीरजेन जम्बूषण्डेन जम्बूवनेन प्रतिहतरयं जडीकृतवेगमिति मुग्रहत्वोक्तिः । रेवा हि वेगगामिनी । अनेन गुणमाह । हे घनाम्भःपानादन्तःसारं परिपूर्णं सन्तं मारुतस्त्वां तुलयितुं परिच्छेत्तुं न प्रभविष्यति । यस्मात्सर्व एव कश्चिद्रिक्तः शून्योऽर्थरहितो लघुर्भवत्यवमानास्पदत्वं याति । पूर्णता तु गौरवाय भवति । आढ्यो हि सर्वेणाद्रियते । तेन तव जन्लेन गुरुत्वे सति नानिलात्परिभवप्राप्तिः ॥
पदच्छेदः AI
तस्याःतद् (६.१) her (the river's)
तिक्तैःतिक्त (३.३) with pungent
वनगजमदैःवनगजमद (३.३) ichor of wild elephants
वासितंवासित (√वास्+णिच्+क्त, २.१) fragrant
वान्तवृष्टिःवान्तवृष्टि (१.१) having shed your rain
जम्बूषण्डप्रतिहतरयंजम्बूषण्डप्रतिहतरय (२.१) whose current is obstructed by Jambu thickets
तोयम्तोय (२.१) water
आदायआदाय (आ√दा+ल्यप्) having taken up
गच्छेःगच्छेः (√गम् कर्तरि विधिलिङ् (परस्मै.) म.पु. एक.) you should go
अन्तःसारंअन्तर्सार (२.१) full of substance within
घनघन (८.१) O Cloud
तुलयितुंतुलयितुम् (√तुल्+तुमुन्) to lift
not
अनिलःअनिल (१.१) the wind
शक्ष्यतिशक्ष्यति (√शक् कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will be able
त्वाम्युष्मद् (२.१) you
रिक्तःरिक्त (√रिच्+क्त, १.१) empty
सर्वःसर्व (१.१) everyone
भवतिभवति (√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) is
हिहि for
लघुःलघु (१.१) light
पूर्णतापूर्णता (१.१) fullness
गौरवायगौरव (४.१) for dignity
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
स्या स्ति क्तै र्व दै र्वा सि तं वा न्त वृ ष्टि
र्ज म्बू ण्ड प्र ति यं तो मा दा च्छेः
न्तः सा रं तु यि तुं ना नि लः क्ष्य ति त्वां
रि क्तः र्वो ति हि घुः पू र्ण ता गौ वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.