Loading data... On slow networks this could take a few minutes.
100%

रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-
द्वल्मीकाग्रात्प्रभवति धनुष्खण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
बर्हेणेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥

अन्वयः AI पुरस्तात् वल्मीक-अग्रात् रत्न-छाया-व्यतिकरः इव प्रेक्ष्यम् एतत् आखण्डलस्य धनुः-खण्डं प्रभवति। येन ते श्यामं वपुः स्फुरित-रुचिना बर्हेण गोप-वेशस्य विष्णोः (वपुः) इव अतितरां कान्तिं आपत्स्यते।
Summary AI An iridescent fragment of Indra’s bow emerges from an anthill, looking like a blend of jewel hues. This will give the cloud’s dark body a magnificent glow, much like the peacock feather enhances the form of Viṣṇu in his role as a cowherd.
सारांश AI सामने वल्मीक के ऊपर से रत्नों की चमक जैसा इंद्रधनुष का टुकड़ा निकल रहा है, जिससे तुम्हारा सांवला शरीर वैसे ही सुशोभित होगा जैसे मोरपंख से गोपवेशधारी श्रीकृष्ण का शरीर सुंदर लगता है।
वल्लभदेवः एतत्पुरस्तादग्रे वल्मीकाग्रात्पिपीलिकोत्खातमृत्कूटप्रान्तादाखण्डलस्येन्द्रस्य धनुष्खण्डं चापैकदेशः प्रभवत्युत्पद्यते । सर्पगर्भं वल्मीकमिति सुरचापम्य प्रावृषि प्रभव इत्यागमः । कीदृशं तत् । अनेकवर्णत्वाद्रत्नच्छायाव्यतिकर इव बहुविधमणिकान्तिसंपर्कवत्प्रेक्षणीयं रम्यम् । येन च तव कृष्णं शरीरमतितरां कान्तिमापत्स्यते । यथा वल्लवरूपस्य हरेः प्रसरत्कान्तिना पिञ्छेन वपुः कान्तिमाप्तवत् । गोपा हि प्रायेण शवरवन्मयूरपिञ्छधारिणः । प्रसङ्गाच्च वर्षावर्णनमपि कविना क्रियत इति मार्गोपदेशेऽपि नास्य श्लोकस्यानवमरः । व्यतिकरो मिश्रीभावः । धनुष्खण्ड इति नित्यं समाम इति षत्वम् ॥
पदच्छेदः AI
रत्नच्छायाव्यतिकरःरत्नछायाव्यतिकर (१.१) an intermingling of the lustre of gems
इवइव like
प्रेक्ष्यम्प्रेक्ष्य (प्र√ईक्ष्+यत्, १.१) to be seen
एतत्एतद् (१.१) this
पुरस्तात्पुरस्तात् in front
वल्मीकाग्रात्वल्मीकअग्र (५.१) from the top of an anthill
प्रभवतिप्रभवति (प्र√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) rises
धनुष्खण्डम्धनुस्खण्ड (१.१) fragment of a bow (rainbow)
आखण्डलस्यआखण्डल (६.१) of Indra
येनयद् (३.१) by which
श्यामंश्याम (१.१) dark
वपुःवपुस् (१.१) body
अतितरांअतितराम् exceedingly
कान्तिम्कान्ति (२.१) beauty
आपत्स्यतेआपत्स्यते (आ√पद् कर्तरि लृट् (आत्मने.) प्र.पु. एक.) will attain
तेयुष्मद् (६.१) your
बर्हेणबर्ह (३.१) by a peacock feather
इवइव like
स्फुरितरुचिनास्फुरितरुचि (३.१) with glittering lustre
गोपवेशस्यगोपवेश (६.१) of the one in a cowherd's guise
विष्णोःविष्णु (६.१) of Vishnu
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
त्न च्छा या व्य ति प्रे क्ष्य मे त्पु स्ता
द्व ल्मी का ग्रा त्प्र ति नु ष्ख ण्ड मा ण्ड स्य
ये श्या मं पु ति रां का न्ति मा त्स्य ते ते
र्हे णे स्फु रि रु चि ना गो वे स्य वि ष्णोः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.