अद्रेः शृङ्गं हरति पवनः किं स्विदित्युन्मुखीभि-
र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेहान् ॥

अन्वयः AI पवनः अद्रेः शृङ्गं हरति किं स्वित्? इति उन्मुखीभिः मुग्ध-सिद्ध-अङ्गनाभिः चकित-चकितं दृष्ट-उत्साहः (त्वम्) दिङ्-नागानां स्थूल-हस्त-अवलेहान् पथि परिहरन् सरस-निचुलात् अस्मात् स्थानात् उदङ्-मुखः खं उत्पत।
Summary AI Watched with amazement by the innocent wives of the Siddhas, who wonder if the wind is carrying away a mountain peak, the cloud is urged to fly northward from its current location, avoiding the massive trunks of the celestial elephants of the quarters.
सारांश AI 'क्या पवन पर्वत के शिखर को उड़ा ले जा रहा है?'—ऐसी शंका से ऊपर देखती हुई सिद्धों की स्त्रियों द्वारा निहारा गया तुम, इस सरस निकुंज वाले स्थान से उत्तर की ओर उड़ो और दिशा-गजों के प्रहारों से बचते हुए आगे बढ़ो।
वल्लभदेवः अस्मात्प्रदेशात्त्वमुत्तराभिमुखः खमुद्गच्छ । सरसा निचुला वेतसा यत्रेति प्रावृड्वर्णनम् । त्वं कीदृशः । चकितचकितं सवासमुद्वक्ताभिर्मुग्धसिद्धवधूभिरित्थं दृष्टोत्साहो दृष्टोद्यमः । कथमित्याह । पवनो वायुः किं स्विदचलशिखरं हरत्यपनयति । अतश्च पातशङ्कया चकितत्वम् । अत एव मुग्धत्वम् । किं कुर्वन् । दिङ्गागानामाशाकरिणां पथि स्थूलहस्तावलेहान्महाकरग्रहान्वर्जयन् । ते हि तं प्रतिद्विरदभ्रान्या ग्रहीतुमिच्छन्ति । दिङ्नागाश्च पातालादारभ्य । यदाह । मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम्' । तथा । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे' । चकितचकितमिति प्रकारे द्वित्वम् ॥
पदच्छेदः AI
अद्रेःअद्रि (६.१) of the mountain
शृङ्गंशृङ्ग (२.१) peak
हरतिहरति (√हृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) is carrying away
पवनःपवन (१.१) the wind
किं स्वित्किम् स्वित् can it be that
इतिइति thus
उन्मुखीभिःउन्मुखी (३.३) by those with upturned faces
दृष्टोत्साहःदृष्टउत्साह (१.१) whose effort is seen
चकितचकितंचकितम् with startled glances
मुग्धसिद्धाङ्गनाभिःमुग्धसिद्धअङ्गना (३.३) by the charming Siddha women
स्थानात्स्थान (५.१) from the place
अस्मात्इदम् (५.१) from this
सरसनिचुलात्सरसनिचुल (५.१) abounding in fresh reeds
उत्पतउत्पत (उद्√पत् कर्तरि लोट् (परस्मै.) म.पु. एक.) fly up
उदङ्मुखःउदङ्-मुख (१.१) facing north
खम् (२.१) into the sky
दिङ्नागानांदिश्नाग (६.३) of the elephants of the quarters
पथिपथिन् (७.१) on the path
परिहरन्परिहरत् (परि√हृ+शतृ, १.१) avoiding
स्थूलहस्तावलेहान्स्थूलहस्तअवलेख (२.३) the massive trunk-scrapings
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
द्रेः शृ ङ्गं ति नः किं स्वि दि त्यु न्मु खी भि
र्दृ ष्टो त्सा श्च कि कि तं मु ग्ध सि द्धा ङ्ग ना भिः
स्था ना स्मा त्स नि चु ला दु त्प तो ङ्मु खः खं
दि ङ्ना गा नां थि रि न्स्थू स्ता ले हान्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.