कर्तुं यच्च प्रभवति महीमुच्छिलिन्ध्रामवन्ध्यं
तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।
आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥

अन्वयः AI महीम् उच्छिलिन्ध्राम् अवन्ध्यं च कर्तुं यत् प्रभवति, ते तत् श्रवण-सुभगं गर्जितं श्रुत्वा मानस-उत्काः राज-हंसाः आ कैलासात् बिस-किसलय-च्छेद-पाथेय-वन्तः नभसि भवतः सहायाः संपत्स्यन्ते।
Summary AI Upon hearing the cloud's pleasant thunder, which makes the earth fertile with mushrooms, the royal swans, longing for Lake Mānasa, will accompany it in the sky as far as Mount Kailāsa, carrying tender lotus stalks as provisions for their journey.
सारांश AI धरती को अंकुरित करने वाली तुम्हारी सुखद गर्जना सुनकर मानसरोवर जाने के लिए उत्सुक राजहंस, कैलाश तक तुम्हारे साथी बनेंगे और रास्ते के लिए भोजन के रूप में कमलनाल के टुकड़े साथ रखेंगे।
वल्लभदेवः तत्त्वदीयं ध्वनितमाकर्ण्य तव राजहंमा अनुचराः कैलासाद्रिपर्यन्तं भविष्यन्ति । यतो मानमोत्का मानमोत्काः मानसोन्मनसः । प्रावृषि हि ते शरणार्थं तत्र यान्ति । किं तद्गर्जितमित्याह । यन्महीमवनिमुच्छिलिन्ध्रामुद्भूतशिलिन्ध्राख्यकुमुमां विधातुं प्रभवति शक्नोति । तानि हि मेघगर्जितेन जायन्ते । अत एव तदवन्ध्यं सफलम् । श्रवणसुभगं कर्णसुखकारीति चाटुपदम् । कीदृशा हंसाः । बिसानां किसलयानि तेषां छेदः खण्डः स एव पाथेयमध्वभोजनं विद्यते येषां ते तथोक्ताः । बिसकिसलयच्छेदपाथेयवन्त इति विग्रहः । आ कैलासादित्यव्ययीभावो विभाषितः ॥
पदच्छेदः AI
कर्तुंकर्तुम् (√कृ+तुमुन्) to make
यत्यद् (१.१) which
and
प्रभवतिप्रभवति (प्र√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) is able
महीम्मही (२.१) the earth
उच्छिलिन्ध्राम्उद्-शिलिन्ध्रा (२.१) with mushrooms sprouting
अवन्ध्यंन-वन्ध्य (२.१) fruitful
तत्तद् (२.१) that
श्रुत्वाश्रुत्वा (√श्रु+क्त्वा) having heard
तेयुष्मद् (६.१) your
श्रवणसुभगंश्रवणसुभग (२.१) pleasing to the ear
गर्जितंगर्जित (√गर्ज्+क्त, २.१) thunder
मानसोत्काःमानसउत्क (१.३) eager for Lake Manasa
आ कैलासात्कैलास (५.१) all the way to Kailasa
बिसकिसलयच्छेदपाथेयवन्तःबिसकिसलयछेदपाथेयवत् (१.३) having pieces of lotus stalks as provisions
संपत्स्यन्तेसंपत्स्यन्ते (सम्√पद् कर्तरि लृट् (आत्मने.) प्र.पु. बहु.) will become
नभसिनभस् (७.१) in the sky
भवतःभवत् (६.१) your
राजहंसाःराजहंस (१.३) royal swans
सहायाःसहाय (१.३) companions
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
र्तुं च्च प्र ति ही मु च्छि लि न्ध्रा न्ध्यं
च्छ्रु त्वा ते श्र सु गं र्जि तं मा सो त्काः
कै ला सा द्बि कि च्छे पा थे न्तः
सं त्स्य न्ते सि तो रा हं साः हा याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.