तां चावश्यं दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥

अन्वयः AI ताम् च दिवस-गणना-तत्पराम् एक-पत्नीम् अव्यापन्नाम् भ्रातृ-जायाम् अविहत-गतिः (त्वम्) अवश्यं द्रक्ष्यसि। हि विप्रयोगे कुसुम-सदृशं सद्यः-पात-प्रणयि अङ्गनानां हृदयं प्रायशः आशा-बन्धः रुणद्धि।
Summary AI The cloud is assured it will find the yakṣa's faithful wife alive, occupied in counting the days. For, during separation, the hope of reunion typically sustains the fragile, flower-like hearts of women, which would otherwise wither and break instantly.
सारांश AI तुम दिन गिनती हुई अपनी अनन्यगामी भाभी को अवश्य जीवित देखोगे। वियोग के समय आशा का बंधन ही स्त्रियों के पुष्प के समान कोमल और शीघ्र टूटने वाले हृदय को थामे रहता है।
वल्लभदेवः तां भ्रातृजायां मित्रभार्यां निश्चितमव्यापन्नाममृतामीक्षिष्यसे । कीदृशीम् । दिवसगणनातत्पराम् । कियान्कालो गतः । कियाञ्शेष इत्यधिगणनापरायणाम् । यत एकपत्नीं पतिव्रताम् । एकः पतिर्यस्याः सा ताम् । एवंविधां चेत्कथं तर्ह्यव्यापन्नामित्याह । यस्मान्नारीणां प्रियविरहे हृदयमाशावन्धः प्रायेण रुणद्ध्यवलम्बते । यतः कुमुमसदृशम् । अत एव सद्यःपातप्रणयि तत्क्षणविनाशोन्मुखम् । एवंविधमप्याशया धार्यते । नूनमस्माकं पुनः प्रियेण संयोगो भावीति । आशाबन्ध आशाबन्ध इव । यथाशाबन्धो जालकारकृततन्तुनिकरः कुसुममपि शुष्कं वातेरितं रुन्धे । चशब्दः पूर्ववाक्यापेक्षया समुच्चये । एवमन्यत्र । प्रणयः प्रीतिवन्मुखता । एकपत्नीमिति नित्यं सपत्न्यादिष्विति' ङीब्नकारौ । भातृजायाशब्दे ऋतो विद्यायोनिसंबन्धेभ्य इत्यनुगभावश्चिन्त्यः ॥
पदच्छेदः AI
ताम्तद् (२.१) her
and
अवश्यंअवश्यम् surely
दिवसगणनातत्पराम्दिवसगणनातत्पर (२.१) devoted to counting the days
एकपत्नीम्एकपति (२.१) chaste (devoted to one husband)
अव्यापन्नाम्न-वि-आ-पन्न (२.१) unharmed/alive
अविहतगतिःन-वि-हतगति (१.१) with your movement unobstructed
द्रक्ष्यसिद्रक्ष्यसि (√दृश् कर्तरि लृट् (परस्मै.) म.पु. एक.) you will see
भ्रातृजायाम्भ्रातृजाया (२.१) your brother's wife
आशाबन्धःआशाबन्ध (१.१) the bond of hope
कुसुमसदृशंकुसुमसदृश (२.१) like a flower
प्रायशःप्रायशस् generally
हिहि for
अङ्गनानांअङ्गना (६.३) of women
सद्यःपातप्रणयिसद्यस्पातप्रणयिन् (२.१) prone to fall instantly
हृदयंहृदय (२.१) the heart
विप्रयोगेविप्रयोग (७.१) in separation
रुणद्धिरुणद्धि (√रुध् कर्तरि लट् (परस्मै.) प्र.पु. एक.) sustains
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
तां चा श्यं दि ना त्प रा मे त्नी
व्या न्ना वि ति र्द्र क्ष्य सि भ्रा तृ जा याम्
शा न्धः कु सु दृ शं प्रा शो ह्य ङ्ग ना नां
द्यः पा प्र यि हृ यं वि प्र यो गे रु द्धि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.