Loading data... On slow networks this could take a few minutes.
100%

नन्वात्मानं बहु विगणयन्नात्मना नावलम्बे
तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥

अन्वयः AI कल्याणि! ननु आत्मना आत्मानम् बहु विगणयन् अवलम्बे, तत् त्वम् अपि सुतराम् कातरत्वम् मा गमः; कस्य अत्यन्तम् सुखम् उपनतम् वा एकान्ततः दुःखम् (उपनतम्)? दशा चक्र-नेमि-क्रमेण नीचैः गच्छति उपरि च (गच्छति) ।
Summary AI He reassures his auspicious wife, saying he sustains his own spirit through self-reflection, and urges her not to give in to excessive despair. He reminds her that absolute happiness or sorrow is never permanent for anyone. Like the rotating rim of a chariot wheel, one's condition in life naturally moves downward and then upward.
सारांश AI हे कल्याणी! मैं स्वयं को धैर्य से सँभाल रहा हूँ, तुम भी बहुत कातर मत होना। किसे निरंतर सुख या दुख प्राप्त होता है? मनुष्य की दशा पहिए के घेरे की तरह कभी नीचे तो कभी ऊपर जाती रहती है।
वल्लभदेवः आत्मावस्थां प्रतिपाद्य संप्रति कर्तव्यतामाह । हे कन्याणि भद्रे तवापि नन्वात्मानं बहुविधं विगणयञ्जानन्स्वयमेव नावलम्बे न । अपि त्ववलम्ब एव । पामीत्यर्थः । तत्त्वमपि प्रिये कातरत्वमधैर्यं सुतरामत्यर्थं मा गमो मा यासीः । यस्मात्कस्य संसारिणो नित्यं सुखमुपनतं घटितमेकान्ततो नियमेन दुःखं वा । यत एताः सुखासुखरूपा दशा अवस्थाश्चक्रनेमिवत्कदाचिन्नीचैर्गच्छन्त्यधो यान्ति कदाचिच्चोपरि पृष्ठे । रथाङ्गधारा हि भ्रमन्ती क्रमेणाध उपरि च याति । तदुक्तम् । सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च । पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो न प्रहृष्येत शोचेत् ॥ नन्वभिमुखीकरणे । मा गम इति लृदित्वादङ् ॥
पदच्छेदः AI
ननुननु Indeed
आत्मानम्आत्मन् (२.१) myself
बहुबहु much
विगणयन्विगणयत् (वि√गण्+शतृ, १.१) thinking
आत्मनाआत्मन् (३.१) by my own self
not
अवलम्बेअवलम्बे (अव√लम्ब् कर्तरि लट् (आत्मने.) उ.पु. एक.) I support
तत्तद् therefore
कल्याणिकल्याणी (८.१) O blessed one
त्वम्युष्मद् (१.१) you
अपिअपि also
सुतराम्सुतराम् exceedingly
मामा do not
गमःगमः (√गम् कर्तरि लुङ् (परस्मै.) म.पु. एक.) go (to)
कातरत्वम्कातरत्व (२.१) despair
कस्यकिम् (६.१) whose
अत्यन्तम्अत्यन्त (१.१) perpetual
सुखम्सुख (१.१) happiness
उपनतम्उपनत (उप√नम्+क्त, १.१) is attained
दुःखम्दुःख (१.१) sorrow
एकान्ततःएकान्ततस् exclusively
वावा or
नीचैःनीचैस् downwards
गच्छतिगच्छति (√गम् कर्तरि लट् (परस्मै.) प्र.पु. एक.) goes
उपरिउपरि upwards
and
दशादशा (१.१) fortune
चक्रनेमिक्रमेणचक्रनेमिक्रम (३.१) in the manner of a wheel's rim
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
न्वा त्मा नं हु वि न्ना त्म ना ना म्बे
त्क ल्या णि त्व पि सु रां मा मः का त्वम्
स्या त्य न्तं सु मु तं दुः मे का न्त तो वा
नी चै र्ग च्छ त्यु रि शा क्र ने मि क्र मे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.