Loading data... On slow networks this could take a few minutes.
100%

भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥

अन्वयः AI गुणवति! देवदारु-द्रुमाणाम् किसलय-पुटान् सद्यः भित्त्वा ये तत्-क्षीर-स्रुति-सुरभयः दक्षिणेन प्रवृत्ताः, एभिः तव अङ्गम् पूर्व-स्पृष्टम् भवेत् यदि किल इति (मत्वा) ते तुषाराद्रि-वाताः मया आलिङ्ग्यन्ते ।
Summary AI Addressing her as virtuous, he says he embraces the winds blowing from the snowy mountains. These winds, which have just burst open the buds of devadāru trees and are fragrant with their resinous sap, head southward. He embraces them with the hope that they might have previously touched her limbs, carrying a physical connection to her.
सारांश AI देवदारु के वृक्षों की कोपलों को फोड़कर निकलने वाले और उनके दूध से सुगंधित हिमालय की ठंडी हवाओं का मैं आलिंगन करता हूँ, यह सोचकर कि शायद इन हवाओं ने पहले तुम्हारे अंगों का स्पर्श किया होगा।
वल्लभदेवः हे गुणवति शीलान्विते सरलतरूणां तत्क्षणं पल्लवकवाटानुपमृद्य तद्द्रुमसम्बन्धिक्षीरस्रुतिसुगन्धयो ये हिमालयानिला दक्षिणेन प्रवृत्ता अस्यां दिशि वातुं प्रस्तुतास्ते मयाक्षिप्यन्ते । किमर्थम् । यदि किलैभिर्मारुतैः सहवासात्कदाचित्त्वदीयं शरीरं स्पृष्टं भवेत् । अतश्च । वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृशेः । बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् । दक्षिणेनेत्येनबन्तः ॥
पदच्छेदः AI
भित्त्वाभित्त्वा (√भिद्+क्त्वा) having split
सद्यःसद्यस् freshly
किसलयपुटान्किसलयपुट (२.३) the folded sprouts
देवदारुद्रुमाणांदेवदारुद्रुम (६.३) of the Deodar trees
येयद् (१.३) which (winds)
तत्क्षीरस्रुतिसुरभयःतद्क्षीरस्रुतिसुरभि (१.३) fragrant from the oozing of their sap
दक्षिणेनदक्षिणेन from the south
प्रवृत्ताःप्रवृत्त (प्र√वृत्+क्त, १.३) blowing
आलिङ्ग्यन्तेआलिङ्ग्यन्ते (आ√लिङ्ग् भावकर्मणोः लट् (आत्मने.) प्र.पु. बहु.) are embraced
गुणवतिगुणवत् (८.१) O virtuous one
मयाअस्मद् (३.१) by me
तेतद् (१.३) those
तुषाराद्रिवाताःतुषारअद्रिवात (१.३) winds from the snow-mountain
पूर्वस्पृष्टम्पूर्वस्पृष्ट (१.१) previously touched
यदियदि if
किलकिल perhaps
भवेत्भवेत् (√भू कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) might have been
अङ्गम्अङ्ग (१.१) body
एभिःइदम् (३.३) by these (winds)
तवयुष्मद् (६.१) your
इतिइति thus (thinking)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
भि त्त्वा द्यः कि पु टा न्दे दा रु द्रु मा णां
ये त्क्षी स्रु ति सु यो क्षि णे प्र वृ त्ताः
लि ङ्ग्य न्ते गु ति या ते तु षा रा द्रि वा ताः
पू र्व स्पृ ष्टं दि कि वे ङ्ग मे भि स्त वे ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.