त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालिप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥

अन्वयः AI धातु-रागैः शिलायाम् प्रणय-कुपिताम् त्वाम् आलिख्य यावत् आत्मानम् ते चरण-पतितम् कर्तुम् इच्छामि, तावत् मे दृष्टिः मुहुः उपचितैः अस्रैः आलिप्यते; क्रूरः कृतान्तः तस्मिन् अपि नौ सङ्गमम् न सहते ।
Summary AI The Yakṣa attempts to paint a portrait of his wife on a rock using mineral pigments, depicting her as angry in love while he prostrates himself at her feet. However, his vision is repeatedly blurred by welling tears. He concludes that cruel fate is so heartless that it cannot tolerate their union even within the confines of a painting.
सारांश AI जब मैं शिला पर गेरु आदि रंगों से तुम्हें प्रेम-कलह में रूठी हुई चित्रित कर स्वयं को तुम्हारे चरणों में गिरा हुआ दिखाना चाहता हूँ, तब आँखों में आँसू भर आने से दृष्टि धुंधली हो जाती है। क्रूर विधाता चित्र में भी हमारा मिलन सहन नहीं कर पाता।
वल्लभदेवः भवतीं प्रणयकुपितां प्रीत्या कपितां धातुरागैः सिन्दूरादिरागैर्दृषत्स्वालिख्य प्रार्थनयात्मानं तव पादगतं कर्तुं यावदिच्छामि तावत्त्वदाकारस्य स्मरणाद्बाष्परसकृदुपचितैवृद्धैश्चक्षुषी ममाच्छाद्येते । अतश्च तस्मिन्नपि त्वदाकारे तत्रापि चित्रे क्रूरो विषमो विधिर्नावावयोः समागमं न क्षमते ॥
पदच्छेदः AI
त्वाम्युष्मद् (२.१) you
आलिख्यआलिख्य (आ√लिख्+ल्यप्) having drawn
प्रणयकुपिताम्प्रणय–कुपिता (२.१) angry out of love
धातुरागैःधातुराग (३.३) with mineral colors
शिलायाम्शिला (७.१) on a rock slab
आत्मानम्आत्मन् (२.१) myself
तेयुष्मद् (६.१) your
चरणपतितम्चरणपतित (२.१) fallen at the feet
यावत्यावत् as soon as
इच्छामिइच्छामि (√इष् कर्तरि लट् (परस्मै.) उ.पु. एक.) I wish
कर्तुम्कर्तुम् (√कृ+तुमुन्) to make
अस्रैःअस्र (३.३) with tears
तावत्तावत् then
मुहुःमुहुस् again and again
उपचितैःउपचित (उप√चि+क्त, ३.३) by the accumulated
दृष्टिःदृष्टि (१.१) my vision
आलिप्यतेआलिप्यते (आ√लिप् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is blurred
मेअस्मद् (६.१) my
क्रूरःक्रूर (१.१) cruel
तस्मिन्तद् (७.१) in that (picture)
अपिअपि even
not
सहतेसहते (√सह् कर्तरि लट् (आत्मने.) प्र.पु. एक.) tolerates
संगमम्संगम (२.१) union
नौअस्मद् (६.२) of us two
कृतान्तःकृतान्त (१.१) Fate
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
त्वा मा लि ख्य प्र कु पि तां धा तु रा गैः शि ला या
मा त्मा नं ते ति तं या दि च्छा मि र्तुम्
स्रै स्ता न्मु हु रु चि तै र्दृ ष्टि रा लि प्य ते मे
क्रू स्त स्मि न्न पि ते सं मं नौ कृ ता न्तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.