Loading data... On slow networks this could take a few minutes.
100%

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता-
त्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनानामगम्य-
स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥

अन्वयः AI यत् अपि किल सखीनां पुरस्तात् आनन-स्पर्श-लोभात् कर्णे लोलः (सन्) शब्दाख्येयं कथयितुम् अभूत्, सः श्रवण-विषयम् अतिक्रान्तः लोचनानाम् अगम्यः त्वाम् उत्कण्ठा-विरचित-पदम् इदं मत्-मुखेन आह ।
Summary AI He who used to whisper in your ear even what could be said aloud, just for the desire of touching your face in the presence of friends, is now beyond the range of hearing and sight. He sends this message, composed of words born of longing, through my mouth.
सारांश AI वह जो पहले तुम्हारे कानों के पास सिर्फ़ स्पर्श के लोभ में बातें कहता था, अब तुम्हारी दृष्टि से दूर है। वह विरह में व्याकुल होकर मेरे माध्यम से यह संदेश भेज रहा है।
वल्लभदेवः स तव प्रियो मन्मुखेनेदं वक्ष्यमाणं त्वामाह ब्रवीति । स कः । यत्किल शब्दाख्येयं प्रकटवाच्यं तदपि सखीसंनिधाने व्याजं विधाय यस्तव कर्णे वक्तुं लोलः साकाङ्क्ष आसीत् । कुतो हेतोः । आननस्पर्शलोभात् । कर्णे कथनं हि तस्य त्वन्मुखस्पर्शसुखानुभवाय । कीदृशः सः । श्रवणविषयमतिकान्तोऽप्राप्तः । दूरस्थत्वात् । अत एव लोचनानामगम्यो नेत्रैर्द्रष्टुमशक्यः । उत्कण्ठया विरचितानि पदानि शब्दा यत्रेति कथनविशेषणम् ॥
पदच्छेदः AI
शब्दाख्येयम्शब्दआख्येय (२.१) what can be spoken aloud
यत्यद् (१.१) which
अपिअपि even
किलकिल indeed
तेयुष्मद् (६.१) your
यःयद् (१.१) he who
सखीनाम्सखि (६.३) of friends
पुरस्तात्पुरस्तात् in front
कर्णेकर्ण (७.१) in the ear
लोलःलोल (१.१) was eager
कथयितुम्कथयितुम् (√कथ+तुमुन्) to say
अभूत्अभूत् (√भू कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) was
आननस्पर्शलोभात्आननस्पर्शलोभ (५.१) from the desire to touch your face
सःतद् (१.१) he
अतिक्रान्तःअतिक्रान्त (अति√क्रम्+क्त, १.१) having gone beyond
श्रवणविषयम्श्रवणविषय (२.१) the range of hearing
लोचनानाम्लोचन (६.३) of the eyes
अगम्यःअगम्य (१.१) inaccessible
त्वाम्युष्मद् (२.१) to you
उत्कण्ठाविरचितपदम्उत्कण्ठाविरचितपद (२.१) with words composed out of longing
मन्मुखेनमत्मुख (३.१) through my mouth
इदम्इदम् (२.१) this
आहआह (√अह् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) says
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
ब्दा ख्ये यं पि कि ते यः खी नां पु स्ता
त्क र्णे लो लः यि तु भू दा स्प र्श लो भात्
सो ऽति क्रा न्तः श्र वि यं लो ना ना म्य
स्त्वा मु त्क ण्ठा वि चि दं न्मु खे ने मा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.