संजय उवाच ।
९.२७.१
तस्मिन्प्रवृत्ते संग्रामे नरवाजिगजक्षये ।
शकुनिः सौबलो राजन्सहदेवं समभ्ययात् ॥
शकुनिः सौबलो राजन्सहदेवं समभ्ययात् ॥
M N Dutt
Sanjaya said During the course of that battle which was so destructive of men and horses and elephants, Subala's son Shakuni, O king, proceeded against Sahadeva.
९.२७.२
ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान् ।
शरौघान्प्रेषयामास पतंगानिव शीघ्रगान् ।
उलूकश्च रणे भीमं विव्याध दशभिः शरैः ॥
शरौघान्प्रेषयामास पतंगानिव शीघ्रगान् ।
उलूकश्च रणे भीमं विव्याध दशभिः शरैः ॥
M N Dutt
The valiant Sahadeva, as Shakuni rushed quickly towards him, discharged shower of quick-coursing arrows at that warrior like a swarm of insects. At that time Uluka also met Bhima and struck him with ten arrows.
९.२७.३
शकुनिस्तु महाराज भीमं विद्ध्वा त्रिभिः शरैः ।
सायकानां नवत्या वै सहदेवमवाकिरत् ॥
सायकानां नवत्या वै सहदेवमवाकिरत् ॥
M N Dutt
O king, having struck Bhima with three arrows, Shakuni, meanwhile, covered Sahadeva with ninety.
९.२७.४
ते शूराः समरे राजन्समासाद्य परस्परम् ।
विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः ।
स्वर्णपुङ्खैः शिलाधौतैरा कर्णात्प्रहितैः शरैः ॥
विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः ।
स्वर्णपुङ्खैः शिलाधौतैरा कर्णात्प्रहितैः शरैः ॥
M N Dutt
Indeed, O king, encountering one another in that battle, those heroes, struck one another with many Kanka and peacock feathered keen arrows winged with gold, whetted on stone and shot off the bow-string drawn to their ears.
९.२७.५
तेषां चापभुजोत्सृष्टा शरवृष्टिर्विशां पते ।
आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः ॥
आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः ॥
M N Dutt
Those showers of arrows discharged from their bows and arms, O monarch, covered all the points of the horizon like a thick downpour of rain poured from the clouds.
९.२७.६
ततः क्रुद्धो रणे भीमः सहदेवश्च भारत ।
चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ ॥
चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ ॥
M N Dutt
Then Bhima, worked up with rage and the brave Sahadeva, both very powerful, moved about in that battle making a great onslaught.
९.२७.७
ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत ।
अन्धकारमिवाकाशमभवत्तत्र तत्र ह ॥
अन्धकारमिवाकाशमभवत्तत्र तत्र ह ॥
M N Dutt
That army, O Bharata, was shrouded with hundreds of arrows by those two warriors and the sky, on many parts of the field, was shrouded with darkness.
९.२७.८
अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशां पते ।
तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् ॥
तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून् ॥
M N Dutt
The horses struck with arrows, dragging after them as they ran a large number of killed warriors the passage in the battle-field was entirely blocked up.
९.२७.९
निहतानां हयानां च सहैव हययोधिभिः ।
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष ।
संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव ॥
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष ।
संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव ॥
M N Dutt
Covered with horses slain with their riders, with broken shields and lances and with swords and darts and spears all around the earth appeared to have been strewn with flowers.
९.२७.१०
योधास्तत्र महाराज समासाद्य परस्परम् ।
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् ॥
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम् ॥
M N Dutt
Soon the field was covered with heads, beautiful as the filaments of the lotus, bedecked with ear-rings and having faces set with eyes upturned in wrath and lips bit in rage.
९.२७.१४
अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे ।
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् ॥
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम् ॥
M N Dutt
After the Bharata army had bcen reduced to a small number, the Pandavas, filled with delight in that dreadful battle, began to slay the Kauravas.
९.२७.१५
एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान् ।
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ।
स विह्वलो महाराज रथोपस्थ उपाविशत् ॥
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ।
स विह्वलो महाराज रथोपस्थ उपाविशत् ॥
M N Dutt
Meanwhile the heroic and brave son of Subala forcibly struck Sahadeva in the head with a lance.
९.२७.१६
सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान् ।
सर्वसैन्यानि संक्रुद्धो वारयामास भारत ॥
सर्वसैन्यानि संक्रुद्धो वारयामास भारत ॥
M N Dutt
Beholding Sahadeva in that condition the valiant Bhima, worked up with rage, O Bharata, obstructed the entire Kuru army.
९.२७.१७
निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः ।
विनिर्भिद्याकरोच्चैव सिंहनादमरिंदम ॥
विनिर्भिद्याकरोच्चैव सिंहनादमरिंदम ॥
M N Dutt
With his cloth-yard shafts he struck hundreds and thousands of hostilo warriors and having struck them so, that chastiser of foes sent up a leonine roar.
९.२७.१८
तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः ।
प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः ॥
प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः ॥
M N Dutt
Terrified at that roar, all the followers of Shakuni, with their horses and elephants immediately fled away in fear.
९.२७.१९
प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत् ।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥
M N Dutt
Seeing them routed, king Duryodhana said to them-"Stop, you immoral Kshatriyas! fight! What is the use of fight?
९.२७.२०
इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते ।
प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन् ॥
प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन् ॥
M N Dutt
That hero, who unretreatingly sacrifices his life in battle, achieves fame here and enjoyes blissful regions hereafter!"-Thus exhorted by the king, the followers of Subala's son once more proceeded against the Pandavas, determined upon ineeting with death.
९.२७.२१
एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः ।
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥
M N Dutt
That hero, who unretreatingly sacrifices his life in battle, achieves fame here and enjoyes blissful regions hereafter!"-Thus exhorted by the king, the followers of Subala's son once more proceeded against the Pandavas, determined upon ineeting with death.
९.२७.२२
द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः ।
क्षुब्धसागरसंकाशः क्षुभितः सर्वतोऽभवत् ॥
क्षुब्धसागरसंकाशः क्षुभितः सर्वतोऽभवत् ॥
M N Dutt
O monarch, the noise made by those rushing warriors was terrible and resembled that of the agitated ocean. Thereat the field of battle was agitated all around.
९.२७.२३
तांस्तदापततो दृष्ट्वा सौबलस्य पदानुगान् ।
प्रत्युद्ययुर्महाराज पाण्डवा विजये वृताः ॥
प्रत्युद्ययुर्महाराज पाण्डवा विजये वृताः ॥
M N Dutt
Beholding those followers of Subala's son thus proceeding to battle, the victorious Pandavas, O monarch rushed against them.
९.२७.२४
प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते ।
शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ।
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव ॥
शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ।
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव ॥
M N Dutt
Relieved a little, the invincible Sahadeva, O monarch, struck Shakuni with ten arrows and his horses with three. He, without the slightest exertion, then cut off the bow of Subala's son with a number of other arrows.
९.२७.२५
अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः ।
विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः ॥
विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः ॥
M N Dutt
Invincible in battle, Shakuni, however, took up another bow and struck Nakula with sixty arrows and then Bhimasena with seven.
९.२७.२६
उलूकोऽपि महाराज भीमं विव्याध सप्तभिः ।
सहदेवं च सप्तत्या परीप्सन्पितरं रणे ॥
सहदेवं च सप्तत्या परीप्सन्पितरं रणे ॥
M N Dutt
Uluka also, O king, desirous of rescuing his father in that battle, struck Bhima with seven arrows and Sahadeva with seventy.
९.२७.२७
तं भीमसेनः समरे विव्याध निशितैः शरैः ।
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः ॥
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः ॥
M N Dutt
Bhimasena, in that battle, struck Uluka with many keen arrows and Shakuni with four and sixty and each of the other warriors who fought around them with three arrows.
९.२७.२८
ते हन्यमाना भीमेन नाराचैस्तैलपायितैः ।
सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः ।
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ॥
सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः ।
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः ॥
M N Dutt
Struck by Bhimasena with arrows steeped in oil, the Kauravas, exercised with rage in that battle, covered Sahadeva with showers of arrows like clouds accompanied with lightnings pursing rain on a mountain breast.
९.२७.२९
ततोऽस्यापततः शूरः सहदेवः प्रतापवान् ।
उलूकस्य महाराज भल्लेनापाहरच्छिरः ॥
उलूकस्य महाराज भल्लेनापाहरच्छिरः ॥
M N Dutt
The heroic and brave Sahadeva then, O king, cut off, with a broad-headed arrow, the head of Uluka as the latter proceeded against him.
९.२७.३०
स जगाम रथाद्भूमिं सहदेवेन पातितः ।
रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि ॥
रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि ॥
M N Dutt
Killed by Sahadeva, Uluka, cheering the Pandavas in that battle, dropped down on the earth from his car, covered with blood.
९.२७.३१
पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत ।
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ॥
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ॥
M N Dutt
Seeing his son slain, Shakuni, O Bharata, with voice suppressed in tears and sighing heavily, recollected the words of Vidura.
९.२७.३२
चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन् ।
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः ॥
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः ॥
M N Dutt
Having thought for a moment with tearful eyes, Shakuni, breathing heavily, approached Sahadeva and struck him with three arrows.
९.२७.३३
तानपास्य शरान्मुक्ताञ्शरसंघैः प्रतापवान् ।
सहदेवो महाराज धनुश्चिच्छेद संयुगे ॥
सहदेवो महाराज धनुश्चिच्छेद संयुगे ॥
M N Dutt
Counteracting those arrows shot by Subala's son with another downpour the brave Sahadeva, O king, sundered his antagonist's blow in that battle.
९.२७.३४
छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा ।
प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत् ॥
प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत् ॥
M N Dutt
Seeing his bow sundered, O king, Shakuni, the son of Subala, took up a formidable scimitar and discharged it at Sahadeva.
९.२७.३५
तमापतन्तं सहसा घोररूपं विशां पते ।
द्विधा चिच्छेद समरे सौबलस्य हसन्निव ॥
द्विधा चिच्छेद समरे सौबलस्य हसन्निव ॥
M N Dutt
The latter, however, O king, easily cut off in twain that terrible scimitar of Subala's son as it went towards him in that skirmish.
९.२७.३६
असिं दृष्ट्वा द्विधा छिन्नं प्रगृह्य महतीं गदाम् ।
प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि ॥
प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि ॥
M N Dutt
Beholding his sword cut in two parts Shakuni took up a dreadful mace and discharged it at Sahadeva. That mace also dropped down on the earth unsuccessful.
९.२७.३७
ततः शक्तिं महाघोरां कालरात्रिमिवोद्यताम् ।
प्रेषयामास संक्रुद्धः पाण्डवं प्रति सौबलः ॥
प्रेषयामास संक्रुद्धः पाण्डवं प्रति सौबलः ॥
M N Dutt
After this, Subala's son, worked up with rage threw at the son of Pandu a dreadful dart resembling an imminent death-night.
९.२७.३८
तामापतन्तीं सहसा शरैः काञ्चनभूषणैः ।
त्रिधा चिच्छेद समरे सहदेवो हसन्निव ॥
त्रिधा चिच्छेद समरे सहदेवो हसन्निव ॥
M N Dutt
The latter, however, O king, easily cut off in twain that terrible scimitar of Subala's son as it went towards him in that skirmish.
९.२७.३९
सा पपात त्रिधा छिन्ना भूमौ कनकभूषणा ।
शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा ॥
शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा ॥
M N Dutt
Cut off into piece that golden dart fell down on the earth like a burning thunder-bolt from the sky sending forth many flashes.
९.२७.४०
शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम् ।
दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः ॥
दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः ॥
M N Dutt
Seeing that dart unsuccessful and Subala's so possessed by fear, all your soldiers fled away. Subala's son also joined them.
९.२७.४१
अथोत्क्रुष्टं महद्ध्यासीत्पाण्डवैर्जितकाशिभिः ।
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन् ॥
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन् ॥
M N Dutt
The Pandavas then, anger for victory, sent up loud war-cries. As regards the Dhartarashtras, almost all of them fled away from the field.
९.२७.४२
तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान् ।
शरैरनेकसाहस्रैर्वारयामास संयुगे ॥
शरैरनेकसाहस्रैर्वारयामास संयुगे ॥
M N Dutt
Seeing them so dispirited the brave son of Madri, with many thousand arrows, opposed them in that battle.
९.२७.४३
ततो गान्धारकैर्गुप्तं पृष्ठैरश्वैर्जये धृतम् ।
आससाद रणे यान्तं सहदेवोऽथ सौबलम् ॥
आससाद रणे यान्तं सहदेवोऽथ सौबलम् ॥
M N Dutt
Then Sahadeva attacked Subala's son as the latter, who was still sanguine of success, was flying away guarded by the picked cavalry of the Gandharas.
९.२७.४४
स्वमंशमवशिष्टं स संस्मृत्य शकुनिं नृप ।
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् ।
अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः ॥
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात् ।
अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः ॥
M N Dutt
Recollecting, O king, that Shakuni, who had to be slain by him, was still alive, Sahadeva, on his car adorned with gold, pursued that warrior.
९.२७.४७
यत्तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले ।
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते ॥
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते ॥
M N Dutt
The energetic Sahadeva, having assailed his foes thus, addressed him, recollecting (his past misdeeds), in these words:-"Observing the duties of a Kshatriya, fight with me and show yourself to be a man! You, O fool, rejoiced greatly in the midst of the assembly, while gambling with dice. Receive now, O wicked man, the fruit of the act.
॥ इति ९.२७ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.