संजय उवाच ।
९.२५.८
ततोऽपरेण भल्लेन सर्वावरणभेदिना ।
श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः ॥
श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः ॥
M N Dutt
With another broad-headed arrow capable of cutting through every armour, Bhima next killed the great car-warrior, viz., your son Shrutanta.
९.२५.९
जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव ।
पातयामास कौरव्यं रथोपस्थादरिंदमः ।
स पपात रथाद्राजन्भूमौ तूर्णं ममार च ॥
पातयामास कौरव्यं रथोपस्थादरिंदमः ।
स पपात रथाद्राजन्भूमौ तूर्णं ममार च ॥
M N Dutt
Then striking Jayatsena easily with a clothyard shaft, that chastiser of foes, viz., the son of Pandu, struck down that action of Kuru's race from his car. The prince, O king, dropped down and immediately died.
९.२५.१०
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष ।
शतेन गृध्रवाजानां शराणां नतपर्वणाम् ॥
शतेन गृध्रवाजानां शराणां नतपर्वणाम् ॥
M N Dutt
Thereat your son Shrutarvan, worked up with rage, struck Bhima with a hundred straight arrows winged with feathers of vultures.
९.२५.११
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् ।
त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः ॥
त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः ॥
M N Dutt
Then Bhima, worked up with rage, struck Jaitra and Ravi and Bhuribala, with three arrows resembling poison or fire.
९.२५.१२
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः ।
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ॥
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ॥
M N Dutt
Those great car-warrior, thus struck, dropped down from their cars like Kinshukas blossoming in the spring.
९.२५.१३
ततोऽपरेण तीक्ष्णेन नाराचेन परंतपः ।
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे ॥
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे ॥
M N Dutt
Then that scorcher of foes, with another broad-headed and keen arrow, struck Durvimochana and killed him.
९.२५.१४
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः ।
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ॥
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ॥
M N Dutt
Thus struck, that best of car-warriors fell down on the ground from his car, like a tree growing on the summit of a mountain uprooted by the storm.
९.२५.१५
दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव ।
एकैकं न्यवधीत्संख्ये द्वाभ्यां द्वाभ्यां चमूमुखे ।
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ॥
एकैकं न्यवधीत्संख्ये द्वाभ्यां द्वाभ्यां चमूमुखे ।
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ॥
M N Dutt
The son of Pandu next struck your other two leading their forces, viz., Dushpradharsha and Sajata, each with a couple of arrows in that battle. Those two best of carwarriors, struck with those arrows, feil down.
९.२५.१६
ततो यतन्तमपरमभिवीक्ष्य सुतं तव ।
भल्लेन युधि विव्याध भीमो दुर्विषहं रणे ।
स पपात हतो वाहात्पश्यतां सर्वधन्विनाम् ॥
भल्लेन युधि विव्याध भीमो दुर्विषहं रणे ।
स पपात हतो वाहात्पश्यतां सर्वधन्विनाम् ॥
M N Dutt
Beholding another son of yours viz., Durvishaha and rushing at him, Bhima struck him with a broad-headed arrow in that battle. That prince dropped down from his car before all the bowmen.
९.२५.१७
दृष्ट्वा तु निहतान्भ्रातॄन्बहूनेकेन संयुगे ।
अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात् ॥
अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात् ॥
M N Dutt
Beholding so many of his brothers killed by Bhima alone in that battle, Shrutarvan, worked up with rage, rushed at Bhima, stretching his dreadful bow docket with gold and discharging a large number of arrows resembling poison or fire. sons
९.२५.१८
विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम् ।
विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून् ॥
विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून् ॥
M N Dutt
Beholding so many of his brothers killed by Bhima alone in that battle, Shrutarvan, worked up with rage, rushed at Bhima, stretching his dreadful bow docket with gold and discharging a large number of arrows resembling poison or fire. sons
९.२५.१९
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे ।
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ॥
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ॥
M N Dutt
Cutting off the bow of Pandu's son in that dreadful encounter, the Kuru prince struck the bowless Bhima with twenty arrows.
९.२५.२०
ततोऽन्यद्धनुरादाय भीमसेनो महारथः ।
अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत् ॥
अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत् ॥
M N Dutt
Then Bhimasena, that great car-warrior, taking up another bow, covered your son with arrows and said to him "Wait, wait."
९.२५.२१
महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् ।
यादृशं समरे पूर्वं जम्भवासवयोरभूत् ॥
यादृशं समरे पूर्वं जम्भवासवयोरभूत् ॥
M N Dutt
The encounter between the two was beautiful and dreadful, like that which took place in days of yore between Vasava and the Asura Jambha, O lord.
९.२५.२२
तयोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैः ।
समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा ॥
समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा ॥
M N Dutt
With the sharp arrows, resembling the dreadful rod of Yama, shot by those two warriors, the earth, the sky and all the points of the horizon were covered.
९.२५.२३
ततः श्रुतर्वा संक्रुद्धो धनुरायम्य सायकैः ।
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ॥
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ॥
M N Dutt
Then excited with rage, Shrutarvan took up his bow and struck Bhimasena in that battle, O king, with many arrows on his arms and chest.
९.२५.२४
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना ।
भीमः संचुक्षुभे क्रुद्धः पर्वणीव महोदधिः ॥
भीमः संचुक्षुभे क्रुद्धः पर्वणीव महोदधिः ॥
M N Dutt
Deeply cut, О king by your son armed with the bow, Bhima grew exceedingly agitated like the ocean at the full or the new moon.
९.२५.२५
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष ।
सारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम् ॥
सारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम् ॥
M N Dutt
Excited with ire Bhima then, O sire, killed with his arrows the driver and the four horses of your son.
९.२५.२६
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः ।
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ॥
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ॥
M N Dutt
Beholding him carless and displaying the lightness of his hand the great son of Pandu covered him with winged arrows.
९.२५.२७
श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी ।
अथास्याददतः खड्गं शतचन्द्रं च भानुमत् ।
क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः ॥
अथास्याददतः खड्गं शतचन्द्रं च भानुमत् ।
क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः ॥
M N Dutt
The carless Shrutarvan then, O king, took up a sword and shield. As the prince, however, moved about with his sword and shinning shield effulgent like a hundred moons, the son of Pandu cut off his head with a razor-headed arrow and dropped it on the earth.
९.२५.२८
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः ।
पपात कायः स रथाद्वसुधामनुनादयन् ॥
पपात कायः स रथाद्वसुधामनुनादयन् ॥
M N Dutt
The trunk of that great warrior, whose head was cut off by that razor-headed arrow, fell down from his car filling the earth with a loud noise.
९.२५.२९
तस्मिन्निपतिते वीरे तावका भयमोहिताः ।
अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः ॥
अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः ॥
M N Dutt
Upon the death of that hero, your soldiers, though terror-stricken, rushed in that battle against Bhimasena for fighting with him.
९.२५.३०
तानापतत एवाशु हतशेषाद्बलार्णवात् ।
दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् ।
ते तु तं वै समासाद्य परिवव्रुः समन्ततः ॥
दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् ।
ते तु तं वै समासाद्य परिवव्रुः समन्ततः ॥
M N Dutt
The brave Bhimasena, clad in mail, received those warriors rushing quickly at him who were not killed amongst that ocean of troops. Approaching him, those warriors, encircled that hero on all sides.
९.२५.३१
ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैः ।
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ॥
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ॥
M N Dutt
Thus surrounded by those warriors, Bhima began to assail them all with sharp arrows like the thousand-eyed deity assailing the Asuras.
९.२५.३२
ततः पञ्चशतान्हत्वा सवरूथान्महारथान् ।
जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥
जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥
M N Dutt
Having destroyed five hundred great cars with their fences, he again killed seven hundred elephants in that battle.
९.२५.३३
हत्वा दश सहस्राणि पत्तीनां परमेषुभिः ।
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ॥
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ॥
M N Dutt
Slaying next ten thousand infantry with his strong shafts, as also eight hundred horses, the son of Pandu shone there.
९.२५.३४
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव ।
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ॥
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ॥
M N Dutt
Indeed, having killed your sons in that battle, Bhimasena, the son of Kunti, regarded his object accomplished, O lord and birth fruitful.
९.२५.३५
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् ।
ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत ॥
ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत ॥
M N Dutt
Your soldiers, at that time, O Bharata, dared not even took at that warrior who was fighting in that fashion and killing your men in that way.
९.२५.३६
विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान् ।
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ॥
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ॥
M N Dutt
Scattering all the Kurus and killing their followers Bhima then slapped his armpits, terrifying the huge elephants with the noise.
९.२५.३७
हतभूयिष्ठयोधा तु तव सेना विशां पते ।
किंचिच्छेषा महाराज कृपणा समपद्यत ॥
किंचिच्छेषा महाराज कृपणा समपद्यत ॥
M N Dutt
Then your army, O king, which had lost a very large number of men and consisted of a very few soldiers, became highly depressed. O king.
॥ इति ९.२५ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.