संजय उवाच ।
९.२४.१
अस्यतां यतमानानां शूराणामनिवर्तिनाम् ।
संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः ॥
संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः ॥
M N Dutt
Sanjaya said With his Gandiva, Dhananjaya baffled the purpose of those unretreating heroes struggling in battle and striking their enemies.
९.२४.२
इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः ।
विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः ॥
विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः ॥
M N Dutt
The arrows shot by Arjuna, irresistible and endued with great force and whose touch was like that of the thunder, resembled torrents of rain poured by a cloud.
९.२४.३
तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना ।
संप्रदुद्राव संग्रामात्तव पुत्रस्य पश्यतः ॥
संप्रदुद्राव संग्रामात्तव पुत्रस्य पश्यतः ॥
M N Dutt
That army, O chief of the Bharatas' thus struck by Kiritin, fled away before the very eyes of your son.
९.२४.५
अन्येषां सायकाः क्षीणास्तथान्ये शरपीडिताः ।
अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः ॥
अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः ॥
M N Dutt
The arrows of some were exhausted. Some were assailed with arrows. Some, though unwounded, fled in a body, stricken with fear.
९.२४.६
केचित्पुत्रानुपादाय हतभूयिष्ठवाहनाः ।
विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः ॥
विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः ॥
M N Dutt
Some tried to rescue their sons, having lost all their kinsmen and animals. Some loudly called their father, some their comrades and followers.
९.२४.७
बान्धवांश्च नरव्याघ्र भ्रातॄन्संबन्धिनस्तथा ।
दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते ॥
दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते ॥
M N Dutt
Some fled, leaving behind their kinsmen, O foremost of men and brothers and other relatives.
९.२४.८
बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः ।
निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः ॥
निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः ॥
M N Dutt
Many great car-warriors, struck with Partha's arrows and deeply wounded therewith, breathed hard, deprived of their senses.
९.२४.९
तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकम् ।
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे ॥
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे ॥
M N Dutt
Others, taking them up on their own cars and soothing them for some time and resting them and satisfying their thirst by offering them drink, once more proceeded to battle.
९.२४.१०
तानपास्य गताः केचित्पुनरेव युयुत्सवः ।
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ॥
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ॥
M N Dutt
Leaving behind the wounded, some, incapable of being easily defeated in battle once more advanced to battle desirous of carrying out the commands of your son.
९.२४.११
पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् ।
वर्माणि च समारोप्य केचिद्भरतसत्तम ॥
वर्माणि च समारोप्य केचिद्भरतसत्तम ॥
M N Dutt
Some, having satisfied their thirst or rested their animals and some wearing (flesh) armours, O chief of the Bharatas and some, having comforted their brothers and sons and father and placed them in camp, once more came to battle.
९.२४.१२
समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च ।
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् ॥
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् ॥
M N Dutt
Some, having satisfied their thirst or rested their animals and some wearing (flesh) armours, O chief of the Bharatas and some, having comforted their brothers and sons and father and placed them in camp, once more came to battle.
९.२४.१३
सज्जयित्वा रथान्केचिद्यथामुख्यं विशां पते ।
आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन् ॥
आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन् ॥
M N Dutt
Some, arranging their cars in order, O king, of superiors and inferiors, proceeded against the Pandavas once more for battle.
९.२४.१४
ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे ।
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः ॥
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः ॥
M N Dutt
On their cars adorned with rows of bells, those heroes shone like Daityas and Danavas desirous of conquering the three worlds.
९.२४.१५
आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः ।
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् ॥
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् ॥
M N Dutt
Some, advancing quickly on their cars decked with gold, fought with Dhrishtadyumna amid the Pandava army.
९.२४.१६
धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः ।
नाकुलिश्च शतानीको रथानीकमयोधयन् ॥
नाकुलिश्च शतानीको रथानीकमयोधयन् ॥
M N Dutt
The Panchala prince Dhrishtadyumna and the great car-warrior Shikhandin and Shatanika the son of Nakula, fought with the car-division of the enemy.
९.२४.१७
पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः ।
अभ्यद्रवत्सुसंरब्धस्तावकान्हन्तुमुद्यतः ॥
अभ्यद्रवत्सुसंरब्धस्तावकान्हन्तुमुद्यतः ॥
M N Dutt
Worked up with rage and supported by a large army, the Panchala prince rushed against your infuriated soldiers from desire of killing them.
९.२४.१८
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप ।
बाणसंघाननेकान्वै प्रेषयामास भारत ॥
बाणसंघाननेकान्वै प्रेषयामास भारत ॥
M N Dutt
Then your son, O king, discharged many arrows, O Bharata, at the Panchala prince thus rushing at hiin.
९.२४.१९
धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना ।
नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः ॥
नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः ॥
M N Dutt
Then O king, Dhrishtadyumna was quickly cut with many arrows in his arms and chest by your son fighting with his bow.
९.२४.२०
सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः ।
तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे ।
सारथेश्चास्य भल्लेन शिरः कायादपाहरत् ॥
तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे ।
सारथेश्चास्य भल्लेन शिरः कायादपाहरत् ॥
M N Dutt
Deeply cut therewith like an elephant with pointed lances, then great bowman then killed with his arrows the four horses of Duryodhana. With another broad-headed arrow he sundered, from his trunk; the head of his enemy's driver.
९.२४.२१
ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः ।
अपाक्रामद्धतरथो नातिदूरमरिंदमः ॥
अपाक्रामद्धतरथो नातिदूरमरिंदमः ॥
M N Dutt
Then that grinder of foes, viz., king Duryodhana, having thus lost his car, rode on horseback and retreated to a little distance.
९.२४.२२
दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः ।
तव पुत्रो महाराज प्रययौ यत्र सौबलः ॥
तव पुत्रो महाराज प्रययौ यत्र सौबलः ॥
M N Dutt
Beholding his own army thus enfeebled, your son, the mighty Duryodhana, O king, proceeded where Subala's son was.
९.२४.२३
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः ।
पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारयन् ॥
पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारयन् ॥
M N Dutt
When the Kaurava cars were broken, the thousand huge elephants encompassed those car-warriors, viz., the five Pandavas.
९.२४.२४
ते वृताः समरे पञ्च गजानीकेन भारत ।
अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव ॥
अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव ॥
M N Dutt
Encompassed by that elephant, O Bharata, the five brothers looked beautiful, O foremost of men, like the planets surrounded by the clouds.
९.२४.२५
ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः ।
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः ॥
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः ॥
M N Dutt
Then the mighty-armed Arjuna, O king, of sure aim, having Krishna for his driver and white horses, advanced on his car.
९.२४.२६
तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः ।
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत् ॥
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत् ॥
M N Dutt
Surrounded by mountain-like elephants he began to destroy those animals with his keen and polished arrows.
९.२४.२७
तत्रैकबाणनिहतानपश्याम महागजान् ।
पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना ॥
पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना ॥
M N Dutt
Each killed with a single arrows, we saw those huge elephants fallen or falling down, wounded by Savyasachin.
९.२४.२८
भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः ।
करेण गृह्य महतीं गदामभ्यपतद्बली ।
अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ॥
करेण गृह्य महतीं गदामभ्यपतद्बली ।
अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ॥
M N Dutt
The powerful Bhimasena, himself like an infuriate elephant, seeing those elephants, took up his formidable mace and rushed at them, quickly jumping down from his car, like the Destroyer armed with his club.
९.२४.२९
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् ।
वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः ।
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे ॥
वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः ।
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे ॥
M N Dutt
Seeing that great car-warrior of the Pandavas with uplifted mace, your soldiers were possessed by fear and passed urine and excreta.
९.२४.३०
गदया भीमसेनेन भिन्नकुम्भान्रजस्वलान् ।
धावमानानपश्याम कुञ्जरान्पर्वतोपमान् ॥
धावमानानपश्याम कुञ्जरान्पर्वतोपमान् ॥
M N Dutt
The whole army were agitated upon seeing Bhimasena armed with mace. We then saw those elephants, huge as hills, running hither and thither, with their frontal globes cut open by Bhima with his mace and all their limbs covered with blood.
९.२४.३१
प्रधाव्य कुञ्जरास्ते तु भीमसेनगदाहताः ।
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः ॥
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः ॥
M N Dutt
Struck with Bhima's mace, those elephants, running off from him, dropped down crying like mountains with their wings cut off.
९.२४.३२
तान्भिन्नकुम्भान्सुबहून्द्रवमाणानितस्ततः ।
पतमानांश्च संप्रेक्ष्य वित्रेसुस्तव सैनिकाः ॥
पतमानांश्च संप्रेक्ष्य वित्रेसुस्तव सैनिकाः ॥
M N Dutt
Beholding those numberless elephants, with their frontal globes cut open, running hither and thither or falling down your soidiers were possessed by fear.
९.२४.३३
युधिष्ठिरोऽपि संक्रुद्धो माद्रीपुत्रौ च पाण्डवौ ।
गृध्रपक्षैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः ॥
गृध्रपक्षैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः ॥
M N Dutt
Then Yudhishthira also, worked up with anger and the two sons of Madri, began to kill those elephant-warriors with arrows having wings like those of vultures.
९.२४.३४
धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम् ।
अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते ॥
अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते ॥
M N Dutt
Dhrishtadyumna, after the defeat of the Kuru king in battle and after the fight of the latter from that spot of horse-back, saw that the Pandavas had all been encircled by the Kaurava elephants.
९.२४.३५
दृष्ट्वा च पाण्डवान्सर्वान्कुञ्जरैः परिवारितान् ।
धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः ।
पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ ॥
धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः ।
पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ ॥
M N Dutt
Beholding this, O king, Dhrishtadyumna, the son of the Panchala king proceeded towards those elephants to kill them.
९.२४.३६
अदृष्ट्वा तु रथानीके दुर्योधनमरिंदमम् ।
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः ॥
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः ॥
M N Dutt
In the meantime not seeing Duryodhana in the midst of the car-force, Ashvathaman and Kripa, the Kritavarman of the Satwata race, asked all the Kshatriyas, saying-"Where had Duryodhana gone.'
९.२४.३७
अपश्यमाना राजानं वर्तमाने जनक्षये ।
मन्वाना निहतं तत्र तव पुत्रं महारथाः ।
विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ॥
मन्वाना निहतं तत्र तव पुत्रं महारथाः ।
विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ॥
M N Dutt
Not seeing the king in the midst of that onslaught all those great car-warriors took him for dead and therefore with sorrowful faces, they enquired after him.
९.२४.३९
दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति ।
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति ॥
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति ॥
M N Dutt
Others, who had been greatly wounded said-"What necessity is there with Duryodhana. See, if he is yet alive. Do you all fight in a body, what will the king do to you."
९.२४.४०
ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः ।
शरैः संपीड्यमानाश्च नातिव्यक्तमिवाब्रुवन् ॥
शरैः संपीड्यमानाश्च नातिव्यक्तमिवाब्रुवन् ॥
M N Dutt
Other Kshatriyas, who were greatly wounded and who had lost many of their relatives and who were still being struck with the arrows of the enemy, said these words indistinctly.
९.२४.४१
इदं सर्वं बलं हन्मो येन स्म परिवारिताः ।
एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः ॥
एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः ॥
M N Dutt
"Let us kill these forces by whom we are encircled. See the Pandavas are coming here after having killed the elephants.
९.२४.४२
श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः ।
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ॥
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ॥
M N Dutt
Hearing these words, the powerful Ashvatthaman, cutting through that irresistible force of the Panchala king, went with Kripa and Kritavarman, where Subala's son was. Infect leaving the car-force, those heroes, those firm bowmen, went to find out Duryodhana.
९.२४.४३
कृपश्च कृतवर्मा च प्रययुर्यत्र सौबलः ।
रथानीकं परित्यज्य शूराः सुदृढधन्विनः ॥
रथानीकं परित्यज्य शूराः सुदृढधन्विनः ॥
M N Dutt
Hearing these words, the powerful Ashvatthaman, cutting through that irresistible force of the Panchala king, went with Kripa and Kritavarman, where Subala's son was. Infect leaving the car-force, those heroes, those firm bowmen, went to find out Duryodhana.
९.२४.४४
ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः ।
आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् ॥
आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् ॥
M N Dutt
After their departure, the Pandavas, headed by Dhrishtadyumna, advanced, O king and began to kill their enemies.
९.२४.४५
दृष्ट्वा तु तानापततः संप्रहृष्टान्महारथान् ।
पराक्रान्तांस्ततो वीरान्निराशाञ्जीविते तदा ।
विवर्णमुखभूयिष्ठमभवत्तावकं बलम् ॥
पराक्रान्तांस्ततो वीरान्निराशाञ्जीविते तदा ।
विवर्णमुखभूयिष्ठमभवत्तावकं बलम् ॥
M N Dutt
Beholding those brave, heroic and powerful car-warriors rushing joyously towards them, your soldiers, whose faces grew pale, became despondent of their lives.
९.२४.४८
संप्रयुद्धा वयं पञ्च किरीटिशरपीडिताः ।
धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान् ।
जितास्तेन वयं सर्वे व्यपयाम रणात्ततः ॥
धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान् ।
जितास्तेन वयं सर्वे व्यपयाम रणात्ततः ॥
M N Dutt
We had been cut with the arrows of Arjuna and still a fierce encounter took place between us and the army of Dhrishtadyumna. At last, defeated by the latter, all of us retreated from that battle.
९.२४.४९
अथापश्यं सात्यकिं तमुपायान्तं महारथम् ।
रथैश्चतुःशतैर्वीरो मां चाभ्यद्रवदाहवे ॥
रथैश्चतुःशतैर्वीरो मां चाभ्यद्रवदाहवे ॥
M N Dutt
I then beheld the great car-warrior Satyaki rushing against us. With four hundred cars that hero pursued me in battle.
॥ इति ९.२४ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.