संजय उवाच ।
९.१८.१
पातिते युधि दुर्धर्षे मद्रराजे महारथे ।
तावकास्तव पुत्राश्च प्रायशो विमुखाभवन् ॥
तावकास्तव पुत्राश्च प्रायशो विमुखाभवन् ॥
M N Dutt
Sanjaya said Upon the destruction of that great king of Madra and great car-warrior, that invincible hero, (viz., Shalya) in battle, your troops and sons almost all fled away from the field.
९.१८.२
वणिजो नावि भिन्नायां यथागाधेऽप्लवेऽर्णवे ।
अपारे पारमिच्छन्तो हते शूरे महात्मनि ॥
अपारे पारमिच्छन्तो हते शूरे महात्मनि ॥
M N Dutt
Indeed, upon the slaughter of that hero by the illustrious Yudhishthira, your troops were like ship-wrecked merchants on the deep ocean want to cross it.
९.१८.३
मद्रराजे महाराज वित्रस्ताः शरविक्षताः ।
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥
अनाथा नाथमिच्छन्तो मृगाः सिंहार्दिता इव ॥
M N Dutt
After the destruction of the Madra king, O monarch, you troops, filled with fear and wounded with arrows, were like men having none to help them and desirous of a protector or a herd of deer assailed by a lion.
९.१८.४
वृषा यथा भग्नशृङ्गाः शीर्णदन्ता गजा इव ।
मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना ॥
मध्याह्ने प्रत्यपायाम निर्जिता धर्मसूनुना ॥
M N Dutt
Like bulls deprive of their horns or elephants with tusks broken, your troops, defeated by Yudhishthira having no enemies, fled away at mid-day.
९.१८.५
न संधातुमनीकानि न च राजन्पराक्रमे ।
आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ॥
आसीद्बुद्धिर्हते शल्ये तव योधस्य कस्यचित् ॥
M N Dutt
After the fall of Shalya, O king, none amongst your troops had the mind of either rallying the army or displaying his prowess.
९.१८.६
भीष्मे द्रोणे च निहते सूतपुत्रे च भारत ।
यद्दुःखं तव योधानां भयं चासीद्विशां पते ।
तद्भयं स च नः शोको भूय एवाभ्यवर्तत ॥
यद्दुःखं तव योधानां भयं चासीद्विशां पते ।
तद्भयं स च नः शोको भूय एवाभ्यवर्तत ॥
M N Dutt
O king, we expressed that grief, which had been ours upon the fall of Bhishma, of Drone and of the Suta's son, O Bharata.
९.१८.७
निराशाश्च जये तस्मिन्हते शल्ये महारथे ।
हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः ।
मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥
हतप्रवीरा विध्वस्ता विकृत्ताश्च शितैः शरैः ।
मद्रराजे हते राजन्योधास्ते प्राद्रवन्भयात् ॥
M N Dutt
Giving up hopes of success upon the fall of the great car-warrior Shalya, the Kuru army, with its heroes slain and exceedingly confused, were killed with keen arrows. Upon the destruction of the Madra king, O monarch, your warriors all fled away in fear.
९.१८.८
अश्वानन्ये गजानन्ये रथानन्ये महारथाः ।
आरुह्य जवसंपन्नाः पादाताः प्राद्रवन्भयात् ॥
आरुह्य जवसंपन्नाः पादाताः प्राद्रवन्भयात् ॥
M N Dutt
Some on horse-back, some on elephants, some on cars, great car-warriors and footsoldiers, all fled away in fear.
९.१८.९
द्विसाहस्राश्च मातङ्गा गिरिरूपाः प्रहारिणः ।
संप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः ॥
संप्राद्रवन्हते शल्ये अङ्कुशाङ्गुष्ठचोदिताः ॥
M N Dutt
Two thousand elephants, looking like hills and capable of smiting, fled away, after Shalya's fall, goaded with hooks and toes.
९.१८.१०
ते रणाद्भरतश्रेष्ठ तावकाः प्राद्रवन्दिशः ।
धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः ॥
धावन्तश्चाप्यदृश्यन्त श्वसमानाः शरातुराः ॥
M N Dutt
Indeed chief of the Bharatas, your soldiers fled on all sides. Stuck with arrows, they were seen to run, breathing hard.
९.१८.११
तान्प्रभग्नान्द्रुतान्दृष्ट्वा हतोत्साहान्पराजितान् ।
अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥
अभ्यद्रवन्त पाञ्चालाः पाण्डवाश्च जयैषिणः ॥
M N Dutt
Beholding them defeated the Pandavas, filled with the desire of victory, pursued them.
९.१८.१२
बाणशब्दरवश्चापि सिंहनादश्च पुष्कलः ।
शङ्खशब्दश्च शूराणां दारुणः समपद्यत ॥
शङ्खशब्दश्च शूराणां दारुणः समपद्यत ॥
M N Dutt
The sound of arrows and the loud leonine roars and the blare of conchs, of heroic warriors were heard there,
९.१८.१३
दृष्ट्वा तु कौरवं सैन्यं भयत्रस्तं प्रविद्रुतम् ।
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ॥
अन्योन्यं समभाषन्त पाञ्चालाः पाण्डवैः सह ॥
M N Dutt
Beholding the Kauravas agitated with fear and flying away, the Panchalas and the Pandavas addressed one another, saying.
९.१८.१४
अद्य राजा सत्यधृतिर्जितामित्रो युधिष्ठिरः ।
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ॥
अद्य दुर्योधनो हीनो दीप्तया नृपतिश्रिया ॥
M N Dutt
To day the truthful king Yudhishthira, had defeated his enemies. Today Duryodhana has been divested of his splendour and royal prosperity.
९.१८.१५
अद्य श्रुत्वा हतं पुत्रं धृतराष्ट्रो जनेश्वरः ।
निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम् ॥
निःसंज्ञः पतितो भूमौ किल्बिषं प्रतिपद्यताम् ॥
M N Dutt
Today, hearing of his son's death, Dhritarashtra, that king of men, will lose consciousness, lie down on the Earth and feel the keenest pain.
९.१८.१६
अद्य जानातु कौन्तेयं समर्थं सर्वधन्विनाम् ।
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ।
अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् ॥
अद्यात्मानं च दुर्मेधा गर्हयिष्यति पापकृत् ।
अद्य क्षत्तुर्वचः सत्यं स्मरतां ब्रुवतो हितम् ॥
M N Dutt
Let him know today that the son of Kunti is the most powerful of all bowmen. Today that sinful and wicked-hearted king will blame his own self.
९.१८.१७
अद्यप्रभृति पार्थांश्च प्रेष्यभूत उपाचरन् ।
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ॥
विजानातु नृपो दुःखं यत्प्राप्तं पाण्डुनन्दनैः ॥
M N Dutt
Let him recollect today the time and wholesome words of Vidura. Let him from this day wait upon the Parthas as their slave. Let that king today feel the grief that had been experienced by the sons of Pandu.
९.१८.१८
अद्य कृष्णस्य माहात्म्यं जानातु स महीपतिः ।
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ॥
अद्यार्जुनधनुर्घोषं घोरं जानातु संयुगे ॥
M N Dutt
Let that king know today the greatness of Krishna. Let him hear today the terrible twang of Arjuna's bow in battle, as also the force of all his weapons and the strength of his arms in fight.
९.१८.२०
हते दुर्योधने युद्धे शक्रेणेवासुरे मये ।
यत्कृतं भीमसेनेन दुःशासनवधे तदा ।
नान्यः कर्तास्ति लोके तदृते भीमं महाबलम् ॥
यत्कृतं भीमसेनेन दुःशासनवधे तदा ।
नान्यः कर्तास्ति लोके तदृते भीमं महाबलम् ॥
M N Dutt
Except Bhima there is none else in this world that can achieve that which Bhima accomplished by killing Dushasana.
९.१८.२१
जानीतामद्य ज्येष्ठस्य पाण्डवस्य पराक्रमम् ।
मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ॥
मद्रराजं हतं श्रुत्वा देवैरपि सुदुःसहम् ॥
M N Dutt
Hearing of the death of the ruler of the Madras who was incapable of defeat by the very celestials, that king will know the prowess of Yudhishthira.
९.१८.२२
अद्य ज्ञास्यति संग्रामे माद्रीपुत्रौ महाबलौ ।
निहते सौबले शूरे गान्धारेषु च सर्वशः ॥
निहते सौबले शूरे गान्धारेषु च सर्वशः ॥
M N Dutt
After the destruction of the heroic son of Subala and of all the Gandharas he will know the strength, in battle of the two sons of Madri by Pandu.
९.१८.२३
कथं तेषां जयो न स्याद्येषां योद्धा धनंजयः ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥
M N Dutt
Why will they not be victorious who have Dhananjaya for their warrior, as also Satyaki and Bhimasena and Dhrishtadyumna the son of Prishata and the five sons of Draupadi and the Iwo sons of and the great bowman Shikhandin and king Yudhishthira.
९.१८.२४
द्रौपद्यास्तनयाः पञ्च माद्रीपुत्रौ च पाण्डवौ ।
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ॥
शिखण्डी च महेष्वासो राजा चैव युधिष्ठिरः ॥
M N Dutt
Why will they not be victorious who have Dhananjaya for their warrior, as also Satyaki and Bhimasena and Dhrishtadyumna the son of Prishata and the five sons of Draupadi and the Iwo sons of and the great bowman Shikhandin and king Yudhishthira.
९.१८.२५
येषां च जगतां नाथो नाथः कृष्णो जनार्दनः ।
कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ॥
कथं तेषां जयो न स्याद्येषां धर्मो व्यपाश्रयः ॥
M N Dutt
Why will they be not victorious who have for their protector Krishna, called Janardana, the protector of the universe? Why will they not be victorious who are righteous?
९.१८.२६
भीष्मं द्रोणं च कर्णं च मद्रराजानमेव च ।
तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ॥
तथान्यान्नृपतीन्वीराञ्शतशोऽथ सहस्रशः ॥
M N Dutt
Who else than Yudhishthira the son of Pritha, who has Hrishikesha, the refuge of justice and glory for his protector, is competent to defeat in battle Bhishma, Drona and Karna and the king of the Madras and the other kings by hundreds and thousands.
९.१८.२७
कोऽन्यः शक्तो रणे जेतुमृते पार्थं युधिष्ठिरम् ।
यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः ॥
यस्य नाथो हृषीकेशः सदा धर्मयशोनिधिः ॥
M N Dutt
Who else than Yudhishthira the son of Pritha, who has Hrishikesha, the refuge of justice and glory for his protector, is competent to defeat in battle Bhishma, Drona and Karna and the king of the Madras and the other kings by hundreds and thousands.
९.१८.२८
इत्येवं वदमानास्ते हर्षेण महता युताः ।
प्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः ॥
प्रभग्नांस्तावकान्राजन्सृञ्जयाः पृष्ठतोऽन्वयुः ॥
M N Dutt
Saying these words and filled with joy, the Srinjayas pursued your soldiers in that battle who had been exceedingly wounded with arrows. as
९.१८.२९
धनंजयो रथानीकमभ्यवर्तत वीर्यवान् ।
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ॥
माद्रीपुत्रौ च शकुनिं सात्यकिश्च महारथः ॥
M N Dutt
Then Dhananjaya proceeded against the car-division of the foe. The two sons of Madri and the great car-warrior Satyaki proceeded against Shakuni.
९.१८.३०
तान्प्रेक्ष्य द्रवतः सर्वान्भीमसेनभयार्दितान् ।
दुर्योधनस्तदा सूतमब्रवीदुत्स्मयन्निव ॥
दुर्योधनस्तदा सूतमब्रवीदुत्स्मयन्निव ॥
M N Dutt
Beholding them all flying quickly in fear of Bhimasena, Duryodhana, if smiling, addressed his driver, saying-Partha, who is there with his bow, is going before me. Take my horses to the back of the army.
९.१८.३१
न मातिक्रमते पार्थो धनुष्पाणिमवस्थितम् ।
जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय ॥
जघने सर्वसैन्यानां ममाश्वान्प्रतिपादय ॥
M N Dutt
Beholding them all flying quickly in fear of Bhimasena, Duryodhana, if smiling, addressed his driver, saying-Partha, who is there with his bow, is going before me. Take my horses to the back of the army.
९.१८.३२
जघने युध्यमानं हि कौन्तेयो मां धनंजयः ।
नोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः ॥
नोत्सहेताभ्यतिक्रान्तुं वेलामिव महोदधिः ॥
M N Dutt
Like the ocean that cannot go beyond its continents, Kunti's son Dhananjaya will never dare go before me if I stand in the fear.
९.१८.३३
पश्य सैन्यं महत्सूत पाण्डवैः समभिद्रुतम् ।
सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः ॥
सैन्यरेणुं समुद्धूतं पश्यस्वैनं समन्ततः ॥
M N Dutt
Look, O driver, at this vast army that is pursued by the Pandavas! Behold this cloud of dust that has arisen on all sides on account of the motion of the troops.
९.१८.३४
सिंहनादांश्च बहुशः शृणु घोरान्भयानकान् ।
तस्माद्याहि शनैः सूत जघनं परिपालय ॥
तस्माद्याहि शनैः सूत जघनं परिपालय ॥
M N Dutt
Hear, those various leonine roars that are so awful and loud. Therefore, O driver, move slowly and wait in the rear.
९.१८.३५
मयि स्थिते च समरे निरुद्धेषु च पाण्डुषु ।
पुनरावर्तते तूर्णं मामकं बलमोजसा ॥
पुनरावर्तते तूर्णं मामकं बलमोजसा ॥
M N Dutt
If I stay in battle and fight the Pandavas, my army, O driver, will rally and fight again vigorously. Hearing these words of your son becoming a hero and a man of honour, the driver slowly drove his horses adorned with gold trappings.
९.१८.३६
तच्छ्रुत्वा तव पुत्रस्य शूराग्र्यसदृशं वचः ।
सारथिर्हेमसंछन्नाञ्शनैरश्वानचोदयत् ॥
सारथिर्हेमसंछन्नाञ्शनैरश्वानचोदयत् ॥
M N Dutt
If I stay in battle and fight the Pandavas, my army, O driver, will rally and fight again vigorously. Hearing these words of your son becoming a hero and a man of honour, the driver slowly drove his horses adorned with gold trappings.
९.१८.३७
गजाश्वरथिभिर्हीनास्त्यक्तात्मानः पदातयः ।
एकविंशतिसाहस्राः संयुगायावतस्थिरे ॥
एकविंशतिसाहस्राः संयुगायावतस्थिरे ॥
M N Dutt
One and twenty thousand foot-soldiers, deprived of elephants and horses and carwarriors and who were ready to lose their lives, still stood for battle.
९.१८.३८
नानादेशसमुद्भूता नानारञ्जितवाससः ।
अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ॥
अवस्थितास्तदा योधाः प्रार्थयन्तो महद्यशः ॥
M N Dutt
Born in different countries and coming from different towns, those warriors maintained their ground, desirous of gaining great fame.
९.१८.३९
तेषामापततां तत्र संहृष्टानां परस्परम् ।
संमर्दः सुमहाञ्जज्ञे घोररूपो भयानकः ॥
संमर्दः सुमहाञ्जज्ञे घोररूपो भयानकः ॥
M N Dutt
The clash of those rushing warriors elated with joy was loud and exceedingly terrible.
९.१८.४०
भीमसेनं तदा राजन्धृष्टद्युम्नं च पार्षतम् ।
बलेन चतुरङ्गेण नानादेश्या न्यवारयन् ॥
बलेन चतुरङ्गेण नानादेश्या न्यवारयन् ॥
M N Dutt
Then Bhimasena, O king and Dhrishtadyumna, the son of Prishata, opposed them with four-fold forces.
९.१८.४१
भीममेवाभ्यवर्तन्त रणेऽन्ये तु पदातयः ।
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ॥
प्रक्ष्वेड्यास्फोट्य संहृष्टा वीरलोकं यियासवः ॥
M N Dutt
Other foot-soldiers, all actuated with the desire of victory, proceeded against Bhima, uttering loud cries and slapping their armpits, by the desire of going to heaven.
९.१८.४२
आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः ।
धार्तराष्ट्रा विनेदुर्हि नान्यां चाकथयन्कथाम् ।
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ॥
धार्तराष्ट्रा विनेदुर्हि नान्यां चाकथयन्कथाम् ।
परिवार्य रणे भीमं निजघ्नुस्ते समन्ततः ॥
M N Dutt
Filled with rage and invincible in battle those heroes, belonging to your party, approached Bhimasena and cried aloud. They then spoke not to one another. Encircling Bhima in that battle, they began to strike him from all sides.
९.१८.४३
स वध्यमानः समरे पदातिगणसंवृतः ।
न चचाल रथोपस्थे मैनाक इव पर्वतः ॥
न चचाल रथोपस्थे मैनाक इव पर्वतः ॥
M N Dutt
Encircled by that huge body of infantry and struck by them in that battle Bhima did not stir from where he stood are remained motionless like the Mainaka mountain.
९.१८.४४
ते तु क्रुद्धा महाराज पाण्डवस्य महारथम् ।
निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारयन् ॥
निग्रहीतुं प्रचक्रुर्हि योधांश्चान्यानवारयन् ॥
M N Dutt
His antagonists meanwhile, filled with rage, O monarch, tried to assail that great car-warrior of the Pandavas and opposed other combatants (that tried to rescue him).
९.१८.४५
अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः ।
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ॥
सोऽवतीर्य रथात्तूर्णं पदातिः समवस्थितः ॥
M N Dutt
Encountered by those warriors, Bhima became furious. And quickly getting down from his car, he proceeded on foot against them.
९.१८.४६
जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् ।
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥
M N Dutt
Taking up his massive mace adorned with gold, he began to kill your soldiers like the destroyer himself armed with his club.
९.१८.४७
रथाश्वद्विपहीनांस्तु तान्भीमो गदया बली ।
एकविंशतिसाहस्रान्पदातीनवपोथयत् ॥
एकविंशतिसाहस्रान्पदातीनवपोथयत् ॥
M N Dutt
The mighty Bhiina, with his mace, crushed those twenty one thousand foot-soldiers who deprived of cars and horses and elephants.
९.१८.४८
हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः ।
धृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत ॥
धृष्टद्युम्नं पुरस्कृत्य नचिरात्प्रत्यदृश्यत ॥
M N Dutt
Having killed that strong army 3hima, of great prowess, showed himself with Dhrishtadyumna in his front.
९.१८.४९
पादाता निहता भूमौ शिश्यिरे रुधिरोक्षिताः ।
संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥
संभग्ना इव वातेन कर्णिकाराः सुपुष्पिताः ॥
M N Dutt
The foot-soldiers, of your party thus slain, lay down on the ground, bathed in blood, like Karnikaras with their flowers struck down by a storm.
॥ इति ९.१८ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.