संजय उवाच ।
८.३०.१
ततः पुनर्महाराज मद्रराजमरिंदमम् ।
अभ्यभाषत राधेयः संनिवार्योत्तरं वचः ॥
अभ्यभाषत राधेयः संनिवार्योत्तरं वचः ॥
M N Dutt
Sanjaya said Once more, O great king, thus silencing the king of Madras, the son of Radha, the chastiser of foes, said to him.
८.३०.२
यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि ।
नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे ॥
नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे ॥
M N Dutt
As a rejoinder to what you have said to me, O Shalya, by way of examples I tell you that I am not to be frightened by you in battle with your words.
८.३०.३
यदि मां देवताः सर्वा योधयेयुः सवासवाः ।
तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् ॥
तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् ॥
M N Dutt
If all the gods with Vasava come to fight with me I will not fear them what to speak of my fear from Partha and Kesava.
८.३०.४
नाहं भीषयितुं शक्यो वाङ्मात्रेण कथंचन ।
अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे ॥
अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे ॥
M N Dutt
I am not to be frightened by mere words. O Shalya, he, whom you will be able to frighten in battle, is some other person.
८.३०.५
नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम् ।
अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते ॥
अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते ॥
M N Dutt
You have addressed many unpleasant words to me. Therein lies the strength of a mean person, O you of wicked soul; you can speak of my merits and so you say many unpleasant words.
८.३०.६
न हि कर्णः समुद्भूतो भयार्थमिह मारिष ।
विक्रमार्थमहं जातो यशोर्थं च तथैव च ॥
विक्रमार्थमहं जातो यशोर्थं च तथैव च ॥
M N Dutt
Karna is not born for fear in battle, O Madraka. I am rather born to display my valour and achieve glory for my own self.
८.३०.७
इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप ।
संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ॥
संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ॥
M N Dutt
Karna said O king of Madras, listen attentively to what I heard recited in the presence of Dhritarashtra.
८.३०.८
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान् ।
ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रमुपासते ॥
ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रमुपासते ॥
M N Dutt
In Dhritarashtra's house the Brahmanas used to describe many pleasant regions and the lives of many ancient kings.
८.३०.९
तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः ।
बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् ॥
बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् ॥
M N Dutt
One aged and leading Brahmana among them, while recounting the ancient historian, said thus blaring the Balhikas and Madrakas.
८.३०.११
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः ।
तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत् ॥
तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत् ॥
M N Dutt
One should always avoid the impure and impious Balhikas who live away from Himavat and Ganga, Sarasvati, Yamuna and Kurukshetra and the Sindhu with its five tributaries.
८.३०.१२
गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम् ।
एतद्राजकुलद्वारमाकुमारः स्मराम्यहम् ॥
एतद्राजकुलद्वारमाकुमारः स्मराम्यहम् ॥
M N Dutt
I remember from my youth that a slaughter ground for kine and the cellars for wine mark out the gates of the palaces of Balhika kings.
८.३०.१३
कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया ।
तत एषां समाचारः संवासाद्विदितो मम ॥
तत एषां समाचारः संवासाद्विदितो मम ॥
M N Dutt
For some secret work I had to live with them. On account of this living I know them very well.
८.३०.१४
शाकलं नाम नगरमापगा नाम निम्नगा ।
जर्तिका नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम् ॥
जर्तिका नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम् ॥
M N Dutt
There is a town of the name of Shakala, a river by the name of Apaga and a clan of the Balhikas known as Jarttikas. Their conduct is very reprehensible.
८.३०.१५
धानागौडासवे पीत्वा गोमांसं लशुनैः सह ।
अपूपमांसवाट्यानामाशिनः शीलवर्जिताः ॥
अपूपमांसवाट्यानामाशिनः शीलवर्जिताः ॥
M N Dutt
They drink the liquor Ganda and eat friend barley with it. They also eat beef with garlics. They also take flour with meat and boiled rice that is bought of others. They are shorn of all good practices.
८.३०.२१
शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम् ।
गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः ॥
गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः ॥
M N Dutt
some Crossing the Sutlej, the charming Iravati and coming to my own country when shall I look at those beautiful women with thick frontal bones, with shining circles of red arsenic on their foreheads, with tinges of red, black collyrium on their eyes and their beautiful forms dressed in blankets and skins and themselves uttering shrill cries?
८.३०.२६
एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु ।
कश्चेतयानो निवसेन्मुहूर्तमपि मानवः ॥
कश्चेतयानो निवसेन्मुहूर्तमपि मानवः ॥
M N Dutt
What man is there who will live willingly even for a moment in the midst of Bahikas who are so fallen, wicked and of fraudulent conduct?
८.३०.२७
ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः ।
येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः ॥
येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः ॥
M N Dutt
Thus did the Brahmanas describe the vile Balhikas, a sixty of whose merit and demerit, you possess, O Shalya.
८.३०.२८
इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान् ।
बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत ॥
बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत ॥
M N Dutt
Having said this the pious Brahmana said some thing about the wicked Bahikas. Hear what I say.
८.३०.२९
तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् ।
नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ॥
नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ॥
M N Dutt
In the large and populous city of Shakala a Rakshasa woman used to sing on every fourteenth day of the dark half of the month in accompaniment with a drum.
८.३०.३३
इति गायन्ति ये मत्ताः शीधुना शाकलावतः ।
सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत् ॥
सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत् ॥
M N Dutt
Thus O Shalya, the young and old inhabitants of Sakala, sing and cry under the influence of liquor. How can there by virtue among such people?
८.३०.३४
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि ॥
यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि ॥
M N Dutt
You should know this. I will now recount to you again what another Brahmana said to us in the Kuru court.
८.३०.३५
पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि ।
शतद्रुश्च विपाशा च तृतीयेरावती तथा ।
चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः ॥
शतद्रुश्च विपाशा च तृतीयेरावती तथा ।
चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः ॥
M N Dutt
There where the forests of Pilus stand and the five rivers Shatadru, Vipasha, Iravati, Chandrabhaga and Vitasta and which have the Sindhu for their sixty flow there in those region is situated the Province called the Arattas distant from Himavat. The Province is shorn of virtue and religion. No one should there.
८.३०.३७
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा ।
तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः ॥
तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः ॥
M N Dutt
The celestials, the ancestral manes and the Brahmanas never accept gifts from fallen persons, from those that are begotten by Sudras upon women of other castes and from Bahikas who never perform Yajnas and are greatly irreligious.
८.३०.४०
पुत्रसंकरिणो जाल्माः सर्वान्नक्षीरभोजनाः ।
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ॥
आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ॥
M N Dutt
There is a number of bastards among those fallen people. There is no food or no milk that they do not take. The ignorant Aratta Bahikas should always be avoided.
८.३०.४१
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
यदन्योऽप्युक्तवान्सभ्यो ब्राह्मणः कुरुसंसदि ॥
यदन्योऽप्युक्तवान्सभ्यो ब्राह्मणः कुरुसंसदि ॥
M N Dutt
You should know this. I will now recount to you again what another Brahmana said to us in the Kuru court.
८.३०.४२
युगंधरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले ।
तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ॥
तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ॥
M N Dutt
How can a man attain to the celestial region having drunk milk in the town called Yugandhara and lived in the place called Achyutastala and bathed in the spot called Bhutilaya.
८.३०.४३
पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् ।
आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् ॥
आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् ॥
M N Dutt
No respectable man should live even for two days where the five rivers flow just after issuing from the mountains and where live Aratta Balhikas.
८.३०.४४
बहिश्च नाम ह्लीकश्च विपाशायां पिशाचकौ ।
तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः ॥
तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः ॥
M N Dutt
There are two Pishachas in the river Vipasha named Bahi and Hika. The Bahikas are the offspring of those two Pishchas. They are not creatures created by God. Being of such a low birth how can they know the duties laid down in the scriptures?
८.३०.४५
कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन् ।
कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत् ॥
कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत् ॥
M N Dutt
The Karaskaras, the Mahishkas, the Kurandas, the Keralas, the Karkotakas, the Virakas and other people who have no religion should always be avoided by men.
८.३०.४६
इति तीर्थानुसर्तारं राक्षसी काचिदब्रवीत् ।
एकरात्रा शमीगेहे महोलूखलमेखला ॥
एकरात्रा शमीगेहे महोलूखलमेखला ॥
M N Dutt
A Rakshasa woman of huge hips, thus spoke to a Brahman, who once went to that country for bathing in a sacred water and passed a single night there.
८.३०.४७
आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः ।
वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः ॥
वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः ॥
M N Dutt
The Prasthalas, the Madras, the Gandharvas, the Arattas, Khasas, the Vasatis, the Sindhus and the Sauviras also follow these reprehensible practices.
८.३०.४८
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु ॥
उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु ॥
M N Dutt
You should always know this, O Shalya. I will now speak to you what another Brahmana said in the Kuru court.
८.३०.४९
ब्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः ।
आचारं तत्र संप्रेक्ष्य प्रीतः शिल्पिनमब्रवीत् ॥
आचारं तत्र संप्रेक्ष्य प्रीतः शिल्पिनमब्रवीत् ॥
M N Dutt
Once on a time a Brahmana came to our houses as a guest. he was highly pleased with
॥ इति ८.३० ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.