संजय उवाच ।
८.२९.१
मद्राधिपस्याधिरथिस्तदैवं
वचो निशम्याप्रियमप्रतीतः ।
उवाच शल्यं विदितं ममैत
द्यथाविधावर्जुनवासुदेवौ ॥
वचो निशम्याप्रियमप्रतीतः ।
उवाच शल्यं विदितं ममैत
द्यथाविधावर्जुनवासुदेवौ ॥
M N Dutt
Sanjaya said Listening to those unpleasant words and not being convinced the high-souled car-warrior, the king of Madra, said to Shalya "I know well what Vasudeva and Arjuna are.
८.२९.२
शौरे रथं वाहयतोऽर्जुनस्य
बलं महास्त्राणि च पाण्डवस्य ।
अहं विजानामि यथावदद्य
परोक्षभूतं तव तत्तु शल्य ॥
बलं महास्त्राणि च पाण्डवस्य ।
अहं विजानामि यथावदद्य
परोक्षभूतं तव तत्तु शल्य ॥
M N Dutt
Even now I know well the skill of Shouri in the management of cars and the power and great weapons of Arjuna, the son of Pandu. But you have no practical knowledge of them, O Shalya.
८.२९.३
तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ
व्यपेतभीर्योधयिष्यामि कृष्णौ ।
संतापयत्यभ्यधिकं तु रामा
च्छापोऽद्य मां ब्राह्मणसत्तमाच्च ॥
व्यपेतभीर्योधयिष्यामि कृष्णौ ।
संतापयत्यभ्यधिकं तु रामा
च्छापोऽद्य मां ब्राह्मणसत्तमाच्च ॥
M N Dutt
I shall fearlessly fight with those two Krishnas, the foremost of the wielders of weapons. The course of Rama, the foremost of Brahmanas, pains me greatly.
८.२९.६
पृष्टश्चाहं तमवोचं महर्षिं
सूतोऽहमस्मीति स मां शशाप ।
सूतोपधावाप्तमिदं त्वयास्त्रं
न कर्मकाले प्रतिभास्यति त्वाम् ॥
सूतोऽहमस्मीति स मां शशाप ।
सूतोपधावाप्तमिदं त्वयास्त्रं
न कर्मकाले प्रतिभास्यति त्वाम् ॥
M N Dutt
Hearing this the great ascetic, worked up with anger, imprecated a curse on me, saying-"On account of the deception O charioteer, by which you have got this weapon it will never come to your mind at the time of necessity.
८.२९.७
अन्यत्र यस्मात्तव मृत्युकाला
दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् ।
तदद्य पर्याप्तमतीव शस्त्र
मस्मिन्संग्रामे तुमुले तात भीमे ॥
दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् ।
तदद्य पर्याप्तमतीव शस्त्र
मस्मिन्संग्रामे तुमुले तात भीमे ॥
M N Dutt
When the hour of your death will arrive. Brahmastra can never live in one who is not a Brahmana. I have forgotten that great weapon in this fierce and dreadful encounter.
८.२९.८
अपां पतिर्वेगवानप्रमेयो
निमज्जयिष्यन्निवहान्प्रजानाम् ।
महानगं यः कुरुते समुद्रं
वेलैव तं वारयत्यप्रमेयम् ॥
निमज्जयिष्यन्निवहान्प्रजानाम् ।
महानगं यः कुरुते समुद्रं
वेलैव तं वारयत्यप्रमेयम् ॥
M N Dutt
The limitless deep, the king of waters dashes on impetuously for overwhelming numberless creatures. The continent flow over holds and restrains him.
८.२९.९
प्रमुञ्चन्तं बाणसंघानमोघा
न्मर्मच्छिदो वीरहणः सपत्रान् ।
कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे
ज्याकर्षिणामुत्तममद्य लोके ॥
न्मर्मच्छिदो वीरहणः सपत्रान् ।
कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे
ज्याकर्षिणामुत्तममद्य लोके ॥
M N Dutt
I will today, in this world, withstand in fight the son of Kunti the foremost of archers while he will ceaselessly discharge his winged arrows capable of killing heroes and penetrating into every limb and none of which becomes futile.
८.२९.१०
एवं बलेनातिबलं महास्त्रं
समुद्रकल्पं सुदुरापमुग्रम् ।
शरौघिणं पार्थिवान्मज्जयन्तं
वेलेव पार्थमिषुभिः संसहिष्ये ॥
समुद्रकल्पं सुदुरापमुग्रम् ।
शरौघिणं पार्थिवान्मज्जयन्तं
वेलेव पार्थमिषुभिः संसहिष्ये ॥
M N Dutt
Like the bank of an ocean restraining it I will withstand Partha that foremost strongest of the strong the great hero owning many weapons, resembling the ocean itself and having many dreadful and far-reaching arrows like unto the waves of the ocean while he will be engaged in assailing the kings.
८.२९.११
अद्याहवे यस्य न तुल्यमन्यं
मन्ये मनुष्यं धनुराददानम् ।
सुरासुरान्वै युधि यो जयेत
तेनाद्य मे पश्य युद्धं सुघोरम् ॥
मन्ये मनुष्यं धनुराददानम् ।
सुरासुरान्वै युधि यो जयेत
तेनाद्य मे पश्य युद्धं सुघोरम् ॥
M N Dutt
Witness my highly dreadful encounter with him today in baitle, who, methinks, has not equal amongst men, using bows and who vanquished the gods and demons in battle.
८.२९.१२
अतिमानी पाण्डवो युद्धकामो
अमानुषैरेष्यति मे महास्त्रैः ।
तस्यास्त्रमस्त्रैरभिहत्य संख्ये
शरोत्तमैः पातयिष्यामि पार्थम् ॥
अमानुषैरेष्यति मे महास्त्रैः ।
तस्यास्त्रमस्त्रैरभिहत्य संख्ये
शरोत्तमैः पातयिष्यामि पार्थम् ॥
M N Dutt
The Pandava is exceedingly haughty. Desirous of fighting he will approach me with superhuman and powerful weapons. Counteracting his weapons with mine in battle I will fell Partha with my excellent arrows.
८.२९.१३
दिवाकरेणापि समं तपन्तं
समाप्तरश्मिं यशसा ज्वलन्तम् ।
तमोनुदं मेघ इवातिमात्रो
धनंजयं छादयिष्यामि बाणैः ॥
समाप्तरश्मिं यशसा ज्वलन्तम् ।
तमोनुदं मेघ इवातिमात्रो
धनंजयं छादयिष्यामि बाणैः ॥
M N Dutt
He burns down his enemies like the sun of fiery rays and shines in his fame. As the clouds gather round the dispeller of darkness, so I shall cover Dhananjaya with my shafts,
८.२९.१४
वैश्वानरं धूमशिखं ज्वलन्तं
तेजस्विनं लोकमिमं दहन्तम् ।
मेघो भूत्वा शरवर्षैर्यथाग्निं
तथा पार्थं शमयिष्यामि युद्धे ॥
तेजस्विनं लोकमिमं दहन्तम् ।
मेघो भूत्वा शरवर्षैर्यथाग्निं
तथा पार्थं शमयिष्यामि युद्धे ॥
M N Dutt
As the clouds with showers extinguish the powerful fire burning with smoking flames and as if consuming the whole worlds, so I will with showers of my arrows, put down the son of Kunti.
८.२९.१५
प्रमाथिनं बलवन्तं प्रहारिणं
प्रभञ्जनं मातरिश्वानमुग्रम् ।
युद्धे सहिष्ये हिमवानिवाचलो
धनंजयं क्रुद्धममृष्यमाणम् ॥
प्रभञ्जनं मातरिश्वानमुग्रम् ।
युद्धे सहिष्ये हिमवानिवाचलो
धनंजयं क्रुद्धममृष्यमाणम् ॥
M N Dutt
As the Himalaya holds the powerful, crushing and all-striking wind-god so I will, without perturbation, withstand the angry and vindictive Dhananjaya.
८.२९.१६
विशारदं रथमार्गेष्वसक्तं
धुर्यं नित्यं समरेषु प्रवीरम् ।
लोके वरं सर्वधनुर्धराणां
धनंजयं संयुगे संसहिष्ये ॥
धुर्यं नित्यं समरेषु प्रवीरम् ।
लोके वरं सर्वधनुर्धराणां
धनंजयं संयुगे संसहिष्ये ॥
M N Dutt
I will withstand in battle Dhananjaya the foremost of all the archers in the world who knows well all the car-tracks, who is always in the van, competent and heroic in battle.
८.२९.१७
अद्याहवे यस्य न तुल्यमन्यं
मध्येमनुष्यं धनुराददानम् ।
सर्वामिमां यः पृथिवीं सहेत
तथा विद्वान्योत्स्यमानोऽस्मि तेन ॥
मध्येमनुष्यं धनुराददानम् ।
सर्वामिमां यः पृथिवीं सहेत
तथा विद्वान्योत्स्यमानोऽस्मि तेन ॥
M N Dutt
Today, I will encounter in battle the man, who, in my view, is non-pariel amongst the archers and who conquered the entire earth.
८.२९.१८
यः सर्वभूतानि सदेवकानि
प्रस्थेऽजयत्खाण्डवे सव्यसाची ।
को जीवितं रक्षमाणो हि तेन
युयुत्सते मामृते मानुषोऽन्यः ॥
प्रस्थेऽजयत्खाण्डवे सव्यसाची ।
को जीवितं रक्षमाणो हि तेन
युयुत्सते मामृते मानुषोऽन्यः ॥
M N Dutt
What man, save me, who wishes to keep his life, will fight with Savyasachin who defeated all creatures, including even the celestials in the country called Khandava.
८.२९.१९
अहं तस्य पौरुषं पाण्डवस्य
ब्रूयां हृष्टः समितौ क्षत्रियाणाम् ।
किं त्वं मूर्खः प्रभषन्मूढचेता
मामवोचः पौरुषमर्जुनस्य ॥
ब्रूयां हृष्टः समितौ क्षत्रियाणाम् ।
किं त्वं मूर्खः प्रभषन्मूढचेता
मामवोचः पौरुषमर्जुनस्य ॥
M N Dutt
I will myself with pleasure speak of the prowess of Pandava in battle before the assembly of the Kshatriyas. Why do you, a fool as you are, speak of the prowess of Phalguna to me?
८.२९.२०
अप्रियो यः परुषो निष्ठुरो हि
क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् ।
हन्यामहं तादृशानां शतानि
क्षमामि त्वां क्षमया कालयोगात् ॥
क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् ।
हन्यामहं तादृशानां शतानि
क्षमामि त्वां क्षमया कालयोगात् ॥
M N Dutt
The forgiving always forgive a mean and a cruel person who performs unpleasant deeds. I can slay a hundred like you, but I forgive you for my forgiving nature and the necessity of the time.
८.२९.२१
अवोचस्त्वं पाण्डवार्थेऽप्रियाणि
प्रधर्षयन्मां मूढवत्पापकर्मन् ।
मय्यार्जवे जिह्मगतिर्हतस्त्वं
मित्रद्रोही सप्तपदं हि मित्रम् ॥
प्रधर्षयन्मां मूढवत्पापकर्मन् ।
मय्यार्जवे जिह्मगतिर्हतस्त्वं
मित्रद्रोही सप्तपदं हि मित्रम् ॥
M N Dutt
You are the perpetrator of evil deeds. You have, like a fool, for the sake of the Pandavas, remonstrated with me and spoken many unpleasant things. You have said these to me who am innocent. Cursed you are, an injurer of friendship is seven paced.
८.२९.२२
कालस्त्वयं मृत्युमयोऽतिदारुणो
दुर्योधनो युद्धमुपागमद्यत् ।
तस्यार्थसिद्धिमभिकाङ्क्षमाण
स्तमभ्येष्ये यत्र नैकान्त्यमस्ति ॥
दुर्योधनो युद्धमुपागमद्यत् ।
तस्यार्थसिद्धिमभिकाङ्क्षमाण
स्तमभ्येष्ये यत्र नैकान्त्यमस्ति ॥
M N Dutt
The present moment, that has arrived, is really dreadful for Duryodhona has come to battle. I always wish to see his ends accomplished. But you are acting in such a vay that it appears you have no friendship for the Kuru king.
८.२९.२३
मित्रं मिदेर्नन्दतेः प्रीयतेर्वा
संत्रायतेर्मानद मोदतेर्वा ।
ब्रवीति तच्चामुत विप्रपूर्वा
त्तच्चापि सर्वं मम दुर्योधनेऽस्ति ॥
संत्रायतेर्मानद मोदतेर्वा ।
ब्रवीति तच्चामुत विप्रपूर्वा
त्तच्चापि सर्वं मम दुर्योधनेऽस्ति ॥
M N Dutt
He is a friend who gladdens his friend, pleases him, protects him, honors him and shares in his joy. I have got all these qualities; the king himself knows it.
८.२९.२४
शत्रुः शदेः शासतेः शायतेर्वा
शृणातेर्वा श्वयतेर्वापि सर्गे ।
उपसर्गाद्बहुधा सूदतेश्च
प्रायेण सर्वं त्वयि तच्च मह्यम् ॥
शृणातेर्वा श्वयतेर्वापि सर्गे ।
उपसर्गाद्बहुधा सूदतेश्च
प्रायेण सर्वं त्वयि तच्च मह्यम् ॥
M N Dutt
Whereas he who destroys, remonstrates with, sharpens his weapons, makes us to sigh and cheerless and wrongs us in many ways is our enemy. All these marks are to be seen in you and you display them all against us.
८.२९.२५
दुर्योधनार्थं तव चाप्रियार्थं
यशोर्थमात्मार्थमपीश्वरार्थम् ।
तस्मादहं पाण्डववासुदेवौ
योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य ॥
यशोर्थमात्मार्थमपीश्वरार्थम् ।
तस्मादहं पाण्डववासुदेवौ
योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य ॥
M N Dutt
For the sake of Duryodhana, for the sake of doing what is agreeable to you, for the sake of fame, for the sake of myself and the God, I will vigorously fight with Partha and Vasudeva. Behold today my feats.
८.२९.२६
अस्त्राणि पश्याद्य ममोत्तमानि
ब्राह्माणि दिव्यान्यथ मानुषाणि ।
आसादयिष्याम्यहमुग्रवीर्यं
द्विपोत्तमं मत्तमिवाभिमत्तः ॥
ब्राह्माणि दिव्यान्यथ मानुषाणि ।
आसादयिष्याम्यहमुग्रवीर्यं
द्विपोत्तमं मत्तमिवाभिमत्तः ॥
M N Dutt
Behold today all my excellent weapons, Brahma, celestial and human, I will like today that highly powerful heroes like an infuriate elephants slaying another such.
८.२९.२७
अस्त्रं ब्राह्मं मनसा तद्ध्यजय्यं
क्षेप्स्ये पार्थायाप्रतिमं जयाय ।
तेनापि मे नैव मुच्येत युद्धे
न चेत्पतेद्विषमे मेऽद्य चक्रम् ॥
क्षेप्स्ये पार्थायाप्रतिमं जयाय ।
तेनापि मे नैव मुच्येत युद्धे
न चेत्पतेद्विषमे मेऽद्य चक्रम् ॥
M N Dutt
For my victory I will hurl today that highly powerful Brahma weapon at Partha will my mind alone. Arjuna will never be able to escape that weapon if only the wheels of my car do not sink in the earth in battle today.
८.२९.३१
श्वभ्रे ते पततां चक्रमिति मे ब्राह्मणोऽवदत् ।
युध्यमानस्य संग्रामे प्राप्तस्यैकायने भयम् ॥
युध्यमानस्य संग्रामे प्राप्तस्यैकायने भयम् ॥
M N Dutt
Since you have carelessly killed the offspring of my Homa cow, the wheel of your car will sink into the earth and at the time of war your heart will be possessed by fear.
८.२९.३२
तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् ।
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥
M N Dutt
I always stand in great fear of these words of the Brahmana. The kings of the Lunar dynasty, the lords of people's happiness and on COW as misery, offered him a thousand kine and six hundred bovine bulls. Still with such a gift O Shalya, O king Madra, the Brahmana was not grated.
८.२९.३४
ईषादन्तान्सप्तशतान्दासीदासशतानि च ।
ददतो द्विजमुख्याय प्रसादं न चकार मे ॥
ददतो द्विजमुख्याय प्रसादं न चकार मे ॥
M N Dutt
I then offered him seven hundred elephants of huge tusks and many hundreds of male and female slaves. And still that best of Brahmanas was not satisfied.
८.२९.३५
कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश ।
आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात् ॥
आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात् ॥
M N Dutt
Offering him then full fourteen thousand black kine each with a white calf I could not obtain the grace of that best of Brahmanas.
८.२९.३६
ऋद्धं गेहं सर्वकामैर्यच्च मे वसु किंचन ।
तत्सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति ॥
तत्सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति ॥
M N Dutt
Then I offered him a beautiful palace abounding in all objects of desire, in fact, whatever riches I had but still he refused to accept the gift.
८.२९.३७
ततोऽब्रवीन्मां याचन्तमपराद्धं प्रयत्नतः ।
व्याहृतं यन्मया सूत तत्तथा न तदन्यथा ॥
व्याहृतं यन्मया सूत तत्तथा न तदन्यथा ॥
M N Dutt
He then said to nie who had offered him and thus implored his forgiveness.” What I have said, O Suta, will surely take place. It can never be otherwise.
८.२९.३८
अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुयात् ।
तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ॥
तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ॥
M N Dutt
False words will destroy creatures and the sin will come upon me. Therefore for preserving virtue I dare not speak an untruth.
८.२९.३९
मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया ।
मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ॥
मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ॥
M N Dutt
You shall not destroy the means of Brahmana's livelihood. There is none on earth who can falsify my words. Accept my words and this will be an atonement for your sin,
८.२९.४०
इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया ।
जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु ॥
जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु ॥
M N Dutt
Although chastised by you still for your friendship I have spoken out all this to you. I know you who are chastising me thus. Be silent and hear what I will speak 11OW. know you who are chastising me thus. Be silent and hear what I will speak 11OW.
॥ इति ८.२९ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.