धृतराष्ट्र उवाच ।
७.१६९.१
साङ्गा वेदा यथान्यायं येनाधीता महात्मना ।
यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः ॥
यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः ॥
M N Dutt
Dhritarashtra said Thai high-souled person who had duly studied the Vedas and their auxiliaries, he who had mastered this entire science of arms and who possessed modesty.
७.१६९.२
तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा ।
नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना ॥
नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना ॥
M N Dutt
That Drona through whose grace the foremost of men still achieve superhuman feats difficult of being achieved even by the gods and the Asuras.
७.१६९.३
यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः ।
अमानुषाणि संग्रामे देवैरसुकराणि च ॥
अमानुषाणि संग्रामे देवैरसुकराणि च ॥
M N Dutt
That Drona son of mighty sage, who had been insulted by the low-minded, cruel and mcan Dhristadyumna the slayer of his preceptor.
७.१६९.५
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः ।
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व संजय ॥
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व संजय ॥
M N Dutt
Tell me, O Sanjaya, what did the Parthas or the other kings of the earth, all illustrious warriors, say, having heard the words of the Panchala prince?
संजय उवाच ।
७.१६९.६
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः ।
तूष्णीं बभूवू राजानः सर्व एव विशां पते ॥
तूष्णीं बभूवू राजानः सर्व एव विशां पते ॥
M N Dutt
Sanjaya said Hcaring those words of the ruthless son of Drupada, O king, all the rulers of the earth remained silent.
७.१६९.७
अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम् ।
सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् ॥
सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् ॥
M N Dutt
But Arjuna only casting side glances at Prisata's son and sighing and shedding copious tears said 'fie, fie.'
७.१६९.८
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे ।
आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् ॥
आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् ॥
M N Dutt
Yudhishthira and Bhima and the twins (Nakula and Sahadeva) and Krishna himself were overwhelmed with shame, o king. Then Satyaki spoke these words-
७.१६९.९
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् ।
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ॥
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ॥
M N Dutt
Is there nobody that will quickly dispatch this sinful, low and cursed wretch, even when he is thus speaking?
७.१६९.१०
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते ।
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ॥
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ॥
M N Dutt
O despicable wretch, why did not your tongue and your cursed head go off into thousand fragments, when you were on the point of slaying your preceptor? Why were you not smitten down by that sinful act?
७.१६९.११
याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः ।
यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ॥
यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ॥
M N Dutt
You richly merit the condemnation of the Parthas and all the Vrishnis and the Andhakas inasmuch as perpetrating this sinful act, you are boasting of it in the presence of this august assembly.
७.१६९.१२
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् ।
वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ॥
वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ॥
M N Dutt
Having committed the most heinous act of sin, you further reveal you hatred for the preceptor. For this you deserve to be slain; there is no use in sparing your life even for a moment.
७.१६९.१३
कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधमः ।
निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ॥
निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ॥
M N Dutt
What other sinful wretch, except yourself, will dare cause the virtuous preceptor's death, holding him by his hoary locks?
७.१६९.१४
सप्तावरे तथा पूर्वे बान्धवास्ते निपातिताः ।
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ॥
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ॥
M N Dutt
Having obtained you-the disgrace to their race-for their descendant, seven generations before you and seven after, in your race, have sunk in hell, being deprived of their glory.
७.१६९.१५
उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम् ।
तथान्तो विहितस्तेन स्वयमेव महात्मना ॥
तथान्तो विहितस्तेन स्वयमेव महात्मना ॥
M N Dutt
You have accused Partha that foremost of men with the slaughter of Bhisma. But this latter illustrious personage has hiinself caused his own destruction.
७.१६९.१६
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः ।
नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ॥
नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ॥
M N Dutt
Indeed that vilest of wretches viz., your uterine brother Sikhandin, was the cause of Bhisma's death. Really there is no one more sinful on the face of the earth, than the sons of Panchala king
७.१६९.१७
स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल ।
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ॥
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ॥
M N Dutt
Your father had begotten Sikhandin for the slaughter of Bhishma. As regards Arjuna he only protected your brother when he caused the death of the high-souled Bhishma.
७.१६९.१८
पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः ।
त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ॥
त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ॥
M N Dutt
The Panchalas have gone astray from the paths of rectitude and like despicable wretches they are injuring their friends and their preceptors, only for having obtained yourself and your brother, hated by the pious, among themselves.
७.१६९.१९
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि ।
शिरस्ते पातयिष्यामि गदया वज्रकल्पया ॥
शिरस्ते पातयिष्यामि गदया वज्रकल्पया ॥
M N Dutt
If you again speak such words before re, I shall knock down your head with a mace resembling the bolt of heaven.
७.१६९.२०
सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् ।
संरब्धः सात्यकिं प्राह संक्रुद्धः प्रहसन्निव ॥
संरब्धः सात्यकिं प्राह संक्रुद्धः प्रहसन्निव ॥
M N Dutt
Thus reproached by that scion of the Satvata race, Prisata's son inspired with wrath, addressed these harsh words to the enraged Satyaki.
७.१६९.२१
श्रूयते श्रूयते चेति क्षम्यते चेति माधव ।
न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि ॥
न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि ॥
M N Dutt
Dhristadyumna said O you of Madhu's race, I have heard you speak. But I forgive you; yourself sinful and impious, you desire to throw odium on the righteous?
७.१६९.२२
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् ।
क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ॥
क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ॥
M N Dutt
Forgiveness is a praise worthy virtue, buy sinful wretches do not deserve it. A wicked fellow regards him who shows forgiveness as powerless (lit : conquered).
७.१६९.२३
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः ।
आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ॥
आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ॥
M N Dutt
Ill-behaved, of low mind and sinful resolutions, you are condemnable from the end of your hair to the tip of your toe. Yet do you desire to censure others?
७.१६९.२४
यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया ।
वार्यमाणेन निहतस्ततः पापतरं नु किम् ॥
वार्यमाणेन निहतस्ततः पापतरं नु किम् ॥
M N Dutt
What act can be more unrighteous than that perpetrated by you when, repeatedly prevented, you slew Bhurisrava, whose arm was lopped off and who had betaken to the Praya Yoga?
७.१६९.२५
व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे ।
विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ॥
विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ॥
M N Dutt
Arranging his troops in order Drona was fighting with his celestial weapons he laid aside his weapons and I slew him o crooked one, what is there improper in this?
७.१६९.२६
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् ।
छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् ॥
छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् ॥
M N Dutt
How can he, O Satyaki, censure such as act, who himself has slain his opponent, desisted from battle an opponent that was sitting in Praya Yoga and whose arm was cut-off by another.
७.१६९.२७
निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् ।
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ॥
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ॥
M N Dutt
That puissant opponent of yours, careered on the field having thrown you down with the stroke of his feet. Foremost if you were of all male beings why did you not then slay him?
७.१६९.२८
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः ।
यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ॥
यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ॥
M N Dutt
When Partha had already vanquished him, it was only then that by an unfair means you slew the puissant son of Somadatta.
७.१६९.२९
यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् ।
किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम् ॥
किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम् ॥
M N Dutt
In whatever quarter Drona had sought to rout the troops of the Pandavas, in that quarter I proceeded, shooting myriads of shafts.
७.१६९.३०
स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम् ।
वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ ॥
वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ ॥
M N Dutt
Having yourself perpetrated an act worthy of a Chandala only, it is strange that you desire to censure me in such a vile language.
७.१६९.३१
कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम ।
पापानां च त्वमावासः कर्मणां मा पुनर्वद ॥
पापानां च त्वमावासः कर्मणां मा पुनर्वद ॥
M N Dutt
You are the perpetrator of vile acts and not I, O vilest of the Vrishni race. You are the hotbed of sin. Do not again blame this deed of mine.
७.१६९.३२
जोषमास्स्व न मां भूयो वक्तुमर्हस्यतः परम् ।
अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि ॥
अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि ॥
M N Dutt
Hold your tongue. It is improper that you shall move after this. I give you this reply from my own lips, you should not address me any longer.
७.१६९.३३
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम् ।
गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ॥
गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ॥
M N Dutt
If again, out of folly you speak such harsh words to me, I shall dispatch you to the abode of Death with my own arrows.
७.१६९.३४
न चैव मूर्ख धर्मेण केवलेनैव शक्यते ।
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ॥
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ॥
M N Dutt
Once cannot overcome his foes, O fool, solely through fair means. Hear how our opponents also acted unfairly.
७.१६९.३५
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः ।
द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके ॥
द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके ॥
M N Dutt
Pandu's eldest son Yudhishthira was a few years back cheated unfairly (out of his own kingdom) and O Satyaki, Draupadi was also most vilely insulted.
७.१६९.३६
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया ।
सर्वस्वमपकृष्टं च तथाधर्मेण बालिश ॥
सर्वस्वमपकृष्टं च तथाधर्मेण बालिश ॥
M N Dutt
The Pandavas with Krishna their wife were also exiled to the woods and fool, all their possessions were robbed out of them by unrighteous means.
७.१६९.३७
अधर्मेणापकृष्टश्च मद्रराजः परैरितः ।
इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः ।
भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ॥
इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः ।
भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ॥
M N Dutt
Now for the Pandavas, the grand-father of the Kurus, Bhishma was slain by an act of unrighteousness. Bhurisrava was unfairly slain by your very justicel-oving self.
७.१६९.३८
एवं परैराचरितं पाण्डवेयैश्च संयुगे ।
रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ॥
रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ॥
M N Dutt
Thus, O you of the Salvata race, the heroic Pandavas and the Kurus have both acted sinfully for victory in battle, although they are all conversant with the rules of morality.
७.१६९.३९
दुर्ज्ञेयः परमो धर्मस्तथाधर्मः सुदुर्विदः ।
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ॥
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ॥
M N Dutt
Thus morality is a mystery, as also immorality is difficult of being ascertained. Fight on with the Kauravas and do not return to the home of your fathers.
७.१६९.४०
एवमादीनि वाक्यानि क्रूराणि परुषाणि च ।
श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ॥
श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ॥
M N Dutt
Sanjaya said Addressed in such ruthless and harsh words, the handsome Satyaki trembled from hcad to foot.
७.१६९.४१
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् ।
विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः ॥
विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः ॥
M N Dutt
Hearing those words Satyaki with his eyes coppery in rage, laid his bow aside on the car and breathing like a snake he grasped his mace.
७.१६९.४२
ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् ।
न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ॥
न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ॥
M N Dutt
Then advancing furiously upon the Panchala prince he said-"I shall not waste my harsh words on you any longer, but I shall crush you, as you richly deserve to be slaughtered."
७.१६९.४३
तमापतन्तं सहसा महाबलममर्षणम् ।
पाञ्चाल्यायाभिसंक्रुद्धमन्तकायान्तकोपमम् ॥
पाञ्चाल्यायाभिसंक्रुद्धमन्तकायान्तकोपमम् ॥
M N Dutt
Beholding the puissant Satyaki rush, from wrath and desire for revenge, at the Panchala prince, like Death against a match of his.
७.१६९.४४
चोदितो वासुदेवेन भीमसेनो महाबलः ।
अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ॥
अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ॥
M N Dutt
The mighty Bhima urged by Vasudeva, quickly jumped down from his chariot and caught hold of him by the arms.
७.१६९.४५
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली ।
प्रस्कन्दमानमादाय जगाम बलिनं बलात् ॥
प्रस्कन्दमानमादाय जगाम बलिनं बलात् ॥
M N Dutt
The puissant Satyaki, who was then furiously rushing (at Dhristadyumna) advanced a few steps, dragging after him the mighty son of Pandu, who was trying to withhold him.
७.१६९.४६
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुंगवः ।
निगृहीतः पदे षष्ठे बलेन बलिनां वरः ॥
निगृहीतः पदे षष्ठे बलेन बलिनां वरः ॥
M N Dutt
Then Bhima firmly planting his feet, succeeded in stopping that foremost of all beings endowed with strength viz., that illustrious scion or Shini's race.
७.१६९.४७
अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा ।
उवाच श्लक्ष्णया वाचा सहदेवो विशां पते ॥
उवाच श्लक्ष्णया वाचा सहदेवो विशां पते ॥
M N Dutt
Then, Oking, Sahadeva jumping down from his car, addressed Satyaki held in check by the strong arms of Bhima, in these soothing
७.१६९.४८
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते ।
परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव ॥
परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव ॥
M N Dutt
O foremost of men, we possess not friends dearer to ourselves, then the Andhakas, the Vrishnis and the Panchalas, O descendant of Madhu's race.
॥ इति ७.१६९ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.