संजय उवाच ।
७.१६३.१
ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् ।
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ॥
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ॥
M N Dutt
Sanjaya said Filled with rage, Dushasana then assailed Sahadeva causing the earth to quake with the fierce clash of his chariot.
७.१६३.२
तस्यापतत एवाशु भल्लेनामित्रकर्शनः ।
माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ॥
माद्रीसुतः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ॥
M N Dutt
While Dushasana was thus rushing at the son of Madri, that subduer of foes, quickly cutoff with a broad-headed shafts, the head, protected with helmet helmet of of the former's charioteer.
७.१६३.३
नैनं दुःशासनः सूतं नापि कश्चन सैनिकः ।
हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ॥
हृतोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ॥
M N Dutt
Owing to the quickness with which the charioteer's head was cut-off, neither any one among the troops nor Dushasana himself perceived him to have been decapitated by Sahadeva.
७.१६३.४
यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम् ।
ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् ॥
ततो दुःशासनः सूतं बुद्धवान्गतचेतसम् ॥
M N Dutt
The reins being no longer held by any body, the horses ran at their free will. It was only then that Dushasana came to know that his driver had been slain.
७.१६३.५
स हयान्संनिगृह्याजौ स्वयं हयविशारदः ।
युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च ॥
युयुधे रथिनां श्रेष्ठश्चित्रं लघु च सुष्ठु च ॥
M N Dutt
Himself an expert in managing steeds he restrained his horses; and that foremost of carwarriors then fought on lightly, beautifully and skillfully.
७.१६३.६
तदस्यापूजयन्कर्म स्वे परे चैव संयुगे ।
हतसूतरथेनाजौ व्यचरद्यदभीतवत् ॥
हतसूतरथेनाजौ व्यचरद्यदभीतवत् ॥
M N Dutt
Then as he covered dauntlessly on the field that driverless car of his, his friends and foes alike applauded his feat. soon
७.१६३.७
सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् ।
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ॥
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ॥
M N Dutt
Sahadeva, however, covered Dushasana steeds with sharp arrows and these, afflicted with those arrows, began to run away wildly.
७.१६३.८
स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् ।
धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत् ॥
धनुषा कर्म कुर्वंस्तु रश्मीन्स पुनरुत्सृजत् ॥
M N Dutt
For holding the reins Dushasana once laid his bow aside, again, for using the bow the took up the reins. (Thus did he then fight).
७.१६३.९
छिद्रेषु तेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् ।
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ॥
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ॥
M N Dutt
During these opportunities, the son of Madri pierced him with numerous arrows. Then desirous of rescuing your son Karna rushed between those two combatants.
७.१६३.१०
वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितैः ।
आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत् ॥
आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत् ॥
M N Dutt
Thereupon Vrikodara, with due caution, pierced Kara on the breast and the arms, with three broad-headed shafts shot from a fulldawn bow.
७.१६३.१४
गदया भीमसेनस्तु कर्णस्य रथकूबरम् ।
बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत् ॥
बिभेदाशु तदा राजंस्तदद्भुतमिवाभवत् ॥
M N Dutt
To use bows and arrows, began to fight with their maces. Then Bhimasena succeeded in crushing Karna's car terraced with his mace; O king, that indeed looked wonderful. Then the puissant son of Radha grasping a mace.
७.१६३.१६
ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् ।
तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः ।
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ॥
तां शरैर्दशभिः कर्णः सुपुङ्खैः सुसमाहितैः ।
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ॥
M N Dutt
Then Karna struck that mace with numerous shafts furnished with beautiful wings and duly sped and also with other shafts. The mace then was thrown back on Bhima.
७.१६३.२०
स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् ।
हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः ॥
हरिर्यथा गिरेः शृङ्गं समाक्रामदरिंदमः ॥
M N Dutt
When his chariot was thus rendered useless, hat subduer of foes, viz., Bhima, quickly jumped into the chariot of Nakula like a lion leaping upon a mountain chest.
७.१६३.२१
तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ ।
आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि ॥
आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि ॥
M N Dutt
Meanwhile Drona and Arjuna those two most of car-warriors preceptor and pupil, both accomplished in the use of weapons, O monarch, fought on with each other in battle.
७.१६३.२२
लघुसंधानयोगाभ्यां रथयोश्च रणेन च ।
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ॥
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ॥
M N Dutt
Confounding the eyes and minds of men with the celerity with which they used their weapons and the sureness of their aims and the motions of their chariot.
७.१६३.२३
उपारमन्त ते सर्वे योधास्माकं परे तथा ।
अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः ॥
अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः ॥
M N Dutt
Beholding that battle between the preceptor and pupil, of which no equal was seen before, the other warriors desisted from fighting and began to tremble.
७.१६३.२४
विचित्रान्पृतनामध्ये रथमार्गानुदीर्यतः ।
अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः ।
पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः ॥
अन्योन्यमपसव्यं च कर्तुं वीरौ तदैषतुः ।
पराक्रमं तयोर्योधा ददृशुस्तं सुविस्मिताः ॥
M N Dutt
Then those two heroes, displaying various motions of cars on the field of battle, tried to leave each other to their right.
७.१६३.३७
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् ।
न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् ।
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ॥
न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् ।
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ॥
M N Dutt
The Siddhas and the sages present then said "This is neither a human, nor an Asura, nor a Rakshasa, nor a celestial, nor a Gandharva battle; certainly this is a high Brahma battle; this encounter is exceedingly charming and greatly wonderful. We have never seen nor heard of its like before.
७.१६३.३८
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः ।
नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् ॥
नानयोरन्तरं द्रष्टुं शक्यमस्त्रेण केनचित् ॥
M N Dutt
At times the preceptor obtained advantages over the son of Pandu and at times the latter again prevailed over the former. None then was able to mark any difference between them.
७.१६३.३९
यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना ।
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ॥
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ॥
M N Dutt
If Rudra, dividing himself in twain, fights with himself, then an example may be obtained that may match it.
७.१६३.४०
ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे ।
शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे ॥
शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे ॥
M N Dutt
In the preceptor there is the knowledge of science. The knowledge of sciences and the means to be applied are in the son of Pandu. Heroism exists in Drona whereas both heroism and mighty exist in the son of Pandu.
७.१६३.४१
नेमौ शक्यौ महेष्वासौ रणे क्षेपयितुं परैः ।
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ॥
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ॥
M N Dutt
None of these two combatants could be resisted by the foe in battle. At their will they can destroy the universe with the gods themselves.
७.१६३.४२
इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ ।
अन्तर्हितानि भूतानि प्रकाशानि च संघशः ॥
अन्तर्हितानि भूतानि प्रकाशानि च संघशः ॥
M N Dutt
Seeing those two foremost of men, O mighty monarch, the visible and invisible creatures said these words.
७.१६३.४३
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः ।
संतापयन्रणे पार्थं भूतान्यन्तर्हितानि च ॥
संतापयन्रणे पार्थं भूतान्यन्तर्हितानि च ॥
M N Dutt
Thereafter, Drona of great intelligence, invoked into existence the Brahma weapon thereby afflicting Partha and the invisible creatures.
७.१६३.४४
ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ॥
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ॥
M N Dutt
Thereupon the earth, with its mountains, forests and trees, began to tremble. Conflicting winds began to blow and the oceans were agitated.
७.१६३.४५
ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः ।
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ॥
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ॥
M N Dutt
When that weapon was raised by highsouled Drona for use, the Kuru and the Pandava troops as also all the other creatures were stricken with panic.
७.१६३.४६
ततः पार्थोऽप्यसंभ्रान्तस्तदस्त्रं प्रतिजघ्निवान् ।
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ॥
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ॥
M N Dutt
Thereupon, O foremost of kings, Pirthas' son, with the other Brahma weapons, destroyed that weapon of Drona and then all things were again pacified.
७.१६३.४७
यदा न गम्यते पारं तयोरन्यतरस्य वा ।
ततः संकुलयुद्धेन तद्युद्धं व्यकुलीकृतम् ॥
ततः संकुलयुद्धेन तद्युद्धं व्यकुलीकृतम् ॥
M N Dutt
At last when none of them was able to vanquish his opponent in a single combat, a ge engagement commenced between the two hosts, creating a terrible confusion on the field.
७.१६३.४८
नाज्ञायत ततः किंचित्पुनरेव विशां पते ।
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे ॥
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे ॥
M N Dutt
During the progress of that terrible encounter between Drona and Pandu's son, O king, once nothing could be distinguished.
७.१६३.४९
शरजालैः समाकीर्णे मेघजालैरिवाम्बरे ।
न स्म संपतते कश्चिदन्तरिक्षचरस्तदा ॥
न स्म संपतते कश्चिदन्तरिक्षचरस्तदा ॥
M N Dutt
The firmament being covered with networks of arrows, as if with masses of clouds, no ranger of the air was then seen to course through it. more
॥ इति ७.१६३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.