धृतराष्ट्र उवाच ।
६.१२.१
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह संजय ।
विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः ॥
विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः ॥
M N Dutt
Dhritarashtra said O Sanjaya, you have described to me. Jambukhanda. Tell me now its dimensions and extent.
६.१२.२
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन ।
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च संजय ॥
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च संजय ॥
M N Dutt
O Sanjaya, tell me also of the extent of the oceans, of Shakadvipa, and of Kushadvipa.
६.१२.३
शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च ।
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥
M N Dutt
Of Shalmalidvipa and of Kraunchadvipa. O son of Gavalgani, tell me also of Rahu, Soma and Surya.
संजय उवाच ।
६.१२.४
राजन्सुबहवो द्वीपा यैरिदं संततं जगत् ।
सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा ॥
सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा ॥
M N Dutt
Sanjaya said O king, there are many islands in this earth. But I shall describe to you only seven islands and also the moon, and the sun and the planets.
६.१२.५
अष्टादश सहस्राणि योजनानां विशां पते ।
षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥
षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥
M N Dutt
O king, the Jambu mountain extends for full eighteen thousand and six hundred Yojanas.
६.१२.६
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः ।
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥
M N Dutt
The extent of the salt sea is said to be double of it. this sea is covered with many kingdoms. It is adorned with gems and corals.
६.१२.७
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः ।
सिद्धचारणसंकीर्णः सागरः परिमण्डलः ॥
सिद्धचारणसंकीर्णः सागरः परिमण्डलः ॥
M N Dutt
It is adorned with many mountains that are variegated with metals of various kinds. It is circular in form like a sea, and is thickly peopled by the Siddhas and the Charanas.
६.१२.८
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव ।
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥
M N Dutt
O descendant of Bharata. O scion of the Kuru race, I shall now speak to you in detail of Shakadvipa. Hear as I describe it.
६.१२.९
जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप ।
विष्कम्भेण महाराज सागरोऽपि विभागशः ।
क्षीरोदो भरतश्रेष्ठ येन संपरिवारितः ॥
विष्कम्भेण महाराज सागरोऽपि विभागशः ।
क्षीरोदो भरतश्रेष्ठ येन संपरिवारितः ॥
M N Dutt
O that island is twice as large as the Jambudvipa. O king of kings, the ocean also is twice as large as that island.
६.१२.११
शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ ।
उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि ॥
उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि ॥
M N Dutt
There is no famine there. The people all possess forgiveness and great prowess. O best of the Bharata race, I have briefly spoken to you about Shakadvipa. What else. O king, do you desire to hear.
धृतराष्ट्र उवाच ।
६.१२.१२
शाकद्वीपस्य संक्षेपो यथावदिह संजय ।
उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः ॥
उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः ॥
M N Dutt
Dhritarashtra said You have briefly told me of Shakadvipa. O greatly wise one, tell me now everything in detail.
संजय उवाच ।
६.१२.१३
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः ।
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ।
अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप ॥
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ।
अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप ॥
M N Dutt
O king there are seven mountains in that island. They are decked with jewels and there are mines of gems and precious stones. There are many rivers in that island. Hear, as I tell you their names. O king, every thing there is charming and delightful. The first of those mountains is called Meru. It is the abode of the celestials, the Rishis and the Gandharvas.
६.१२.१४
देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते ।
प्रागायतो महाराज मलयो नाम पर्वतः ।
यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ॥
प्रागायतो महाराज मलयो नाम पर्वतः ।
यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ॥
M N Dutt
O king, the next mountains stretching castward is called the Malaya. It is there that the clouds are born, and it is from that place that they disperse on all sides.
६.१२.१५
ततः परेण कौरव्य जलधारो महागिरिः ।
यत्र नित्यमुपादत्ते वासवः परमं जलम् ।
यतो वर्षं प्रभवति वर्षाकाले जनेश्वर ॥
यत्र नित्यमुपादत्ते वासवः परमं जलम् ।
यतो वर्षं प्रभवति वर्षाकाले जनेश्वर ॥
M N Dutt
O descendant of Kuru, the next is the large mountain, called Jaladhara. From it, Indra daily takes water of the best quality.
६.१२.१६
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः ।
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥
M N Dutt
O ruler of men, it is from that water that we get showers in the rains. Next is the great mountain, called Raivataka over which has been permanently placed in the sky of constellation Rohini. This arrangement has been made by the Grandsire (Brahma) himself. O great king, on the north of this mountains is one called Syama.
६.१२.१७
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः ।
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ॥
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ॥
M N Dutt
It is as bright as the newly risen clouds. It is high beautiful and bright. O king, as the colour of that mountain is black, all the people that live there are dark.
धृतराष्ट्र उवाच ।
६.१२.१८
सुमहान्संशयो मेऽद्य प्रोक्तं संजय यत्त्वया ।
प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह ॥
प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह ॥
M N Dutt
Dhritarashtra said O Sanjaya, a great doubt has arisen in my mind. Why, O son of Suta, people of that country are dark?
संजय उवाच ।
६.१२.१९
सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन ।
गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप ॥
गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप ॥
M N Dutt
Sanjaya said O great king, O descendant of Kuru in all islands men may be found who are fair and those who are dark and those also who are born by the mixture of the white and the black races.
६.१२.२०
श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत ।
आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः ॥
आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः ॥
M N Dutt
But because the people are all dark there, that mountain is called the Dark mountain. O chief of the Kurus, next to this is the great mountain, called Durgashaila.
६.१२.२३
महामेरुर्महाकाशो जलदः कुमुदोत्तरः ।
जलधारात्परो राजन्सुकुमार इति स्मृतः ॥
जलधारात्परो राजन्सुकुमार इति स्मृतः ॥
M N Dutt
O descendant of Kuru it is said by the learned that there are seven Varshas in that island. The Varsha of Meru is called Mahakasha, that of the water-giver (Malaya) is called Kumudottara. That of Jaladhara is called that of Shyama, called Manikanchana.
६.१२.२५
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च ।
जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः ॥
जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः ॥
M N Dutt
That of Kesara is called Modaki and that of the next mountain is called Mahapuman. In the midst of that island is a large tree called Shaka. In height and breadth that tree is equal to that of the Jambu tree in Jambudvipa. The people always worship that tree.
६.१२.२८
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते ।
दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥
दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥
M N Dutt
O king, the people there are all virtuous, O descendant of Bharata, all the four orders of men there are engaged in their respective duties. There occurs not a case of theft.
६.१२.२९
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः ।
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः ॥
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः ॥
M N Dutt
O king, being free from old age and death, and possessing long life, the people there grow like rivers in the rains.
६.१२.३०
सुकुमारी कुमारी च सीता कावेरका तथा ।
महानदी च कौरव्य तथा मणिजला नदी ।
इक्षुवर्धनिका चैव तथा भरतसत्तम ॥
महानदी च कौरव्य तथा मणिजला नदी ।
इक्षुवर्धनिका चैव तथा भरतसत्तम ॥
M N Dutt
Mahanadi, the Manijala, Chakshuas, and the river Vardhanika, O descendant of Kuru, O best of the Bharata race.
६.१२.३१
ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह ।
सहस्राणां शतान्येव यतो वर्षति वासवः ॥
सहस्राणां शतान्येव यतो वर्षति वासवः ॥
M N Dutt
These and many other rivers by hundreds and thousands all full of sacred water are there. O perpetuator of the Kuru race, Vasava (Indra) draws water from them to shower as rain.
६.१२.३२
न तासां नामधेयानि परिमाणं तथैव च ।
शक्यते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः ॥
शक्यते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः ॥
M N Dutt
It is impossible to mention the names and lengths of these rivers. All of them are the foremost of all rivers, and they are all sincleansing.
६.१२.३३
तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः ।
मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ॥
मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ॥
M N Dutt
As every body has heard in the island of Shaka there are four sacred countries. They are the Mrigas, the Mashakas, the Manasas and the Mandagas.
६.१२.३४
मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप ।
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ॥
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः ॥
M N Dutt
The Mrigas are generally Brahmanas engaged in the duties of their own. Many virtuous Kshatriyas are among the Mashakas who grant every wish of the Brahmanas.
६.१२.३५
मानसेषु महाराज वैश्याः कर्मोपजीविनः ।
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ।
शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः ॥
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ।
शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः ॥
M N Dutt
O king, the Manasas follow the duties of the Vaishyas. Having all their desires gratified, they are brave and firmly devoted to Dharma and Artha.
६.१२.३७
एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम् ।
एतावदेव श्रोतव्यं शाकद्वीपे महौजसि ॥
एतावदेव श्रोतव्यं शाकद्वीपे महौजसि ॥
M N Dutt
They are all engaged in the practice of their respective duties and they all protect one another. So much can be said of the Shaka island and so much only could be heard of that greatly powerful isiand.
॥ इति ६.१२ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.