धृतराष्ट्र उवाच ।
६.११.१
भारतस्यास्य वर्षस्य तथा हैमवतस्य च ।
प्रमाणमायुषः सूत फलं चापि शुभाशुभम् ॥
प्रमाणमायुषः सूत फलं चापि शुभाशुभम् ॥
M N Dutt
Dhritarashtra said 0 Sanjaya, O Suta, tell me in detail the length of life, the strength, the good and bad things, the past, present and future of the dwellers of the Bharata Varsha and of the Himavat Varsha and also of Harivarsha.
६.११.२
अनागतमतिक्रान्तं वर्तमानं च संजय ।
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ॥
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ॥
M N Dutt
Dhritarashtra said 0 Sanjaya, O Suta, tell me in detail the length of life, the strength, the good and bad things, the past, present and future of the dwellers of the Bharata Varsha and of the Himavat Varsha and also of Harivarsha.
संजय उवाच ।
६.११.३
चत्वारि भारते वर्षे युगानि भरतर्षभ ।
कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन ॥
कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन ॥
M N Dutt
Sanjaya said O best of the Bharata race, there are four Yugas in Bharatavarsha, namely Krita, Treta, Dvapara and Kali.
६.११.४
पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो ।
संक्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते ॥
संक्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते ॥
M N Dutt
The first of the Yugas in Krita. O lord, after the expire of the Krita comes Treta, after Treta comes Dvapara. after the last of all comes Kali.
६.११.५
चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम ।
आयुःसंख्या कृतयुगे संख्याता राजसत्तम ॥
आयुःसंख्या कृतयुगे संख्याता राजसत्तम ॥
M N Dutt
O foremost of the Kurus, O best of kings, the length of life in the Krita Yoga is four thousand years.
६.११.६
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप ।
द्विसहस्रं द्वापरे तु शते तिष्ठति संप्रति ॥
द्विसहस्रं द्वापरे तु शते तिष्ठति संप्रति ॥
M N Dutt
O ruler of men, the length of life in Treta is three thousand. In the present age, in this Dvapara, persons remain on earth for two thousand years.
६.११.७
न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ ।
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥
M N Dutt
O best of the Bharata race, in Kali there will be no fixed period for men's life on earth, they will die even in the womb or after birth.
६.११.१०
आयुष्मन्तो महावीरा धनुर्धरवरा युधि ।
जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः ॥
जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः ॥
M N Dutt
In Treta age are born brave Kshatriyas who are subject to none who are long-lived, who are heroic, and who wield the bow in battle with great skill.
६.११.११
सर्ववर्णा महाराज जायन्ते द्वापरे सति ।
महोत्साहा महावीर्याः परस्परवधैषिणः ॥
महोत्साहा महावीर्याः परस्परवधैषिणः ॥
M N Dutt
O kings, when Dvapara comes in, all the four orders of men become capable of great exertions. They possess great energy and they desire to conquer one another.
६.११.१२
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप ।
लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत ॥
लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत ॥
M N Dutt
O king, the men born in the Kali Yuga possess little energy. They become highly wrathful, covetous and untruthful.
६.११.१३
ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च ।
पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत ॥
पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत ॥
M N Dutt
Jealousy, pride, anger, deception, malice, covetousness, O descendant of Bharata, are the characteristics of men in the Kali age.
६.११.१४
संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप ।
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥
M N Dutt
O king, O ruler of men, the portion of the Dvapara Yuga that still remains is very small. The Varsha called Haimavat is superior to Harivarsha in all attributes.
॥ इति ६.११ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.