वैशंपायन उवाच ।
५.१९७.१
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः ।
धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ॥
धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ॥
M N Dutt
Vaishampayana said In the same way the virtuous king Yudhishthira, son of Kunti, urged the warriors headed by Dhrishtadyumna, O Bharata.
५.१९७.२
चेदिकाशिकरूषाणां नेतारं दृढविक्रमम् ।
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥
M N Dutt
He ordered the leaders and commander of the Chedis, Kashis, and Karushas, Dhrishtaketu, of steady prowess, and the slayer of foes,
५.१९७.३
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् ।
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥
M N Dutt
And Virata, and Drupada and Yuyudhana and Shikhandin, and the mighty archers, rulers of Panchalas, the two Yudhamanyu and Uttamaujas (to advance).
५.१९७.४
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः ।
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ।
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ॥
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ।
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ॥
M N Dutt
Those warriors, clad in variegated armours, and bearing golden ear-rings shone like clarified butter is poured (or them).
५.१९७.६
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः ।
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ॥
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ॥
M N Dutt
And the son of Pandu ordered Abhimanyu and Brihanta and all Draupadeyas, (the five sons of Draupadi), headed by Dhrishtadyumna, to advance.
५.१९७.७
भीमं च युयुधानं च पाण्डवं च धनंजयम् ।
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः ॥
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः ॥
M N Dutt
And then he sent forth the second division of the army with Bhima, Yuyudhana and Dhananjaya, the son of Pandu.
५.१९७.८
भाण्डं समारोपयतां चरतां संप्रधावताम् ।
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् ॥
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् ॥
M N Dutt
And the noise of the warriors as they put on the equipment's of war, and moved and ran about, cheered as they were, reached the very heavens.
५.१९७.९
स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः ।
तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः ॥
तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः ॥
M N Dutt
Last of all, that ruler of the earth himself went forth in the rear, with other rulers of the earth, accompanied by Virata and Drupada.
५.१९७.१०
भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता ।
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥
M N Dutt
Then that army, of terrible archers commanded by Dhrishtadyumna, as it moved to and fro, looked like the full Ganga, silently rushing on.
५.१९७.११
ततः पुनरनीकानि व्ययोजयत बुद्धिमान् ।
मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् ॥
मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् ॥
M N Dutt
Then the intelligent (Yudhishthira) again arranged his troops (in a different order), confounding the knowledge of the sons of Dhritarashtra.
५.१९७.१५
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ ।
अन्वयातां ततो मध्ये वासुदेवधनंजयौ ॥
वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ ।
अन्वयातां ततो मध्ये वासुदेवधनंजयौ ॥
M N Dutt
And the two Maharathas, the ruler of Panchala, Yudhamanyu and Uttamaujas, who were high-souled (warriors) of great prowess holding clubs and bows.
५.१९७.१७
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः ।
पदातयश्च ये शूराः कार्मुकासिगदाधराः ।
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥
पदातयश्च ये शूराः कार्मुकासिगदाधराः ।
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥
M N Dutt
Those warriors who composed the infantry, armed with bows, swords, and maces, followed by thousands in the vanguard, and thousands in the rear.
५.१९७.१८
युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे ।
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥
M N Dutt
And in that part of that ocean of forces, where Yudhishthira himself (was), stationed a large number of rulers of the earth.
५.१९७.१९
तत्र नागसहस्राणि हयानामयुतानि च ।
तथा रथसहस्राणि पदातीनां च भारत ।
यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् ॥
तथा रथसहस्राणि पदातीनां च भारत ।
यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् ॥
M N Dutt
And in that part (were) thousands of elephants, and ten thousands of steeds, as well as thousands of cars and foot-soldiers O Bharata.
५.१९७.२०
ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः ।
नदन्तः प्रययुस्तेषामनीकानि सहस्रशः ॥
नदन्तः प्रययुस्तेषामनीकानि सहस्रशः ॥
M N Dutt
And above these, other men, by hundreds and thousands and tens of thousands of groups o thousands, followed their (sons of Pandu) forces, roaring loudly.
५.१९७.२१
तत्र भेरीसहस्राणि शङ्खानामयुतानि च ।
वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः ॥
वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः ॥
M N Dutt
And those men by thousands and tens of thousand, filled with joy, beat their drums by thousands, and blew their conches by tens of thousands.
॥ इति ५.१९७ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.