वैशंपायन उवाच ।
५.१९६.१
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः ।
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ॥
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ॥
M N Dutt
Vaishampayana said Then, the next morning, when all was cloudy, all the kings, advanced against the son of Pandu, being excited by Duryodhana the son of Dhritarashtra.
५.१९६.२
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः ।
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ॥
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ॥
M N Dutt
And they were all purified by having bathed and (decked) with garlands, and clothed in white raiment's, And having taken their weapons, and raised banners they received the blessings, after the sacred fires had been lighted.
५.१९६.३
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।
सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः ॥
सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः ॥
M N Dutt
All of them were versed in the Vedas, and were powerful warriors, and all of them had always ably observed their vows, and all could do as they pleased, and all showed signs of having (previously) fought.
५.१९६.४
आहवेषु पराल्लोकाञ्जिगीषन्तो महाबलाः ।
एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च ॥
एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च ॥
M N Dutt
Desirous of earning for themselves regions of bliss in the next world, and in battle, might and strenght, they had their attention fixed and had faith in each other.
५.१९६.५
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह ।
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥
M N Dutt
(First of all) Vinda and Anuvinda, both of Avanti, and the Kaikeyas with the Balhika's went out with Bharadvaja at their head.
५.१९६.६
अश्वत्थामा शांतनवः सैन्धवोऽथ जयद्रथः ।
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः ॥
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः ॥
M N Dutt
Then (came) Ashvathama and the son of Shantanu, and Jayadratha of the Sindhu country, and those kings who came from the south and west and other mountainous territories.
५.१९६.७
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः ।
शकाः किराता यवनाः शिबयोऽथ वसातयः ॥
शकाः किराता यवनाः शिबयोऽथ वसातयः ॥
M N Dutt
And then the Gandharva king named Shakuni and all those who came from the east and north from all parts, and the Shakas, Kiratas, Yavanas, Shibis and the Vasatis,
५.१९६.८
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् ।
एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥
एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥
M N Dutt
All these with their respective forces, surrounded their Maharathas, and all the Maharathas went out in the second division of the army.
५.१९६.९
कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः ।
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥
M N Dutt
Then (came) Kritavarman with his forces, and the great car-warrior Trigarta, and king Duryodhana, surrounded by his brothers.
५.१९६.१०
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः ।
एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः ॥
एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः ॥
M N Dutt
And Shalya and Brihadratha the monarch of the Kausalya, marched in the rear, led by the sons of Dhritarashtra.
५.१९६.११
ते समेन पथा यात्वा योत्स्यमाना महारथाः ।
कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः ॥
कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः ॥
M N Dutt
And these followers of the great and mighty son of Dhritarashtra, uniting together according to the proper mode took up their station, all clad in Armour, on the back part of the plains of Kurukshetra.
५.१९६.१२
दुर्योधनस्तु शिबिरं कारयामास भारत ।
यथैव हास्तिनपुरं द्वितीयं समलंकृतम् ॥
यथैव हास्तिनपुरं द्वितीयं समलंकृतम् ॥
M N Dutt
And Duryodhana caused his camp to be so made, O Bharata, as to look like a second Hastinapur, well-ornamented.
५.१९६.१३
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा ।
कुशला अपि राजेन्द्र नरा नगरवासिनः ॥
कुशला अपि राजेन्द्र नरा नगरवासिनः ॥
M N Dutt
And, O great king, even the clever men who lived in the city could not detect any distinguishing feature if their encampment from the city.
५.१९६.१४
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः ।
कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥
कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥
M N Dutt
And the descendant of Kuru, a lord of the earth, caused camps similar to this, inaccessible (to others). to be made, by hundreds and thousands, for the kings.
५.१९६.१५
पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम् ।
सेनानिवेशास्ते राजन्नाविशञ्शतसंघशः ॥
सेनानिवेशास्ते राजन्नाविशञ्शतसंघशः ॥
M N Dutt
That encampment of war stood on a circular area of five Yojanas. And into them,O king, he made soldiers with their horses &c., enter in groups of hundreds.
५.१९६.१६
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् ।
विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः ॥
विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः ॥
M N Dutt
Therein those rulers of earth entered, according to their respective strength and prowess, in camps which abounded in things by thousands.
५.१९६.१७
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् ।
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥
M N Dutt
And king Duryodhana ordered provisions of the best kind for high-souled (warriors) with their forces, consisting of infantry.
५.१९६.१८
सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः ।
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥
M N Dutt
And elephants, horses and other men. Those who lived by mechanical arts and those who followed them there as bards, singers and panegyrists.
५.१९६.१९
वणिजो गणिका वारा ये चैव प्रेक्षका जनाः ।
सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत ॥
सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत ॥
M N Dutt
And merchants and prostitutes and spies, and those who came as sight-seers, the Kuru king looked into (the needs of) all of them, with all proper care.
॥ इति ५.१९६ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.