भीष्म उवाच ।
५.१८८.१
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम् ।
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥
M N Dutt
Bhishma said to Then all the ascetics (living in Vatsabhumi), perceiving her firmly resolved on practicing austerities, dissuaded her, and they said "O child, what do you mean to do?"
५.१८८.२
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा ।
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥
M N Dutt
Then those Rishis hoary with asceticism, spoke the maiden : “I have been undone by Bhishma, and despoiled of those virtues that would have been mine by living with my husband.
५.१८८.३
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः ।
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ॥
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ॥
M N Dutt
My observance of vows is for his destruction, and not for the sake of the worlds of happiness, O you that have asceticism for your wealth. Having slain Bhishma I shall attain peace (of mind); this is my resolve.
५.१८८.४
यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम् ।
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ॥
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ॥
M N Dutt
Him by whom this existence has become one of continuous misery, by whom I have been deprived of the region where my husband is, for whom I am neither a woman nor a man in this life,
५.१८८.५
नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः ।
एष मे हृदि संकल्पो यदर्थमिदमुद्यतम् ॥
एष मे हृदि संकल्पो यदर्थमिदमुद्यतम् ॥
M N Dutt
Without slaying in battle that son of Ganga, I will not desist, O you whose wealth is asceticism. That which I have here spoken in wards, even that is the resolve in my heart within.
५.१८८.६
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया ।
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥
M N Dutt
I am disgusted with remaining in this state of mine as a woman, and I am firmly resolved upon attaining the state of a man. I will be revenged upon Bhishma. I should not be dissuaded any more.
५.१८८.७
तां देवो दर्शयामास शूलपाणिरुमापतिः ।
मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम् ॥
मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम् ॥
M N Dutt
To that ascetic lady, the god who holds the trident in his hand, and who is the husband of Uma, showed himself in his own form in the midst of those Maharshis.
५.१८८.८
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् ।
वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ॥
वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ॥
M N Dutt
Being asked to solicit her wished for boon, she prayed of the god my defeat. “You will slay him”, thus that god answered that lady of firm resolution.
५.१८८.९
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह ।
उपपद्येत्कथं देव स्त्रियो मम जयो युधि ।
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते ॥
उपपद्येत्कथं देव स्त्रियो मम जयो युधि ।
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते ॥
M N Dutt
“Thereupon again she said to Rudra, How can it happen, that mine shall be the victory in battle, O god, as I am, a woman?
५.१८८.१०
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ।
यथा स सत्यो भवति तथा कुरु वृषध्वज ।
यथा हन्यां समागम्य भीष्मं शांतनवं युधि ॥
यथा स सत्यो भवति तथा कुरु वृषध्वज ।
यथा हन्यां समागम्य भीष्मं शांतनवं युधि ॥
M N Dutt
Act in such a way that this (promise) may be true, O god who has the bull for the mark, and so that on encountering Bhishma, the son of Shantanu in battle, I may slay him.”
५.१८८.११
तामुवाच महादेवः कन्यां किल वृषध्वजः ।
न मे वागनृतं भद्रे प्राह सत्यं भविष्यति ॥
न मे वागनृतं भद्रे प्राह सत्यं भविष्यति ॥
M N Dutt
To that maiden Mahadeva (the great god) having the bull for his carrier thus spoke truly, “My words can not be false. They shall turn out true, O blessed one.
५.१८८.१२
वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे ।
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ॥
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ॥
M N Dutt
You will slay Bhishma in battle, for you will attain the state of a man. And you will recollect all this, when you go to another body.
५.१८८.१३
द्रुपदस्य कुले जाता भविष्यसि महारथः ।
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः ॥
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः ॥
M N Dutt
Borne in the race of Drupada, you shall be a Maharatha, quick in the use of weapons, skilled in fighting in various ways, and a fierce warrior.
५.१८८.१४
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति ।
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ॥
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ॥
M N Dutt
As I have spoken, O blessed one, so shall it all be. You will be a man after some time has elapsed."
५.१८८.१५
एवमुक्त्वा महातेजाः कपर्दी वृषभध्वजः ।
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ॥
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ॥
M N Dutt
So saying, Mahadeva, otherwise, known as Kapardin, and having the bull for his carrier, vanished even then and there while the Brahmanas were looking on.
५.१८८.१६
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता ।
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ॥
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ॥
M N Dutt
Thereupon that faultless damsel of fairest complexion, in the very sight of those great Rishis, having gathered fuel from that wood,
५.१८८.१७
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् ।
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥
M N Dutt
And making a large funeral pyre and having set fire (to it), O monarch, with a mind burning with wrath, even in that flaming fire,
५.१८८.१८
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् ।
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ॥
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ॥
M N Dutt
That eldest daughter of the king of Kashi, O king, entered the fire on the banks of the river Yamuna, saying (as she did so) “For the destruction of Bhimasena.
॥ इति ५.१८८ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.