भीष्म उवाच ।
५.१८४.१
ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा ।
ब्राह्मणानां पितॄणां च देवतानां च सर्वशः ॥
ब्राह्मणानां पितॄणां च देवतानां च सर्वशः ॥
M N Dutt
Bhishma said Then during the night, 0 great king, having bowed to all the Brahmanas, my fore fathers, all the gods,
५.१८४.२
नक्तंचराणां भूतानां रजन्याश्च विशां पते ।
शयनं प्राप्य रहिते मनसा समचिन्तयम् ॥
शयनं प्राप्य रहिते मनसा समचिन्तयम् ॥
M N Dutt
To all those beings that walk about in the night, to all elements, earth, water, fir, air and the sky, and to all kings, O lord of earth, I lay down on my bed, and being all alone, I began to reflect (thus).
५.१८४.३
जामदग्न्येन मे युद्धमिदं परमदारुणम् ।
अहानि सुबहून्यद्य वर्तते सुमहात्ययम् ॥
अहानि सुबहून्यद्य वर्तते सुमहात्ययम् ॥
M N Dutt
This terrible battle, between myself and Jamadgnya, being as it is of high and mighty consequence, lasted for many a day.
५.१८४.४
न च रामं महावीर्यं शक्नोमि रणमूर्धनि ।
विजेतुं समरे विप्रं जामदग्न्यं महाबलम् ॥
विजेतुं समरे विप्रं जामदग्न्यं महाबलम् ॥
M N Dutt
And yet I have not been able to vanquish, in fight on the field of battle, this twice-born Rama, known as Jamadgnya who is of great might and energy.
५.१८४.५
यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान् ।
दैवतानि प्रसन्नानि दर्शयन्तु निशां मम ॥
दैवतानि प्रसन्नानि दर्शयन्तु निशां मम ॥
M N Dutt
I indeed, it lies in my power to vanquish this powerful son of Jamadagni, let the gods, well-pleased, show themselves to me during the night.
५.१८४.६
ततोऽहं निशि राजेन्द्र प्रसुप्तः शरविक्षतः ।
दक्षिणेनैव पार्श्वेन प्रभातसमये इव ॥
दक्षिणेनैव पार्श्वेन प्रभातसमये इव ॥
M N Dutt
Then, O great king, mangled with arrows, as I lay asleep that night on my right, at about dawn came,
५.१८४.७
ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात् ।
उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः ॥
उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः ॥
M N Dutt
Those foremost of Brahmanas by whom I had been raised up when I had fallen down from chariot, and who had held me and comforted me, saying, “Fear not.”
५.१८४.८
त एव मां महाराज स्वप्नदर्शनमेत्य वै ।
परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह ॥
परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह ॥
M N Dutt
Even they, O great king, showing themselves to me (during my sleep) in a dream, stood around me, and spoke these words; Hear them, O perpetuator of Kuru's race,
५.१८४.९
उत्तिष्ठ मा भैर्गाङ्गेय भयं ते नास्ति किंचन ।
रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान् ॥
रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान् ॥
M N Dutt
Rise up and do not fear, O son of Ganga, you have not the least fear, for we will protect you, O son, who are own body.
५.१८४.१०
न त्वां रामो रणे जेता जामदग्न्यः कथंचन ।
त्वमेव समरे रामं विजेता भरतर्षभ ॥
त्वमेव समरे रामं विजेता भरतर्षभ ॥
M N Dutt
Rama, the son of Jamadagni, by no means will vanquish you in battle. (Rather), you will vanquish Rama in battle, O best of Bharata's race.
५.१८४.११
इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान् ।
विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे ॥
विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे ॥
M N Dutt
This well-beloved weapon you will recognize for it was known to you in your previous birth.
५.१८४.१२
प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत ।
न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित् ॥
न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित् ॥
M N Dutt
It appertains to the lord of all creatures (Brahma) and was manufactured by the divine architect; it is named Prasvapa, O Bharata. It is not known even to Rama nor to any body else on the earth.
५.१८४.१३
तत्स्मरस्व महाबाहो भृशं संयोजयस्व च ।
न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप ॥
न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप ॥
M N Dutt
Recollect it therefore, O you of mighty arms, and apply it steadily and with all your strength. It will come to you of itself, O you great king and sinless one.
५.१८४.१४
एनसा च न योगं त्वं प्राप्स्यसे जातु मानद ।
स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः ॥
स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः ॥
M N Dutt
No crime will therefore attach to you o giver of honors. And this son of Jamadagni will fall asleep, afflicted by the might of this weapon of yours.
५.१८४.१५
ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि ।
अस्त्रेण दयितेनाजौ भीष्म संबोधनेन वै ॥
अस्त्रेण दयितेनाजौ भीष्म संबोधनेन वै ॥
M N Dutt
Having thus vanquished him, you yourself will raise him up again to the battle-field by that dear weapon, O Bhishma, known as Samabodhana.
५.१८४.१६
एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः ।
प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम् ॥
प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम् ॥
M N Dutt
Do as we tell you, O son of Kuru, seated on your chariot at day-break. Asleep or dead, We consider it to be the same.
५.१८४.१७
न च रामेण मर्तव्यं कदाचिदपि पार्थिव ।
ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति ॥
ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति ॥
M N Dutt
O king, Rama will not die by any means. Apply therefore, this (weapon) Prasvapa, happily brought for you.
५.१८४.१८
इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः ।
अष्टौ सदृशरूपास्ते सर्वे भास्वरमूर्तयः ॥
अष्टौ सदृशरूपास्ते सर्वे भास्वरमूर्तयः ॥
M N Dutt
Having said this all those best of Brahmanas vanished, O king. They were eight in number, resembling one another in appearance, and shone brightly, having no material bodies.
॥ इति ५.१८४ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.