भीष्म उवाच ।
५.१८३.१
ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते ।
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥
M N Dutt
Bhishma said In the morning when the sun had risen, there again began the fight between myself and the scion of the Bhrigu's race.
५.१८३.२
ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः ।
ववर्ष शरवर्षाणि मयि शक्र इवाचले ॥
ववर्ष शरवर्षाणि मयि शक्र इवाचले ॥
M N Dutt
That foremost of smiters, Rama then seated on a quick-going car, showered nets of arrows on me that fell like clouds on a mountain.
५.१८३.३
तेन सूतो मम सुहृच्छरवर्षेण ताडितः ।
निपपात रथोपस्थे मनो मम विषादयन् ॥
निपपात रथोपस्थे मनो मम विषादयन् ॥
M N Dutt
Then that well-wisher of mine, my charioteer, overpowered by that shower of arrows, fell down from his place in the car causing anxiety of my mind.
५.१८३.४
ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत् ।
पृथिव्यां च शराघातान्निपपात मुमोह च ॥
पृथिव्यां च शराघातान्निपपात मुमोह च ॥
M N Dutt
Then did my charioteer fall into a deep trance and by reason of his being struck with arrows fell down in the earth and became senseless.
५.१८३.५
ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः ।
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥
M N Dutt
Then did the charioteer give up his life being struck with the arrows of Rama and for an instant, О chief among kings, I too was afraid at the time.
५.१८३.६
ततः सूते हते राजन्क्षिपतस्तस्य मे शरान् ।
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान् ॥
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान् ॥
M N Dutt
On my charioteer being killed, and my mind being excited Rama hurled at me arrows charged with death.
५.१८३.७
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः ।
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥
M N Dutt
Then did that scion of the Bhrigu race having drawn up his bow with great force hurtle an arrow at me who was overwhelmed at the calamity of my charioteer.
५.१८३.८
स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः ।
मयैव सह राजेन्द्र जगाम वसुधातलम् ॥
मयैव सह राजेन्द्र जगाम वसुधातलम् ॥
M N Dutt
That blood-drinking shaft, having fallen on my arrow, came down on the earth taking me along with it.
५.१८३.९
मत्वा तु निहतं रामस्ततो मां भरतर्षभ ।
मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः ॥
मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः ॥
M N Dutt
Rama too, thinking me to be dead, O best among the Bharatas, roared aloud like the clouds and sent again and again forth a loud shout along with his followers.
५.१८३.१०
तथा तु पतिते राजन्मयि रामो मुदा युतः ।
उदक्रोशन्महानादं सह तैरनुयायिभिः ॥
उदक्रोशन्महानादं सह तैरनुयायिभिः ॥
M N Dutt
Myself having fallen down, Rama, being pleased, gave forth a loud shout along with his followers.
५.१८३.११
मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः ।
आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः ।
आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते ॥
आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः ।
आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते ॥
M N Dutt
The Kurus who were there at my side and those who came there desirous of seeing the fight, became overwhelmed with deep sorrow at my fall.
५.१८३.१२
ततोऽपश्यं पातितो राजसिंह
द्विजानष्टौ सूर्यहुताशनाभान् ।
ते मां समन्तात्परिवार्य तस्थुः
स्वबाहुभिः परिगृह्याजिमध्ये ॥
द्विजानष्टौ सूर्यहुताशनाभान् ।
ते मां समन्तात्परिवार्य तस्थुः
स्वबाहुभिः परिगृह्याजिमध्ये ॥
M N Dutt
When I had fallen down, I saw O lion among kings, eight twice-born ones blazing like the sun. They there surrounding me and supporting me by their arrows in the midst of the field.
५.१८३.१३
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् ।
अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ।
स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ॥
अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ।
स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ॥
M N Dutt
Being supported by the twice-born, I did not touch the ground and was held in the air by them as by friends.
५.१८३.१५
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः ।
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥
M N Dutt
"Fear not, you will still be prosperous" and I suddenly stood up, comforted at those words of theirs, and saw my mother, the best among river, seated on the car.
५.१८३.१६
हयाश्च मे संगृहीतास्तया वै
महानद्या संयति कौरवेन्द्र ।
पादौ जनन्याः प्रतिपूज्य चाहं
तथार्ष्टिषेणं रथमभ्यरोहम् ॥
महानद्या संयति कौरवेन्द्र ।
पादौ जनन्याः प्रतिपूज्य चाहं
तथार्ष्टिषेणं रथमभ्यरोहम् ॥
M N Dutt
I also saw my heroes held by that great river, O chief among the son of Kuru. Having touched the feet of my mother and worshipping the memory of my ancestors, I ascended my chariot.
५.१८३.१७
ररक्ष सा मम रथं हयांश्चोपस्कराणि च ।
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥
M N Dutt
She protected myself with my chariot and horses and the weapons for battle and with clasped hands I sent her away.
५.१८३.१८
ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः ।
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥
M N Dutt
I then myself held the reins of those horses which had the speed of the wind and fought with the son of Jamadagni till the close of the day.
५.१८३.१९
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् ।
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥
M N Dutt
Then O foremost among the Bharatas, in that battle, I shot forth an arrow of great strength and speed on Rama that struck his heart.
५.१८३.२०
ततो जगाम वसुधां बाणवेगप्रपीडितः ।
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥
M N Dutt
He then fell down on his knees on the earth, overwhelmed by my arrow with his bow loosened from his grasp, and swooned away.
५.१८३.२१
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे ।
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥
M N Dutt
When Rama, the giver of thousands, had fallen down, clouds covered the sky discharging copious blood.
५.१८३.२२
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः ।
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥
M N Dutt
Meteors too fell by hundreds and thousands and roared, making everything shake. And suddenly Rahu swallowed the shining sun.
५.१८३.२३
ववुश्च वाताः परुषाश्चलिता च वसुंधरा ।
गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः ॥
गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः ॥
M N Dutt
High winds blew and the earth trembled and the cultures and cranes and crowns came down with joy.
५.१८३.२४
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् ।
अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः ॥
अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः ॥
M N Dutt
The cardinal points were ablaze and jackals began to cry aloud every moment; and drums untouched began to give forth harsh sound.
५.१८३.२५
एतदौत्पातिकं घोरमासीद्भरतसत्तम ।
विसंज्ञकल्पे धरणीं गते रामे महात्मनि ॥
विसंज्ञकल्पे धरणीं गते रामे महात्मनि ॥
M N Dutt
All these frightful omens occurred on the high-souled Rama falling down on the earth in a swoon.
५.१८३.२६
ततो रविर्मन्दमरीचिमण्डलो
जगामास्तं पांसुपुञ्जावगाढः ।
निशा व्यगाहत्सुखशीतमारुता
ततो युद्धं प्रत्यवहारयावः ॥
जगामास्तं पांसुपुञ्जावगाढः ।
निशा व्यगाहत्सुखशीतमारुता
ततो युद्धं प्रत्यवहारयावः ॥
M N Dutt
Then did the sun, covered by dust and its effulgence clouded, slowly set and night came on with its cool breezes and then we desisted from war.
५.१८३.२७
एवं राजन्नवहारो बभूव
ततः पुनर्विमलेऽभूत्सुघोरम् ।
काल्यं काल्यं विंशतिं वै दिनानि
तथैव चान्यानि दिनानि त्रीणि ॥
ततः पुनर्विमलेऽभूत्सुघोरम् ।
काल्यं काल्यं विंशतिं वै दिनानि
तथैव चान्यानि दिनानि त्रीणि ॥
M N Dutt
In this way, Oking, was there an end to the fight and again was there a fierce encounter at the dawn of day and so on day after day for three twenty days.
॥ इति ५.१८३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.