वैशंपायन उवाच ।
४.५७.१
अथ संगम्य सर्वे तु कौरवाणां महारथाः ।
अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत ॥
अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत ॥
M N Dutt
Vaishampayana said O descendant of Bharata, then united together all the mighty car-warriors of the Kuru army began to strike Arjuna collectively.
४.५७.२
स सायकमयैर्जालैः सर्वतस्तान्महारथान् ।
प्राच्छादयदमेयात्मा नीहार इव पर्वतान् ॥
प्राच्छादयदमेयात्मा नीहार इव पर्वतान् ॥
M N Dutt
That one of incomparable energy covered, on all sides, all those mighty car-warriors with a net-work of arrows as the mountains are covered with dews.
४.५७.३
नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत् ॥
M N Dutt
The huge elephants roaring, the horses neighing and the bugles and conchs being sounded, there arose a great tumult.
४.५७.४
नराश्वकायान्निर्भिद्य लोहानि कवचानि च ।
पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः ॥
पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः ॥
M N Dutt
Piercing the bodies of elephants and horses as also the iron coats of mail, the arrows of Partha dropped down in thousands.
४.५७.५
त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे ।
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥
M N Dutt
Shooting speedily his arrows, the son of Pandu looked in battle like the blazing mid-day sun of the autumn.
४.५७.६
उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥
M N Dutt
Possessed by fear, the car-warriors began to leap down from their cars, the horse-men from horse-back, and the infantry to fly away.
४.५७.७
शरैः संताड्यमानानां कवचानां महात्मनाम् ।
ताम्रराजतलोहानां प्रादुरासीन्महास्वनः ॥
ताम्रराजतलोहानां प्रादुरासीन्महास्वनः ॥
M N Dutt
There arose a great sound when the arrows of the high-souled Arjuna pierced the copper, silver and iron made coats of mail.
४.५७.८
छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम् ।
गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः ॥
गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः ॥
M N Dutt
The field was soon filled with the corpses of the warriors mounted on elephants and horses, killed by sharpened arrows.
४.५७.९
रथोपस्थाभिपतितैरास्तृता मानवैर्मही ।
प्रनृत्यदिव संग्रामे चापहस्तो धनंजयः ॥
प्रनृत्यदिव संग्रामे चापहस्तो धनंजयः ॥
M N Dutt
The earth was covered with dead bodies of men fallen down from the chariots where they were. Dhananjaya as if danced in the battlefield with bow in his hand.
४.५७.१०
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् ॥
त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात् ॥
M N Dutt
Hearing the twang of Gandiva like the rumble of thunder and being possessed by fear, all the soldiers fled away from the battle-field.
४.५७.११
कुण्डलोष्णीषधारीणि जातरूपस्रजानि च ।
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ॥
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ॥
M N Dutt
1 There were seen, fallen in the battle-field, heads having earrings and helmets and golden necklaces.
४.५७.१२
विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी ॥
M N Dutt
The earth was covered with human bodies mangled by shafts, arms with bows and hands with ornaments.
४.५७.१३
शिरसां पात्यमानानामन्तरा निशितैः शरैः ।
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ ॥
M N Dutt
O best of the Bharata race, on account of the heads cut off by sharpened arrows, falling continually on the ground, it appeared that a shower of stones fell from the sky.
४.५७.१४
दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः ।
अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च ।
क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः ॥
अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च ।
क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः ॥
M N Dutt
Displaying his own fierce prowess, Partha of dreadful prowess ranged in the battle-field pouring his celestials weapons.
४.५७.१७
प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम् ।
अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम् ॥
अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम् ॥
M N Dutt
Like that created by Time at the end of Yuga having bones for the moss and the dreadful hair of the dead, slain by the arrows, for the straws;
४.५७.१८
शरचापप्लवां घोरां मांसशोणितकर्दमाम् ।
महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् ।
चकार महतीं पार्थो नदीमुत्तरशोणिताम् ॥
महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम् ।
चकार महतीं पार्थो नदीमुत्तरशोणिताम् ॥
M N Dutt
The mighty car-warriors were the islands and it was filled with the sound of bugles and conchs. Thus Partha made a river of blood which it was so hard to cross.
४.५७.१९
आददानस्य हि शरान्संधाय च विमुञ्चतः ।
विकर्षतश्च गाण्डीवं न किंचिद्दृश्यतेऽन्तरम् ॥
विकर्षतश्च गाण्डीवं न किंचिद्दृश्यतेऽन्तरम् ॥
M N Dutt
People could not make out when Partha took up arrows, when he drew the Gandiva bow and discharged them.
॥ इति ४.५७ ॥
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.