उत्तर उवाच ।
४.३९.१
सुवर्णविकृतानीमान्यायुधानि महात्मनाम् ।
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥
M N Dutt
Uttara said Truly these golden weapons, belonging to the light handed and noble sons of Pritha, are greatly beautiful.
४.३९.२
क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः ।
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ॥
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ॥
M N Dutt
But where are that Arjuna, the son of Pritha, Yudhishthira of the Kuru race, Nakula, Sahadeva and Bhimasena the son of Pandu?
४.३९.३
सर्व एव महात्मानः सर्वामित्रविनाशनाः ।
राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन ॥
राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन ॥
M N Dutt
We never hear of all those noble (heroes), capable of destroying all enemies, who lost their kingdom at dice.
४.३९.४
द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता ।
जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् ॥
जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् ॥
M N Dutt
Where is Draupadi, the princess of Panchala, known as a jewel of a female who followed them to woods after their defeat at dice.
अर्जुन उवाच ।
४.३९.५
अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः ।
बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः ॥
बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः ॥
M N Dutt
Arjuna said I am Arjuna, the son of Pritha, your father's courtier is Yudhishthira and the clever cook of your father, Ballava, is Bhimasena.
४.३९.६
अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले ।
सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः ॥
सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः ॥
M N Dutt
Nakula is in charge of steeds and Sahadeva is in cow-pen and know Sairandhri as Draupadi for whom Kichaka's were slain.
उत्तर उवाच ।
४.३९.७
दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे ।
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥
M N Dutt
Uttara said I shall place confidence in your words if you can mention the ten names of Partha of which I had heard before.
अर्जुन उवाच ।
४.३९.८
हन्त तेऽहं समाचक्षे दश नामानि यानि मे ।
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः ।
बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः ॥
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः ।
बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः ॥
M N Dutt
Hear all with concentrated mind and attention-Arjuna, Phalguni, Jishnu, Kiritin Shvetavahana, Bibhatsu, Vijaya, Krishna, Savyasachin, Dhananjaya.
उत्तर उवाच ।
४.३९.९
केनासि विजयो नाम केनासि श्वेतवाहनः ।
किरीटी नाम केनासि सव्यसाची कथं भवान् ॥
किरीटी नाम केनासि सव्यसाची कथं भवान् ॥
M N Dutt
Uttara said name Why is your Vijaya? Why Shvetavahana? Why is your name Kiritin and why Savyasachi?
४.३९.१०
अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च ।
धनंजयश्च केनासि प्रब्रूहि मम तत्त्वतः ।
श्रुता मे तस्य वीरस्य केवला नामहेतवः ॥
धनंजयश्च केनासि प्रब्रूहि मम तत्त्वतः ।
श्रुता मे तस्य वीरस्य केवला नामहेतवः ॥
M N Dutt
Tell me all truly why your names are Arjuna, Phalguni, Jishnu, Krishna, Bibhatsu and Dhananjaya.
अर्जुन उवाच ।
४.३९.११
सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम् ।
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनंजयम् ॥
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनंजयम् ॥
M N Dutt
Arjuna said Having conquered all countries, and collected their wealth I lived in the midst of riches and so they call me Dhananjaya.
४.३९.१२
अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान् ।
नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ॥
नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ॥
M N Dutt
When I go out to fight with invincible kings I never return without defeating them; hence they call me Vijaya.
४.३९.१३
श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः ।
संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ॥
संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ॥
M N Dutt
When I fight in the battle field the steeds that are yoked to my car are white and golden hued and hence they call me Shvetavahana.
४.३९.१४
उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा ।
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥
M N Dutt
I was born on the Himavat when the constellation Uttara Phalguna was on the ascendant and hence they call me Phalguni.
४.३९.१५
पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः ।
किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् ॥
किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् ॥
M N Dutt
A diadem, brilliant like the sun, was formerly placed on my head by Indra during my fight with the Danavas and hence they call me Kiritin.
४.३९.१६
न कुर्यां कर्म बीभत्सं युध्यमानः कथंचन ।
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥
M N Dutt
I have never committed a hateful work in the field of battle and hence I am known as Bibhatsu amongst men and celestials. I
४.३९.१७
उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे ।
तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥
तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥
M N Dutt
Both of my hands are capable of drawing Gandiva: hence they know me as Savyasachi amongst men and celestials.
४.३९.१८
पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः ।
करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः ॥
करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः ॥
M N Dutt
My complexion is rare on earth with four boundaries and I perform pure deeds and hence they call me Arjuna.
४.३९.१९
अहं दुरापो दुर्धर्षो दमनः पाकशासनिः ।
तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः ॥
तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः ॥
M N Dutt
I have never committed a hateful work in the field of battle and hence I am known as Bibhatsu amongst men and celestials. I
४.३९.२०
कृष्ण इत्येव दशमं नाम चक्रे पिता मम ।
कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै ॥
कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै ॥
M N Dutt
Krishna, my tenth name, was given to me by my father out of affection for a black boy of great purity.
वैशंपायन उवाच ।
४.३९.२१
ततः पार्थं स वैराटिरभ्यवादयदन्तिकात् ।
अहं भूमिंजयो नाम नाम्नाहमपि चोत्तरः ॥
अहं भूमिंजयो नाम नाम्नाहमपि चोत्तरः ॥
M N Dutt
Vaishampayana said Then approaching Partha the son of Virata said "I am Bhuminjaya by name as well as Uttara.
४.३९.२२
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय ।
लोहिताक्ष महाबाहो नागराजकरोपम ।
यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम ॥
लोहिताक्ष महाबाहो नागराजकरोपम ।
यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम ॥
M N Dutt
By good luck I have seen you, O Partha, Welcome, O Dhananjaya, O you with red eyes and mighty arms resembling the trunk of elephants.
४.३९.२३
यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम् ।
अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि ॥
अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि ॥
M N Dutt
You should pardon me for what I said out of ignorance. You performed before many wonderful and difficult fears: hence my fears have been removed and I bear a great love for you.”
॥ इति ४.३९ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.