वैशंपायन उवाच ।
४.३८.१
तां शमीमुपसंगम्य पार्थो वैराटिमब्रवीत् ।
सुकुमारं समाज्ञातं संग्रामे नातिकोविदम् ॥
सुकुमारं समाज्ञातं संग्रामे नातिकोविदम् ॥
M N Dutt
Vaishampayana said Having approached the Shami tree and found out that the son of Virata was highly delicate and inexperienced in battle Partha said to him.
४.३८.२
समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर ।
नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् ॥
नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् ॥
M N Dutt
Commanded by me, O Uttara, bring down some arrows that are on the tree. These your shafts cannot stand my strength.
४.३८.५
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ।
ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च ॥
ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च ॥
M N Dutt
Therefore, O prince, climb this tree full of fruits for in it are tied the bows, shafts, banners and beautiful armours of the heroic sons of Pandu, Yudhishthira, Bhima, Arjuna and the twins.
४.३८.६
अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् ।
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ॥
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ॥
M N Dutt
There is also the mighty bow, Gandiva, of Partha, which alone is equal to hundred thousand of others and is capable of extending kingdom.
४.३८.७
व्यायामसहमत्यर्थं तृणराजसमं महत् ।
सर्वायुधमहामात्रं शत्रुसंबाधकारकम् ॥
सर्वायुधमहामात्रं शत्रुसंबाधकारकम् ॥
M N Dutt
Capable of standing the greatest exercise, huge like a palmyra tree, the largest of all weapons, capable of withstanding the enemy, embellished with gold, celestials, smooth broad without a knot, beautiful and straight and capable of bearing a heavy weight.
४.३८.८
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् ।
अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् ।
तादृशान्येव सर्वाणि बलवन्ति दृढानि च ॥
अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् ।
तादृशान्येव सर्वाणि बलवन्ति दृढानि च ॥
M N Dutt
Capable of standing the greatest exercise, huge like a palmyra tree, the largest of all weapons, capable of withstanding the enemy, embellished with gold, celestials, smooth broad without a knot, beautiful and straight and capable of bearing a heavy weight.
उत्तर उवाच ।
४.३८.९
अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम् ।
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ॥
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ॥
M N Dutt
Uttara said It is heard that a corpse is tie to the tree. How can I, being a prince, touch it with my own hands.
४.३८.१०
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना ।
महता राजपुत्रेण मन्त्रयज्ञविदा सता ॥
महता राजपुत्रेण मन्त्रयज्ञविदा सता ॥
M N Dutt
To touch it does not become me who am born in the Kshatriya race, a mighty prince and observant of Mantras and vows.
४.३८.११
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् ।
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे ॥
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे ॥
M N Dutt
Why should you, O Brihannala, make my body sullied and unclean by making me touch this corpse?
बृहन्नडोवाच ।
४.३८.१२
व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि ।
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ॥
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ॥
M N Dutt
Brihannala said You shall remain clean and unpolluted, O foremost of kings. Fear not, there are only bows on this tree and not a corpse.
४.३८.१३
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् ।
कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज ॥
कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज ॥
M N Dutt
O prince, why should I make you do a cursed deed, born as you are of a noble family and a heir to the king of Matsya's.
वैशंपायन उवाच ।
४.३८.१४
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली ।
आरुरोह शमीवृक्षं वैराटिरवशस्तदा ॥
आरुरोह शमीवृक्षं वैराटिरवशस्तदा ॥
M N Dutt
Thus addressed by Partha, Virata's son, adorned with ear-rings, got down from the car and climbed up the Shami tree unwillingly.
४.३८.१५
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनंजयः ।
परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद ॥
परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद ॥
M N Dutt
Dhananjaya, the slayer of enemies, waiting on the car, ordered him:-“Quickly bring down those bows from the top of the tree."
उत्तर उवाच ।
४.३८.२०
बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः ।
सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम् ॥
सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम् ॥
M N Dutt
Uttara said To what illustrious hero does this excellent bow belong, having a hundred golden bosses and shining ends?
४.३८.२१
वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः ।
सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम् ॥
सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम् ॥
M N Dutt
Whose is this most excellent bow of good sides and easy hold, on the staff of which shine golden elephants with such a brilliance?
४.३८.२२
तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः ।
पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् ॥
पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् ॥
M N Dutt
Whose is this excellent bow embellished with three scores of golden insects placed with proper divisions on its back?
४.३८.२३
सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः ।
तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् ॥
तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् ॥
M N Dutt
Whose is this most excellent bow of good sides and easy hold, on the staff of which shine golden elephants with such a brilliance?
४.३८.२४
शालभा यत्र सौवर्णास्तपनीयविचित्रिताः ।
सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् ॥
सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् ॥
M N Dutt
Whose is this most excellent bow of good sides and easy hold, on the staff of which shine golden elephants with such a brilliance?
४.३८.२५
इमे च कस्य नाराचाः सहस्रा लोमवाहिनः ।
समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये ॥
समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये ॥
M N Dutt
Whose are these thousand winged arrows having golden points and put in golden quivers?
४.३८.२६
विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः ।
हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः ॥
हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः ॥
M N Dutt
Whose are these huge shafts, thick-winged like vultures, whetted, of yellow hue entirely made of iron, and sharp?
४.३८.२७
कस्यायमसितावापः पञ्चशार्दूललक्षणः ।
वराहकर्णव्यामिश्रः शरान्धारयते दश ॥
वराहकर्णव्यामिश्रः शरान्धारयते दश ॥
M N Dutt
Whose is this sable bow having the emblem of five tigers, with boar-eared arrows numbering ten?.
४.३८.२८
कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः ।
शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः ॥
शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः ॥
M N Dutt
Whose are these long and thick five hundred arrows like the crescent shaped moon, capable of drinking blood?
४.३८.२९
कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः ।
उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः ॥
उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः ॥
M N Dutt
Whose are these gold feathered arrows whetted on stone, the lower halves of which are embellished with wings of the colour of a parrot's feathers and the upper halves of which are made of well-tempered steel?
४.३८.३०
कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः ।
वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् ॥
वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् ॥
M N Dutt
This long sword, with the emblem of a bee on its back and sharp as the sting of a bee, firm and capable of bearing heavy weight in battle, belongs to Arjuna.
४.३८.३२
कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः ।
हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ॥
हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ॥
M N Dutt
This huge, strong and dreadful sword, capable of bearing heavy weight and put in a sheath of cow-skin, belongs to Sahadeva.
बृहन्नडोवाच ।
॥ इति ४.३८ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.