उत्तर उवाच ।
४.३४.१
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् ।
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥
M N Dutt
Uttara said An expert in the use of bow as I am, I shall today go out in pursuit of kine, if some body, skilled in the management of horses, becomes my charioteer.
४.३४.२
तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः ।
पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः ॥
पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः ॥
M N Dutt
I do not know of a man who may be iny charioteer; find out out therefore quickly a charioteer who may suit me who am going out.
४.३४.३
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः ।
यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः ॥
यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः ॥
M N Dutt
My charioteer was killed in the great encounter that lasted for a month or at least twenty nights certain.
४.३४.४
स लभेयं यदि त्वन्यं हययानविदं नरम् ।
त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् ॥
त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् ॥
M N Dutt
As soon as I shall get a man experienced in the management of horses I shall immediately start hoisting the huge standard.
४.३४.५
विगाह्य तत्परानीकं गजवाजिरथाकुलम् ।
शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून् ॥
शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून् ॥
M N Dutt
Entering into the hostile army filled with elephants, horses and chariots and defeating the Kurus who are weak in power and weapons I shall bring back the animals.
४.३४.६
दुर्योधनं शांतनवं कर्णं वैकर्तनं कृपम् ।
द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ॥
द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ॥
M N Dutt
Having struck terror into Duryodhana, the son of Shantanu, (Bhishma) Vikartana's son (Kripa), Karna, Drona with his son and other powerful bowmen assembled there, like the wielder of thunderbolt afflicting the Danavas I shall this very moment bring back the kine.
४.३४.७
वित्रासयित्वा संग्रामे दानवानिव वज्रभृत् ।
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ॥
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ॥
M N Dutt
Having struck terror into Duryodhana, the son of Shantanu, (Bhishma) Vikartana's son (Kripa), Karna, Drona with his son and other powerful bowmen assembled there, like the wielder of thunderbolt afflicting the Danavas I shall this very moment bring back the kine.
४.३४.८
शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम् ।
किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम् ॥
किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम् ॥
M N Dutt
Finding none the Kurus are taking away the precious kine; what can I do when I am not there?
४.३४.९
पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः ।
किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते ॥
किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते ॥
M N Dutt
The assembled Kurus shall see today my prowess: (and they shall say). “Is it Arjuna's self who is contending us?”
वैशंपायन उवाच ।
४.३४.१०
तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः ।
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥
M N Dutt
Hearing him speak again and again thus to women Panchali could not bear his reference to Arjuna.
४.३४.११
अथैनमुपसंगम्य स्त्रीमध्यात्सा तपस्विनी ।
व्रीडमानेव शनकैरिदं वचनमब्रवीत् ॥
व्रीडमानेव शनकैरिदं वचनमब्रवीत् ॥
M N Dutt
Then stepping out from the midst of the women, the poor (princess) bashfully and gently gave vent to the following words.
४.३४.१२
योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः ।
बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः ॥
बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः ॥
M N Dutt
"This greatly beautiful youth resembling a huge elephant and known under the name Brihannala was the charioteer of Partha.
४.३४.१३
धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः ।
दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति ॥
दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति ॥
M N Dutt
A mighty bowman he was the disciple of the high-souled (Arjuna); O hero, I saw him before while I was living with the Pandavas.
४.३४.१४
यदा तत्पावको दावमदहत्खाण्डवं महत् ।
अर्जुनस्य तदानेन संगृहीता हयोत्तमाः ॥
अर्जुनस्य तदानेन संगृहीता हयोत्तमाः ॥
M N Dutt
While the fire consumed the forest of Khandava it was he who governed the excellent steeds of Arjuna.
४.३४.१५
तेन सारथिना पार्थः सर्वभूतानि सर्वशः ।
अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः ॥
अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः ॥
M N Dutt
Having him as his charioteer Partha vanquished all creatures at Khandavaprastha; indeed there is no charioteer like him.
४.३४.१६
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी ।
अस्याः स वचनं वीर करिष्यति न संशयः ॥
अस्याः स वचनं वीर करिष्यति न संशयः ॥
M N Dutt
Draupadi said O hero, he shall, forsooth, satisfy the words of your younger sister, a maiden of beautiful hips.
४.३४.१७
यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम् ।
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥
M N Dutt
If he becomes your charioteer, you will undoubtedly come back with kine having vanquished the Kurus.
४.३४.१८
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत ।
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम् ॥
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम् ॥
M N Dutt
Accosted thus by Sairandhri he said to his sister: "O fair (sister), go and bring Brihannala.”
४.३४.१९
सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम् ।
यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः ॥
यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः ॥
M N Dutt
Sent by her brother she quickly went to the dancing hall where that mighty-armed son of Pandu was waiting in disguise.
॥ इति ४.३४ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.