वैशंपायन उवाच ।
४.३३.१
याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति ।
दुर्योधनः सहामात्यो विराटमुपयादथ ॥
दुर्योधनः सहामात्यो विराटमुपयादथ ॥
M N Dutt
Vaishampayana said After the king of Matsya's had gone out in pursuit of Trigartas for recovering his kine, Duryodhana, with his courtiers, attacked his kingdom.
४.३३.५
षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते ।
महता रथवंशेन परिवार्य समन्ततः ॥
महता रथवंशेन परिवार्य समन्ततः ॥
M N Dutt
Encircling all sides with a huge array of cars, the Kauravas seized the sixty thousand kine.
४.३३.६
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः ।
आरावः सुमहानासीत्संप्रहारे भयंकरे ॥
आरावः सुमहानासीत्संप्रहारे भयंकरे ॥
M N Dutt
A great cry was set up in that dreadful combat by the cow-herds struck by those inighty car-warriors.
४.३३.७
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः ।
जगाम नगरायैव परिक्रोशंस्तदार्तवत् ॥
जगाम नगरायैव परिक्रोशंस्तदार्तवत् ॥
M N Dutt
Greatly stricken with grief the chief, of the cow-herds, quickly got upon a chariot and started for the city bewailing in affliction.
४.३३.८
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः ।
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥
M N Dutt
Entering the city of the king, he went to the palace and getting down from the car proceeded to relate (what took place).
४.३३.९
दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम् ।
तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥
तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥
M N Dutt
Seeing the haughty son of Matsya Bhuminjaya, he described to him everything about the royal kine being taken away.
४.३३.१०
षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते ।
तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् ॥
तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् ॥
M N Dutt
Encircling all sides with a huge array of cars, the Kauravas seized the sixty thousand kine.
४.३३.११
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् ।
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥
M N Dutt
If you wish your well-being, speedily go out yourself, O prince. The emperor Matsya left you alone in the city.
४.३३.१२
त्वया परिषदो मध्ये श्लाघते स नराधिपः ।
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥
M N Dutt
The king speaks highly of you in the court: My son, after me, is heroic and the supporter (of the prestige) of the race.
४.३३.१३
इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः ।
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ॥
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ॥
M N Dutt
My son is a heroic warrior, and an expert in the use of shafts. Make good these words of the Emperor.
४.३३.१४
आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर ।
निर्दहैषामनीकानि भीमेन शरतेजसा ॥
निर्दहैषामनीकानि भीमेन शरतेजसा ॥
M N Dutt
O you the foremost of those who own cattle, having discomfited the Kurus, do you bring back the animals, consume their soldiers with the dreadful prowess of your shafts,
४.३३.१५
धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः ।
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥
M N Dutt
Crush down the enemics' life, with straight shafts feathered in gold discharged off your bow like an elephant chief rushing at a herd.
४.३३.१६
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् ।
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥
M N Dutt
Your bow is like a Vina, the two ends being like ivory pillows; the string is the main chord, the staff is the finger board and the arrows represent the time. Strike this Vina of a bow in the midst of the enemies.
४.३३.१७
श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः ।
ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः ॥
ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः ॥
M N Dutt
Let your horses, white as silver, be yoked to the cars and let your flag, having the emblem of a golden lion, he hoisted up, O lord.
४.३३.१८
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया ।
छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः ॥
छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः ॥
M N Dutt
Let your sharp arrows, feathered in gold, discharged by your powerful arms, stand in the way of these kings and overshadow the sun.
४.३३.१९
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् ।
यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः ॥
यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः ॥
M N Dutt
Defeating all the Kurus in battle like the holder of Vajra the Asuras and acquiring great fame, return to your city.
४.३३.२०
त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः ।
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥
M N Dutt
You are the greatest support of the kingdom, the son of Matsya king, like Arjuna, the foremost of the victors amongst the sons of Pandu.
४.३३.२१
स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयंकरम् ।
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥
M N Dutt
Vaishampayana said Being thus addressed by him in the midst of females with fearless words in the inner apartment he gave went to the following praiseworthy words.
॥ इति ४.३३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.