वैशंपायन उवाच ।
४.३०.१
ततस्तेषां महाराज तत्रैवामिततेजसाम् ।
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥
M N Dutt
Vaishampayana said O great king, entering the service of the king Virata and living in that excellent city, the high-souled Pandavas of immeasurable prowess, passed the promised period in disguise, without being detected.
४.३०.२
व्यतीतः समयः सम्यग्वसतां वै पुरोत्तमे ।
कुर्वतां तस्य कर्माणि विराटस्य महीपतेः ॥
कुर्वतां तस्य कर्माणि विराटस्य महीपतेः ॥
M N Dutt
Vaishampayana said O great king, entering the service of the king Virata and living in that excellent city, the high-souled Pandavas of immeasurable prowess, passed the promised period in disguise, without being detected.
४.३०.३
ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत ।
सुशर्मणा गृहीतं तु गोधनं तरसा बहु ॥
सुशर्मणा गृहीतं तु गोधनं तरसा बहु ॥
M N Dutt
Thereupon, O descendant of Bharata, after the expiration of the thirteenth year, Susharma by force seized many of his kine.
४.३०.४
ततो जवेन महता गोपाः पुरमथाव्रजत् ।
अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली ॥
अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली ॥
M N Dutt
Then a herdsman came with great speed to the city; coming down from the car and seeing the king of Matsya with ear-rings, consulting with his counsellors, the high-souled Pandavas and surrounded by heroes and warriors, adorned with ear-rings and bracelets,
४.३०.५
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ।
सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः ॥
सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः ॥
M N Dutt
Then a herdsman came with great speed to the city; coming down from the car and seeing the king of Matsya with ear-rings, consulting with his counsellors, the high-souled Pandavas and surrounded by heroes and warriors, adorned with ear-rings and bracelets,
४.३०.६
तं सभायां महाराजमासीनं राष्ट्रवर्धनम् ।
सोऽब्रवीदुपसंगम्य विराटं प्रणतस्तदा ॥
सोऽब्रवीदुपसंगम्य विराटं प्रणतस्तदा ॥
M N Dutt
And approaching the great king Virata, the enhancer of kingdom, seated in the court, he, with humility, said.
४.३०.७
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् ।
गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते ।
तान्परीप्स मनुष्येन्द्र मा नेशुः पशवस्तव ॥
गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते ।
तान्परीप्स मनुष्येन्द्र मा नेशुः पशवस्तव ॥
M N Dutt
Vanquishing and humiliating us with our relatives in battle, the Trigartas are taking away thousands of your kine.'
४.३०.८
तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत् ।
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥
M N Dutt
O king of kings, "rescue them speedily so that they may not be lost.” Hearing his words the king collected his Matsya, army.
४.३०.१९
अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् ।
कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् ।
युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥
कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् ।
युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥
M N Dutt
There is no doubt Kanka, Ballava, Tantipala and the greatly energetic Damagranthi will fight.
४.३०.२०
एतेषामपि दीयन्तां रथा ध्वजपताकिनः ।
कवचानि विचित्राणि दृढानि च मृदूनि च ।
प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ॥
कवचानि विचित्राणि दृढानि च मृदूनि च ।
प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ॥
M N Dutt
Give them cars adorned with flags and pennons, and variegated armours, invulnerable, and easy to wear.
४.३०.२२
एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः ।
शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् ।
सहदेवाय राज्ञे च भीमाय नकुलाय च ॥
शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् ।
सहदेवाय राज्ञे च भीमाय नकुलाय च ॥
M N Dutt
O king, Shatanika, ordered chariots for the sons of Pritha-Sahadeva, the king Bhima and Nakula.
४.३०.२३
तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः ।
निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन् ॥
निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन् ॥
M N Dutt
Then those charioteers, delightedly having the devotion to the king always before them, speedily got the cars ready as commanded by the king.
४.३०.२४
कवचानि विचित्राणि दृढानि च मृदूनि च ।
विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् ।
तान्यामुच्य शरीरेषु दंशितास्ते परंतपाः ॥
विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् ।
तान्यामुच्य शरीरेषु दंशितास्ते परंतपाः ॥
M N Dutt
Those slayers of foes then put on their persons those strong, easy and variegated armours which the king Virata had ordered for (those heroes) of unwearied actions. Then ascending cars drawn by good horses, those best of men,
४.३०.२९
तदनीकं विराटस्य शुशुभे भरतर्षभ ।
संप्रयातं महाराज निनीषन्तं गवां पदम् ॥
संप्रयातं महाराज निनीषन्तं गवां पदम् ॥
M N Dutt
O foremost of the Bharatas, that army of Virata, issuing out marking the foot-prints of the kine, looked beautiful.
४.३०.३०
तद्बलाग्र्यं विराटस्य संप्रस्थितमशोभत ।
दृढायुधजनाकीर्णं गजाश्वरथसंकुलम् ॥
दृढायुधजनाकीर्णं गजाश्वरथसंकुलम् ॥
M N Dutt
While marching, that best of armies, belonging to Virata, filled with soldiers armed with strong weapons, abounding in elephants, horses and cars, looked really splendid.
॥ इति ४.३० ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.