वैशंपायन उवाच ।
४.२९.१
अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः ।
प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् ॥
प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् ॥
M N Dutt
Vaishampayana said Vanquished repeatedly by the Matsya king's charioteer, Kichaka, backed by other Matsya's, the powerful king of Trigartas, Susharma, owning many cars, gave vent to the following words at the opportune moment.
४.२९.२
असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह ।
सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः ॥
सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः ॥
M N Dutt
Vaishampayana said Vanquished repeatedly by the Matsya king's charioteer, Kichaka, backed by other Matsya's, the powerful king of Trigartas, Susharma, owning many cars, gave vent to the following words at the opportune moment.
४.२९.३
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो ।
स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत ॥
स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत ॥
M N Dutt
O King of the powerful, being forcibly defeated along with his relatives, he, looking askance at Karna, said to Duryodhana.
४.२९.४
असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा ।
प्रणेता कीचकश्चास्य बलवानभवत्पुरा ॥
प्रणेता कीचकश्चास्य बलवानभवत्पुरा ॥
M N Dutt
My kingdom has been again and again forcibly invaded by the king of Matsya's. Formerly the mighty Kichaka was his general.
४.२९.५
क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः ।
निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् ॥
निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् ॥
M N Dutt
Crooked, wrathful, wicked-minded, having his powers kuown all over the world, that crucl and vicious one has been slain by the Gandharvas.
४.२९.६
तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः ।
भविष्यति निरुत्साहो विराट इति मे मतिः ॥
भविष्यति निरुत्साहो विराट इति मे मतिः ॥
M N Dutt
He being slain, the king Virata, me-thinks, shorn of pride an refugc, will lose energy.
४.२९.७
तत्र यात्रा मम मता यदि ते रोचतेऽनघ ।
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥
M N Dutt
I think, O sinless one, we should go there, if it pleases you as well as all the Kauravas and the high-souled Karna.
४.२९.८
एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम् ।
राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् ॥
राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् ॥
M N Dutt
I consider, this accident, which has occurred, as favorable to us. Let us all go to his kingdom abounding in corn.
४.२९.९
आददामोऽस्य रत्नानि विविधानि वसूनि च ।
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥
M N Dutt
We will all take his various jewels and wealth and divide amongst ourselves his villages and provinces.
४.२९.१०
अथ वा गोसहस्राणि बहूनि च शुभानि च ।
विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् ॥
विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् ॥
M N Dutt
Invading his city by force we shall carry away his thousands of excellent kine of varicus kinds.
४.२९.११
कौरवैः सह संगम्य त्रिगर्तैश्च विशां पते ।
गास्तस्यापहरामाशु सह सर्वैः सुसंहताः ॥
गास्तस्यापहरामाशु सह सर्वैः सुसंहताः ॥
M N Dutt
O emperor, uniting the Kaurava army with Trigarta, we will today carry away his collections of kine with all.
४.२९.१२
संधिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् ।
हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे ॥
हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे ॥
M N Dutt
Arranging our army we shall destroy his manliness; or completely destroying his army we shall bring him under our subjection.
४.२९.१३
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् ।
भवतो बलवृद्धिश्च भविष्यति न संशयः ॥
भवतो बलवृद्धिश्च भविष्यति न संशयः ॥
M N Dutt
Having brought him under our control by lawful means we shall live happily in our kingdom and undoubtedly your power shall increase.
४.२९.१४
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ।
सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः ॥
सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः ॥
M N Dutt
Hearing those words Karna said to the king Susharman has spoken well; it is a good opportunity and is likely to be beneficial to us.
४.२९.१५
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् ।
विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ ॥
विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ ॥
M N Dutt
If you like, O sinless one, we shall speedily issue out by collecting our forces and arranging them in divisions.
४.२९.१६
प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः ।
आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा ॥
आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा ॥
M N Dutt
Or so arrange the expedition, as is liked by Sharadvata's son Kripa, the preceptor Drona and the wise and the aged grand-father of the Kurus; O king of the earth, consulting with each other we shall speedily start to gainour end.
४.२९.१८
किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः ।
अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् ॥
अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् ॥
४.२९.१९
यामो राजन्ननुद्विग्ना विराटविषयं वयम् ।
आदास्यामो हि गास्तस्य विविधानि वसूनि च ॥
आदास्यामो हि गास्तस्य विविधानि वसूनि च ॥
M N Dutt
Shorn of anxiety, O king, we will repair to the city of Virata and bring his kine and diverse wealth.
४.२९.२०
ततो दुर्योधनो राजा वाक्यमादाय तस्य तत् ।
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् ॥
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् ॥
M N Dutt
Vaishampayana said Thereupon accepting the words of Karna, the son of Vikartana, the king Duryodhana, himself speedily commanded Dushasana, born immediately after him, and always obeying his behest: “Consulting with our elders, arrange our army without any delay."
४.२९.२१
शासने नित्यसंयुक्तं दुःशासनमनन्तरम् ।
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् ॥
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् ॥
M N Dutt
Vaishampayana said Thereupon accepting the words of Karna, the son of Vikartana, the king Duryodhana, himself speedily commanded Dushasana, born immediately after him, and always obeying his behest: “Consulting with our elders, arrange our army without any delay."
४.२९.२२
यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः ।
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः ॥
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः ॥
M N Dutt
We, with all the Kauravas will go to the place, appointed. Let the mighty car-warrior Susharma also go as commanded.
४.२९.२३
त्रिगर्तैः सहितो राजा समग्रबलवाहनः ।
प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति ॥
प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति ॥
M N Dutt
Accompanied by Trigartas and the entire army and conveyances to the kingdom of Matsya concealing his intention.
४.२९.२४
जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् ।
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः ॥
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः ॥
M N Dutt
Following them, we will start the next day, well-prepared, for the prosperous territory of the king of Matsya's.
४.२९.२५
ते यात्वा सहसा तत्र विराटनगरं प्रति ।
क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् ॥
क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् ॥
M N Dutt
Let them with (Trigarta) go to the city of Virata and securing speedily his kine, let them take his immense wealth.
४.२९.२६
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च ।
वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् ॥
वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् ॥
M N Dutt
Going there in two detachments we will also take his thousand excellent kine endued with all qualities.
॥ इति ४.२९ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.