वैशंपायन उवाच ।
४.२२.१
तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः ।
रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ॥
रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ॥
M N Dutt
Vaishampayana said Coming there at that time and beholding Kichaka and surrounding him all sides his friends began to lament.
४.२२.२
सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् ।
तथा सर्वाङ्गसंभुग्नं कूर्मं स्थल इवोद्धृतम् ॥
तथा सर्वाङ्गसंभुग्नं कूर्मं स्थल इवोद्धृतम् ॥
M N Dutt
Then beholding Kichaka with all his limbs mangled like a tortoise brought to the land, the hairs of their bodies siood erect and they were filled with fear.
४.२२.३
पोथितं भीमसेनेन तमिन्द्रेणेव दानवम् ।
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥
M N Dutt
Then seeing him crushed by Bhimasena like a Danava by Indra they tried to take him out side for performing his obsequial ceremonies.
४.२२.४
ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः ।
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥
M N Dutt
Then the assembled sons of Suta beheld Krishna of faultless features standing hard by reclining on a pillar.
४.२२.५
समवेतेषु सूतेषु तानुवाचोपकीचकः ।
हन्यतां शीघ्रमसती यत्कृते कीचको हतः ॥
हन्यतां शीघ्रमसती यत्कृते कीचको हतः ॥
M N Dutt
Amongst those assembled, some wicked Kichaka's exclaimed: "soon kill this unchaste woman for whom Kichaka has been slain.
४.२२.६
अथ वा नेह हन्तव्या दह्यतां कामिना सह ।
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ॥
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ॥
M N Dutt
Or without slaying her, let us burn her, with him who desired to have her; for we should do by all means what was liked by the deceased son of a Suta."
४.२२.७
ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः ।
सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि ॥
सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि ॥
M N Dutt
Then they said to Virata: "For her, Kichaka has been slain; we shall burn her with him; it behoves you to give permission.”
४.२२.८
पराक्रमं तु सूतानां मत्वा राजान्वमोदत ।
सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ॥
सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ॥
M N Dutt
0 King, knowing well the prowess of Sutas, he gave them permission to burn down Sairandhri with Suta's son.
४.२२.९
तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम् ।
मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ॥
मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ॥
M N Dutt
Then approaching terrified Krishna, stricken with stupor and having lotus eyes the Kichaka's caught hold of her violently.
४.२२.१०
ततस्तु तां समारोप्य निबध्य च सुमध्यमाम् ।
जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा ॥
जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा ॥
M N Dutt
Then binding that youthful damsel and placing her upon the bier they started with great joy towards the cremation ground.
४.२२.११
ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता ।
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥
M N Dutt
Being thus carried away by the sons of Suta, O king, the faultless fertured and chaste Krishna, having lord, bewailed for the help of her husbands.
द्रौपद्युवाच ।
४.२२.१२
जयो जयन्तो विजयो जयत्सेनो जयद्बलः ।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥
M N Dutt
Draupadi said Let Jaya, Jayanta, Vijaya, Jayatsena and Jayadbala hear my words. The Sutas are taking me away.
४.२२.१३
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः ।
व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् ॥
व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् ॥
M N Dutt
Let those powerful and quick-coursing Gandharvas, the clatter of whose cars is very great and the twang of whose bows in a great encounter is heard like the roar of thunder, understand that the Sutas are taking me away.
४.२२.१४
रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम् ।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥
M N Dutt
Draupadi said Let Jaya, Jayanta, Vijaya, Jayatsena and Jayadbala hear my words. The Sutas are taking me away.
वैशंपायन उवाच ।
४.२२.१५
तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः ।
श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् ॥
श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् ॥
M N Dutt
Vaishampayana said Hearing those sorrowful words and bewailing of Krishna, Bhima, without reflecting the least, got up from his bed.
भीमसेन उवाच ।
४.२२.१६
अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम् ।
तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते ॥
तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते ॥
M N Dutt
Bhimasena said: I have heard those which O Sairandhri, you have said; you have no fear any more, O timid lady, from the Sutas.
वैशंपायन उवाच ।
४.२२.१७
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ।
ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च ।
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥
ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च ।
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥
M N Dutt
Vaishampayana said Having said this, the mighty-armed; Bhima, to slay them, began to swell his body and then carefully changing his dress.
४.२२.२३
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् ।
सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् ॥
सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् ॥
M N Dutt
“Here comes the powerful Gandharva enraged uprooting a tree. Soon release Sairandhri from whom this fear has come."
४.२२.२४
ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम् ।
विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ॥
विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ॥
M N Dutt
Then seeing the tree that had been uprooted by Bhimaseni they set Draupadi free and ran towards the city.
४.२२.२५
द्रवतस्तांस्तु संप्रेक्ष्य स वज्री दानवानिव ।
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ॥
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ॥
M N Dutt
Beholding them thus taking to their heels, the powerful Bhima, the son of the Wind-god, dispatched with that tree, O king, hundred and five of them to the abode of death, like the wielder of thunder-bolt, the Danavas. Then releasing Krishna he comforted her.
४.२२.२६
तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते ।
उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् ।
अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ॥
उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् ।
अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ॥
M N Dutt
Then the irrepressible mighty-armed Vrikodara Bhima said to the poor Panchali, Draupadi, with tearful eyes.
४.२२.२७
एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम् ।
प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव ।
अन्येनाहं गमिष्यामि विराटस्य महानसम् ॥
प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव ।
अन्येनाहं गमिष्यामि विराटस्य महानसम् ॥
M N Dutt
Then, O timid lady, all those from whom proceeded you misery, have been killed. Return O Krishna, to the city, you have no fear. I shall go to Virata's kitchen by another way.
४.२२.२८
पञ्चाधिकं शतं तच्च निहतं तत्र भारत ।
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥
M N Dutt
Vaishampayana said O descendant of Bharata, thus there were slain hundred and five of them (as if) a huge forest over-spread with uprooted trees.
४.२२.२९
एवं ते निहता राजञ्शतं पञ्च च कीचकाः ।
स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् ॥
स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् ॥
M N Dutt
Thus, Oking, one hundred and five Kichaka's killed. Including the commander-in-chief who was slain before, they were one hundred and six.
४.२२.३०
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च संगताः ।
विस्मयं परमं गत्वा नोचुः किंचन भारत ॥
विस्मयं परमं गत्वा नोचुः किंचन भारत ॥
M N Dutt
Beholding that wonderful deed men and women assembled; O descendant of Bharata, they were filled with surprise and could not speak any thing.
॥ इति ४.२२ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.