जनमेजय उवाच ।
३.२५७.१
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥
M N Dutt
Janamejaya said : Having suffered such misery consequent upon Draupadi's being carried away what did those Pandavas, the foremost of men, do?
वैशंपायन उवाच ।
३.२५७.२
एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम् ।
आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः ॥
आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः ॥
M N Dutt
Vaishampayana said : Having thus released Krishna and vanquished Jayadratha, the pious king Yudhishthira took his seat by the side of the ascetics.
३.२५७.३
तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम् ।
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ॥
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ॥
M N Dutt
Amongst those great ascetics who were expressing their sorrow on hearing of the incident) the descendant of Pandu, addressing Markandeya, gave vent to the following.
३.२५७.४
मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम् ।
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः ॥
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः ॥
M N Dutt
Me-thinks, Time and Destiny, instituted by the Deity, are inevitable io creatures and cannot be warded off.
३.२५७.५
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम् ।
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ॥
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ॥
M N Dutt
How could (such a misfortune) overcome such a pious, chaste wife of ours, abiding by virtue, like a false accusation of theft against an honest man?
३.२५७.६
न हि पापं कृतं किंचित्कर्म वा निन्दितं क्वचित् ।
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥
M N Dutt
Draupadi has not committed any iniquity or heinous deed; she has always practised highest virtues towards the Brahmanas.
३.२५७.७
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः ।
तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् ।
पराजयं च संग्रामे ससहायः समाप्तवान् ॥
तस्याः संहरणात्प्राप्तः शिरसः केशवापनम् ।
पराजयं च संग्रामे ससहायः समाप्तवान् ॥
M N Dutt
The foolish king Jayadratha took her away by force; on account of this violence on her that sinful man has got his hair shaved off and has met with defeat in battle along with his soldiers. True it is, that we have rescued her after slaying the army of Saindhava.
३.२५७.९
दुःखश्चायं वने वासो मृगयायां च जीविका ।
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ।
ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् ॥
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम् ।
ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम् ॥
M N Dutt
Forsooth this disgrace, of our wife, being carried away during a moment of carelessness, has sullied us. This forest life is full of miseries; we live on chase. Though we live in forest we (always) injure the dwellers thereof. This banishment of ours is owing to our deceitful relatives.
३.२५७.१०
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः ।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ॥
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ॥
M N Dutt
Is there any one indeed who is more unfortunate than I am. Have you heard or seen of any such man before.
॥ इति ३.२५७ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.