वैशंपायन उवाच ।
३.२५३.१
ततो दिशः संप्रविहृत्य पार्था
मृगान्वराहान्महिषांश्च हत्वा ।
धनुर्धराः श्रेष्ठतमाः पृथिव्यां
पृथक्चरन्तः सहिता बभूवुः ॥
मृगान्वराहान्महिषांश्च हत्वा ।
धनुर्धराः श्रेष्ठतमाः पृथिव्यां
पृथक्चरन्तः सहिता बभूवुः ॥
M N Dutt
Vaishampayana said : Having ranged in all directions and wandered on earth separately, those Parthas, the foremost of bowmen killing many deers, bear and buffaloes met together.
३.२५३.२
ततो मृगव्यालगणानुकीर्णं
महावनं तद्विहगोपघुष्टम् ।
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः
श्रुत्वा गिरो व्याहरतां मृगाणाम् ॥
महावनं तद्विहगोपघुष्टम् ।
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः
श्रुत्वा गिरो व्याहरतां मृगाणाम् ॥
M N Dutt
Seeing that huge forest abounding in many deer and wild animals, resonant with the shrill cries of birds and hearing the yells of the wild animals, Yudhishthira said to his brothers,
३.२५३.३
आदित्यदीप्तां दिशमभ्युपेत्य
मृगद्विजाः क्रूरमिमे वदन्ति ।
आयासमुग्रं प्रतिवेदयन्तो
महाहवं शत्रुभिर्वावमानम् ॥
मृगद्विजाः क्रूरमिमे वदन्ति ।
आयासमुग्रं प्रतिवेदयन्तो
महाहवं शत्रुभिर्वावमानम् ॥
M N Dutt
“Those birds and wild animals flying to the direction lighted up by the sun are emitting discordant cries and displaying excitement. This shows that this mighty forest has been invaded by the enemies.
३.२५३.४
क्षिप्रं निवर्तध्वमलं मृगैर्नो
मनो हि मे दूयति दह्यते च ।
बुद्धिं समाच्छाद्य च मे समन्यु
रुद्धूयते प्राणपतिः शरीरे ॥
मनो हि मे दूयति दह्यते च ।
बुद्धिं समाच्छाद्य च मे समन्यु
रुद्धूयते प्राणपतिः शरीरे ॥
M N Dutt
Let us without delay desist; no more with game; my heart aches and seems to burn; clouding the intellect, the soul, in my body, seems to fly away.
३.२५३.५
सरः सुपर्णेन हृतोरगं यथा
राष्ट्रं यथाराजकमात्तलक्ष्मि ।
एवंविधं मे प्रतिभाति काम्यकं
शौण्डैर्यथा पीतरसश्च कुम्भः ॥
राष्ट्रं यथाराजकमात्तलक्ष्मि ।
एवंविधं मे प्रतिभाति काम्यकं
शौण्डैर्यथा पीतरसश्च कुम्भः ॥
M N Dutt
Like a tank freed from serpents by Garuda, a pot drained of its contents by thirsty men, a kingdom shorn of its king and its prosperity this forest of Kamyaka appears to me.'
३.२५३.६
ते सैन्धवैरत्यनिलौघवेगै
र्महाजवैर्वाजिभिरुह्यमानाः ।
युक्तैर्बृहद्भिः सुरथैर्नृवीरा
स्तदाश्रमायाभिमुखा बभूवुः ॥
र्महाजवैर्वाजिभिरुह्यमानाः ।
युक्तैर्बृहद्भिः सुरथैर्नृवीरा
स्तदाश्रमायाभिमुखा बभूवुः ॥
M N Dutt
Thereupon those heroes drove towards their hermitage on mighty and beautifully made cars, drawn by exceedingly fleet horses of Saindhava breed and possessed of the speed of hurricane.
३.२५३.७
तेषां तु गोमायुरनल्पघोषो
निवर्ततां वाममुपेत्य पार्श्वम् ।
प्रव्याहरत्तं प्रविमृश्य राजा
प्रोवाच भीमं च धनंजयं च ॥
निवर्ततां वाममुपेत्य पार्श्वम् ।
प्रव्याहरत्तं प्रविमृश्य राजा
प्रोवाच भीमं च धनंजयं च ॥
M N Dutt
On their left side they espied a jackal yelling hideously. Marking it attentively the king (Yudhishthira), said to Bhima and Dhananjaya.
३.२५३.८
यथा वदत्येष विहीनयोनिः
शालावृको वाममुपेत्य पार्श्वम् ।
सुव्यक्तमस्मानवमन्य पापैः
कृतोऽभिमर्दः कुरुभिः प्रसह्य ॥
शालावृको वाममुपेत्य पार्श्वम् ।
सुव्यक्तमस्मानवमन्य पापैः
कृतोऽभिमर्दः कुरुभिः प्रसह्य ॥
M N Dutt
“This jackal of inferior breed, sneaking to our left side, is speaking a language, that clearly shows that violent oppression has been commenced by the sinful Kurus disregarding us.
३.२५३.९
इत्येव ते तद्वनमाविशन्तो
महत्यरण्ये मृगयां चरित्वा ।
बालामपश्यन्त तदा रुदन्तीं
धात्रेयिकां प्रेष्यवधूं प्रियायाः ॥
महत्यरण्ये मृगयां चरित्वा ।
बालामपश्यन्त तदा रुदन्तीं
धात्रेयिकां प्रेष्यवधूं प्रियायाः ॥
M N Dutt
Having given up the chase they in that great forest entered the grove containing their hermitage and there they saw their beloved one's maid, the girl Dhatreyika weeping and sobbing.
३.२५३.१०
तामिन्द्रसेनस्त्वरितोऽभिसृत्य
रथादवप्लुत्य ततोऽभ्यधावत् ।
प्रोवाच चैनां वचनं नरेन्द्र
धात्रेयिकामार्ततरस्तदानीम् ॥
रथादवप्लुत्य ततोऽभ्यधावत् ।
प्रोवाच चैनां वचनं नरेन्द्र
धात्रेयिकामार्ततरस्तदानीम् ॥
M N Dutt
Then descending from the car and quickly approaching Dhatreyika, who was then greatly stricken with grief, Indrasena, O king, asked her (saying).
३.२५३.११
किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम् ।
कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री ।
अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम् ॥
कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री ।
अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम् ॥
M N Dutt
"Why do you weep lying down on earth and why is your mouth dried and pale? I hope the princess Draupadi has not been injured by any cruel wretch.
३.२५३.१२
यद्येव देवी पृथिवीं प्रविष्टा
दिवं प्रपन्नाप्यथ वा समुद्रम् ।
तस्या गमिष्यन्ति पदं हि पार्था
स्तथा हि संतप्यति धर्मराजः ॥
दिवं प्रपन्नाप्यथ वा समुद्रम् ।
तस्या गमिष्यन्ति पदं हि पार्था
स्तथा हि संतप्यति धर्मराजः ॥
M N Dutt
She is possessed of incomparable beauty, large eyes and is the second self of every one of those foremost of Kuru race. Dharma's son has grown so anxious that if the princess has entered into the earth or soared into heavens or has gone to the bottom of the deep, he and his brothers will go there in search of her.
३.२५३.१३
को हीदृशानामरिमर्दनानां; क्लेशक्षमाणामपराजितानाम् ।
प्राणैः समामिष्टतमां जिहीर्षे;दनुत्तमं रत्नमिव प्रमूढः ।
न बुध्यते नाथवतीमिहाद्य; बहिश्चरं हृदयं पाण्डवानाम् ॥
प्राणैः समामिष्टतमां जिहीर्षे;दनुत्तमं रत्नमिव प्रमूढः ।
न बुध्यते नाथवतीमिहाद्य; बहिश्चरं हृदयं पाण्डवानाम् ॥
M N Dutt
Who could that fool be who could carry away the priceless jewel belonging to the powerful and ever victorious sons of Pandu, those repressors of foes, which is dear to them like the very life.
३.२५३.१४
कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः ।
मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति ।
निहत्य सर्वान्द्विषतः समग्रा;न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या ॥
मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति ।
निहत्य सर्वान्द्विषतः समग्रा;न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या ॥
M N Dutt
Do not weep for her, O timid girl; know that Krishna shall come back even this very day. Having slain all their enemies the sons of Pritha shall be united with Yajnaseni."
३.२५३.१५
अथाब्रवीच्चारुमुखं प्रमृज्य
धात्रेयिका सारथिमिन्द्रसेनम् ।
जयद्रथेनापहृता प्रमथ्य
पञ्चेन्द्रकल्पान्परिभूय कृष्णा ॥
धात्रेयिका सारथिमिन्द्रसेनम् ।
जयद्रथेनापहृता प्रमथ्य
पञ्चेन्द्रकल्पान्परिभूय कृष्णा ॥
M N Dutt
Then rubbing her beautiful face Dhatreyika said to the charioteer Indrasena. “Disregarding the five Indra like princess Jayadratha has carried away Krishna by force. The way pursued by him still exists for the broken branches of the trees have not yet disappeared.
३.२५३.२०
मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम् ।
स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपयुङ्क्षीत् ।
एतानि वर्त्मान्यनुयात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै ॥
स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपयुङ्क्षीत् ।
एतानि वर्त्मान्यनुयात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै ॥
M N Dutt
Let no mean man touch with his lips the brilliant and charming face of your wife, delightful as the rays of the moon, having high nose and beautiful eyes like a dog licking ghee kept in a sacrificial pot. Go speedily by this way and let not time go before you."
युधिष्ठिर उवाच ।
३.२५३.२१
भद्रे तूष्णीमास्स्व नियच्छ वाचं
मास्मत्सकाशे परुषाण्यवोचः ।
राजानो वा यदि वा राजपुत्रा
बलेन मत्ता वञ्चनां प्राप्नुवन्ति ॥
मास्मत्सकाशे परुषाण्यवोचः ।
राजानो वा यदि वा राजपुत्रा
बलेन मत्ता वञ्चनां प्राप्नुवन्ति ॥
M N Dutt
Yudhishthira said: Go away, O gentle woman and govern your tongue; kings or princes who are inflated with the possession of power, are sure to come to grief.
वैशंपायन उवाच ।
३.२५३.२२
एतावदुक्त्वा प्रययुर्हि शीघ्रं
तान्येव वर्त्मान्यनुवर्तमानाः ।
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो
ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ॥
तान्येव वर्त्मान्यनुवर्तमानाः ।
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो
ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ॥
M N Dutt
Vaishampayana said : Saying this, they speedily went, wending the way pointed out to them, sighing hot and hard like snakes and twanging their large bows,
३.२५३.२३
ततोऽपश्यंस्तस्य सैन्यस्य रेणु
मुद्धूतं वै वाजिखुरप्रणुन्नम् ।
पदातीनां मध्यगतं च धौम्यं
विक्रोशन्तं भीममभिद्रवेति ॥
मुद्धूतं वै वाजिखुरप्रणुन्नम् ।
पदातीनां मध्यगतं च धौम्यं
विक्रोशन्तं भीममभिद्रवेति ॥
M N Dutt
Then they saw dust raised by the hoops of the steeds belonging to his (Jayadratha's) soldiers; they saw also Dhaumya in the midst of (his) infantry bewailing and asking Bhima to go quickly.
३.२५३.२४
ते सान्त्व्य धौम्यं परिदीनसत्त्वाः
सुखं भवानेत्विति राजपुत्राः ।
श्येना यथैवामिषसंप्रयुक्ता
जवेन तत्सैन्यमथाभ्यधावन् ॥
सुखं भवानेत्विति राजपुत्राः ।
श्येना यथैवामिषसंप्रयुक्ता
जवेन तत्सैन्यमथाभ्यधावन् ॥
M N Dutt
Then with hearts not depressed the princes, consoling Dhaumya said, "Go back cheerfully', then they rushed furiously towards that army like hawks swooping down on their prey.
३.२५३.२५
तेषां महेन्द्रोपमविक्रमाणां
संरब्धानां धर्षणाद्याज्ञसेन्याः ।
क्रोधः प्रजज्वाल जयद्रथं च
दृष्ट्वा प्रियां तस्य रथे स्थितां च ॥
संरब्धानां धर्षणाद्याज्ञसेन्याः ।
क्रोधः प्रजज्वाल जयद्रथं च
दृष्ट्वा प्रियां तस्य रथे स्थितां च ॥
M N Dutt
Endued with the strength of Indra, they had grown furious at the insult offered to Draupadi; but their anger was inflamed (the more) seeing Jayadratha and their sweet heart-seated in his car.
३.२५३.२६
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं
वृकोदरश्चैव धनंजयश्च ।
यमौ च राजा च महाधनुर्धरा
स्ततो दिशः संमुमुहुः परेषाम् ॥
वृकोदरश्चैव धनंजयश्च ।
यमौ च राजा च महाधनुर्धरा
स्ततो दिशः संमुमुहुः परेषाम् ॥
M N Dutt
Vrikodara, Dhananjaya, the twins and the king, those mighty bowmen called out to the king of Sindhu to stop; (at which) the enemies lost all knowledge of directions.
॥ इति ३.२५३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.