कोटिकाश्य उवाच ।
३.२४९.१
का त्वं कदम्बस्य विनम्य शाखा
मेकाश्रमे तिष्ठसि शोभमाना ।
देदीप्यमानाग्निशिखेव नक्तं
दोधूयमाना पवनेन सुभ्रूः ॥
मेकाश्रमे तिष्ठसि शोभमाना ।
देदीप्यमानाग्निशिखेव नक्तं
दोधूयमाना पवनेन सुभ्रूः ॥
M N Dutt
Kotikasya said : O fair one, who are you that stand alone leaning on a branch of the Kadamba tree at this hermitage and looking majestic like flame of fire burning at night and fanned by the wind?
३.२४९.२
अतीव रूपेण समन्विता त्वं
न चाप्यरण्येषु बिभेषि किं नु ।
देवी नु यक्षी यदि दानवी वा
वराप्सरा दैत्यवराङ्गना वा ॥
न चाप्यरण्येषु बिभेषि किं नु ।
देवी नु यक्षी यदि दानवी वा
वराप्सरा दैत्यवराङ्गना वा ॥
M N Dutt
You are endued with great beauty; do you not feel any fear in this forest? Are you a goddess or a Yakshi or a Danavi or the beautiful wife of a Daitya?
३.२४९.३
वपुष्मती वोरगराजकन्या
वनेचरी वा क्षणदाचरस्त्री ।
यद्येव राज्ञो वरुणस्य पत्नी
यमस्य सोमस्य धनेश्वरस्य ॥
वनेचरी वा क्षणदाचरस्त्री ।
यद्येव राज्ञो वरुणस्य पत्नी
यमस्य सोमस्य धनेश्वरस्य ॥
M N Dutt
Or a daughter of the king of serpents or the wife of a night ranger or the wife of Varuna or of Yama or of Soma or of Kubera who assuming a human form are wandering in this forest?
३.२४९.४
धातुर्विधातुः सवितुर्विभोर्वा
शक्रस्य वा त्वं सदनात्प्रपन्ना ।
न ह्येव नः पृच्छसि ये वयं स्म
न चापि जानीम तवेह नाथम् ॥
शक्रस्य वा त्वं सदनात्प्रपन्ना ।
न ह्येव नः पृच्छसि ये वयं स्म
न चापि जानीम तवेह नाथम् ॥
M N Dutt
Or have you come from the palace of Dhata or Vidhata or of Savita or of Vibhu or of Shakra? You do not ask us who we are, nor do we know who is your lord.
३.२४९.५
वयं हि मानं तव वर्धयन्तः
पृच्छाम भद्रे प्रभवं प्रभुं च ।
आचक्ष्व बन्धूंश्च पतिं कुलं च
तत्त्वेन यच्चेह करोषि कार्यम् ॥
पृच्छाम भद्रे प्रभवं प्रभुं च ।
आचक्ष्व बन्धूंश्च पतिं कुलं च
तत्त्वेन यच्चेह करोषि कार्यम् ॥
M N Dutt
Increasing your respect we do ask you. O gentle lady, who is your heroic father. Tell us the names of your husband, relatives, your race and what you do here.
३.२४९.६
अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर्मनुष्याः ।
असौ तु यस्तिष्ठति काञ्चनाङ्गे; रथे हुतोऽग्निश्चयने यथैव ।
त्रिगर्तराजः कमलायताक्षि; क्षेमंकरो नाम स एष वीरः ॥
असौ तु यस्तिष्ठति काञ्चनाङ्गे; रथे हुतोऽग्निश्चयने यथैव ।
त्रिगर्तराजः कमलायताक्षि; क्षेमंकरो नाम स एष वीरः ॥
M N Dutt
I am the son of the king Suratha, whom the people know as Kotikasya. That man who sits on the golden car, like sacrificial fire on the altar, is the king of Trigarta having eyes like lotus petals; that hero is known by the name of Kshemankara;
३.२४९.७
अस्मात्परस्त्वेष महाधनुष्मा
न्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः ।
निरीक्षते त्वां विपुलायतांसः
सुविस्मितः पर्वतवासनित्यः ॥
न्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः ।
निरीक्षते त्वां विपुलायतांसः
सुविस्मितः पर्वतवासनित्यः ॥
M N Dutt
Behind him is the great bowman that one of arge eyes, adorned with blazing garlands gazing on you, the famous son of the king of Kulinda. Who always lives on mountain.
३.२४९.८
असौ तु यः पुष्करिणीसमीपे
श्यामो युवा तिष्ठति दर्शनीयः ।
इक्ष्वाकुराज्ञः सुबलस्य पुत्रः
स एष हन्ता द्विषतां सुगात्रि ॥
श्यामो युवा तिष्ठति दर्शनीयः ।
इक्ष्वाकुराज्ञः सुबलस्य पुत्रः
स एष हन्ता द्विषतां सुगात्रि ॥
M N Dutt
O beautiful lady, that dark and handsome young man who is standing at the brink of the tank. Is the son of the Ikshvaku king Subala; he is the slayer of his elements.
३.२४९.१२
तस्यापरे भ्रातरोऽदीनसत्त्वा
बलाहकानीकविदारणाध्याः ।
सौवीरवीराः प्रवरा युवानो
राजानमेते बलिनोऽनुयान्ति ॥
बलाहकानीकविदारणाध्याः ।
सौवीरवीराः प्रवरा युवानो
राजानमेते बलिनोऽनुयान्ति ॥
M N Dutt
The brothers of the king namely the mighty Balahaka, Anika, Vidarana and others also constitute his following.
३.२४९.१३
एतैः सहायैरुपयाति राजा
मरुद्गणैरिन्द्र इवाभिगुप्तः ।
अजानतां ख्यापय नः सुकेशि
कस्यासि भार्या दुहिता च कस्य ॥
मरुद्गणैरिन्द्र इवाभिगुप्तः ।
अजानतां ख्यापय नः सुकेशि
कस्यासि भार्या दुहिता च कस्य ॥
M N Dutt
O you having fine hair, tell us, who do not know whose wife and whose daughter you are.
॥ इति ३.२४९ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.