वैशंपायन उवाच ।
३.२४२.१
ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह ।
विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् ॥
विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् ॥
M N Dutt
Vaishampayana said : Thereupon all the artizans, the principal counsellors and the highly wise Vidura thus spoke to Dhritarashtra's son.
३.२४२.२
सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत ।
सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् ॥
सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् ॥
M N Dutt
“O king, all the preparations for the excellent sacrifice have been made. O descendant of Bharata, the (proper) time (to perform it) has also come. The greatly valuable golden plough has also been made."
३.२४२.३
एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते ।
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ॥
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ॥
M N Dutt
O king, having heard this, that foremost of kings, Dhritarashtra's son commanded that foremost of sacrifices to be commenced. Then commenced that sacrifice sanctified by mantras and abounding in food. The son of Gandhari was duly installed according to the ordinance.
३.२४२.४
ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः ।
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ॥
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ॥
M N Dutt
O king, having heard this, that foremost of kings, Dhritarashtra's son commanded that foremost of sacrifices to be commenced. Then commenced that sacrifice sanctified by mantras and abounding in food. The son of Gandhari was duly installed according to the ordinance.
३.२४२.५
प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः ।
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ॥
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ॥
M N Dutt
Dhritarashtra, the high-souled Vidura, Bhishma, Drona, Kripa and Karna and the illustrious Gandhari all were filled with great delight.
३.२४२.६
निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् ।
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ।
ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः ॥
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ।
ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः ॥
M N Dutt
O king of kings, swift messengers were sent to invite the kings and the Brahmanas.
३.२४२.७
तत्र कंचित्प्रयातं तु दूतं दुःशासनोऽब्रवीत् ।
गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् ।
निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने ॥
गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् ।
निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने ॥
M N Dutt
"Go soon to the forest of Dvaitavana and in that forest duly invite the Brahmanas and those wicked men, the Pandavas.
३.२४२.८
स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान् ।
दुर्योधनो महाराज यजते नृपसत्तमः ॥
दुर्योधनो महाराज यजते नृपसत्तमः ॥
M N Dutt
Thereupon he went there and bowing down his head to all the Pandavas said "O great king, the foremost of kings that Veda of the Kurus, Duryodhana is performing a sacrifice after having acquired immense wealth by his own prowess. Brahmanas from all quarters are going to it.
३.२४२.९
स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः ।
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ॥
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ॥
M N Dutt
Thereupon he went there and bowing down his head to all the Pandavas said "O great king, the foremost of kings that Veda of the Kurus, Duryodhana is performing a sacrifice after having acquired immense wealth by his own prowess. Brahmanas from all quarters are going to it.
३.२४२.१०
अहं तु प्रेषितो राजन्कौरवेण महात्मना ।
आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः ।
मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ॥
आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः ।
मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ॥
M N Dutt
"O king, I have been sent here by that illustrious Kuru king, the lord of men Dhritarashtra's son to invite you. You should therefore see that charming sacrifice of that king."
३.२४२.११
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् ।
अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः ।
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥
अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः ।
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥
M N Dutt
Having heard the words of the messenger that foremost of monarchs king Yudhishthira, thus spoke to him, “By good fortune, king Duryodhana, that enhancer of his forefather's glory, is performing this foremost of sacrifices.
३.२४२.१२
वयमप्युपयास्यामो न त्विदानीं कथंचन ।
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ॥
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ॥
M N Dutt
We shall certainly go there, but we cannot do now. We shall have to live in the forest for thirteen years according to our pledge.”
३.२४२.१६
शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम् ।
दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ॥
दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ॥
M N Dutt
O king, the other Pandavas did not say anything unpleasant. The messenger on his return told everything to Dhritarashtra's son.
३.२४२.१७
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः ।
ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति ॥
ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति ॥
M N Dutt
Then there came to the city of Dhritarashtra many foremost of men, the rulers of various countries and also many highly virtuous Brahmanas.
३.२४२.१८
ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम् ।
मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर ॥
मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर ॥
M N Dutt
Duly received in accordance the ordinance, these lords of men felt much delight and they were all well-pleased. to
३.२४२.१९
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः ।
हर्षेण महता युक्तो विदुरं प्रत्यभाषत ॥
हर्षेण महता युक्तो विदुरं प्रत्यभाषत ॥
M N Dutt
O king of kings that foremost of kings, Dhritarashtra, surrounded by all the Kurus felt the greatest joy and he thus spoke to Vidura.,
३.२४२.२०
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः ।
तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् ॥
तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् ॥
M N Dutt
"O Khatva, soon act thus that all men present in this sacrifice may with food served to them be refreshed and satisfied.
३.२४२.२१
विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदम ।
यथाप्रमाणतो विद्वान्पूजयामास धर्मवित् ॥
यथाप्रमाणतो विद्वान्पूजयामास धर्मवित् ॥
M N Dutt
Then the learned and the virtuous Vidura cheerfully entertained all the orders of men with foods and drinks and also with fragrant garland and various kinds of dresses.
३.२४२.२२
भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः ।
वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ॥
वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ॥
M N Dutt
Then the learned and the virtuous Vidura cheerfully entertained all the orders of men with foods and drinks and also with fragrant garland and various kinds of dresses.
३.२४२.२३
कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् ।
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु ।
विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः ॥
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु ।
विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः ॥
M N Dutt
Having built many pavilions that hero and the foremost of kings, duly entertained the monarchs and the Brahmanas by thousands. He bestowed upon them wealth of various kinds and then bade them farewell. having dismissed all the kings, surrounded by his brothers. He (Duryodhana) entered Hastinapur in company with Karna and Subala's son (Shakuni).
॥ इति ३.२४२ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.