वैशंपायन उवाच ।
३.२२८.१
धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय ।
पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत ॥
पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत ॥
M N Dutt
Vaishampayana said : O Janamejaya, O descendant of Bharata, then they all saw Dhritarashtra and asked his welfare; they were also asked their welfare in reiurn,
३.२२८.२
ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः ।
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ॥
समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ॥
M N Dutt
Then a cowherd named Samanga who had been instructed before-hand come to the king Dhritarashtra and spoke about the cattle.
३.२२८.३
अनन्तरं च राधेयः शकुनिश्च विशां पते ।
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ॥
आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ॥
M N Dutt
O king, the son of Radha (Karna) and Shakuni thus spoke to that foremost of kings, the ruler of earth, Dhritarashtra,
३.२२८.४
रमणीयेषु देशेषु घोषाः संप्रति कौरव ।
स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम् ॥
स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम् ॥
M N Dutt
"O descendant of Kuru, our cattle are now stationed in a charming place. The time for marking the calves has also come.
३.२२८.५
मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते ।
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ॥
दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ॥
M N Dutt
O king, this is also an excellent season for your son Duryodhana to go to a hunting expedition. Therefore you should grant him permission to go there.
धृतराष्ट्र उवाच ।
३.२२८.६
मृगया शोभना तात गवां च समवेक्षणम् ।
विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे ॥
विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे ॥
M N Dutt
Dhritarashtra said: O child, hunting and seeing the cattle are both very proper acts. I think the herdsman should not be (completely) trusted.
३.२२८.७
ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् ।
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ॥
अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ॥
M N Dutt
But I have heard that those foremost of men (the Pandavas) are living some where near that place; therefore I think you should not yourselves go there.
३.२२८.८
छद्मना निर्जितास्ते हि कर्शिताश्च महावने ।
तपोनित्याश्च राधेय समर्थाश्च महारथाः ॥
तपोनित्याश्च राधेय समर्थाश्च महारथाः ॥
M N Dutt
Defeated by deceitful means, they are now living in the deep forest in great misery. O son of Radha, those greatly powerful car-warriors are now engaged in asceticism.
३.२२८.९
धर्मराजो न संक्रुध्येद्भीमसेनस्त्वमर्षणः ।
यज्ञसेनस्य दुहिता तेज एव तु केवलम् ॥
यज्ञसेनस्य दुहिता तेज एव तु केवलम् ॥
M N Dutt
Dharmaraja (Yudhishthira) will never be angry, but Bhimasena is naturally wrathful; the daughter of Yajnasena (Draupadi) also is effulgence herself.
३.२२८.१०
यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः ।
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ॥
ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ॥
M N Dutt
Full of pride and folly as you are you are certain to give her offence. Endued with ascetic merit as she is (now), she will certainly consume you.
३.२२८.११
अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः ।
सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा ॥
सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा ॥
M N Dutt
Or perhaps, those heroes, armed with swords and other weapons and filled with wrath, may consume you with the fire of their weapons.
३.२२८.१२
अथ यूयं बहुत्वात्तानारभध्वं कथंचन ।
अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् ॥
अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् ॥
M N Dutt
Or if from the force of numbers you seek to injure them in any way, even that will be a highly improper act, though I know you will never succeed.
३.२२८.१३
उषितो हि महाबाहुरिन्द्रलोके धनंजयः ।
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् ॥
दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् ॥
M N Dutt
The mighty armed Dhananjaya (Arjuna) had lived in the abode of Indra. Having obtained the celestials weapons, he has returned to the forest.
३.२२८.१४
अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा ।
किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः ॥
किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः ॥
M N Dutt
While unaccomplished in arms, Bibhatsu (Arjuna) conquered the whole earth. He is now a great car-warrior and highly accomplished in arms, why will he not be able (now) to kill you all?
३.२२८.१५
अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ ।
उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति ॥
उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति ॥
M N Dutt
Or if you in obedience to my words on going there, behave carefully you will then never be able to live happily, as you will always be in a state of trustlessness.
३.२२८.१६
अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे ।
तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः ॥
तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः ॥
M N Dutt
Or some soldiers of yours may do some injury to Yudhishthira and that unpremeditated act may be ascribed to you. O descendant of Bharata, therefore let some faithful men go there to count the cattle and mark the calves. I do not think it is proper for your to go in person.
३.२२८.१७
तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः ।
न स्वयं तत्र गमनं रोचये तव भारत ॥
न स्वयं तत्र गमनं रोचये तव भारत ॥
M N Dutt
Or some soldiers of yours may do some injury to Yudhishthira and that unpremeditated act may be ascribed to you. O descendant of Bharata, therefore let some faithful men go there to count the cattle and mark the calves. I do not think it is proper for your to go in person.
शकुनिरुवाच ।
३.२२८.१८
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि ।
तेन द्वादश वर्षाणि वस्तव्यानीति भारत ॥
तेन द्वादश वर्षाणि वस्तव्यानीति भारत ॥
M N Dutt
Shakuni said: O descendant of Bharata, the eldest Pandava is virtuous; he has taken the pledge in the assembly that he will live twelve years in the forest.
३.२२८.१९
अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः ।
युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति ॥
युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति ॥
M N Dutt
The other Pandavas are virtuous and obedient to him. The son of Kunti, Yudhishthira will never be angry with us.
३.२२८.२०
मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् ।
स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् ॥
स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् ॥
M N Dutt
We desire very much to go to a hunting expedition; we shall also take that opportunity to count the cattle. We have no wish to see the Pandavas.
३.२२८.२१
न चानार्यसमाचारः कश्चित्तत्र भविष्यति ।
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ॥
न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ॥
M N Dutt
We shall not go to that place where the Pandavas are living. Therefore no misconduct on our part can possibly arise.
वैशंपायन उवाच ।
३.२२८.२२
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः ।
दुर्योधनं सहामात्यमनुजज्ञे न कामतः ॥
दुर्योधनं सहामात्यमनुजज्ञे न कामतः ॥
M N Dutt
Vaishampayana said : Having been thus addressed by Shakuni, the ruler of earth, Dhritarashtra, unwillingly gave permission to Duryodhana and his counsellors togo.
३.२२८.२३
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा ।
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ॥
निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ॥
M N Dutt
Having received permission, the son of Gandhari, that foremost of the Bharata race (Duryodhana) with Karna and with a large host started.
३.२२८.२४
दुःशासनेन च तथा सौबलेन च देविना ।
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ॥
संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ॥
M N Dutt
He has accompanied by Dushasana the intclligent son of Subala (Shakuni) and by many others of his brothers and also thousands of women.
३.२२८.२५
तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः ।
पौराश्चानुययुः सर्वे सहदारा वनं च तत् ॥
पौराश्चानुययुः सर्वे सहदारा वनं च तत् ॥
M N Dutt
When he started to see that lake in the Dvaitavana, the citizens also with their wives proceeded towards that forest.
३.२२८.२६
अष्टौ रथसहस्राणि त्रीणि नागायुतानि च ।
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ॥
पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ॥
M N Dutt
Eight thousand cars, thirty thousand elephants, nine thousand horses and many thousands of foot soldiers,
३.२२८.२७
शकटापणवेश्याश्च वणिजो बन्दिनस्तथा ।
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ॥
नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ॥
M N Dutt
Carriages, shops, pavilions, traders, bards and men, trained in hunting, by hundred and thousands, followed the king.
३.२२८.२८
ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः ।
प्रावृषीव महावायोरुद्धतस्य विशां पते ॥
प्रावृषीव महावायोरुद्धतस्य विशां पते ॥
M N Dutt
O monarch, as the king started, followed by many thousands of men, the uproar caused by the march resembled the deep roar of winds in the rains.
३.२२८.२९
गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा ।
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ॥
प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ॥
M N Dutt
Arriving at the lake of Dvaitavana with his followers and conveyances, king Duryodhana encamped at the distance of four miles from the lake.
॥ इति ३.२२८ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.