जनमेजय उवाच ।
३.२२५.१
एवं वने वर्तमाना नराग्र्याः
शीतोष्णवातातपकर्शिताङ्गाः ।
सरस्तदासाद्य वनं च पुण्यं
ततः परं किमकुर्वन्त पार्थाः ॥
शीतोष्णवातातपकर्शिताङ्गाः ।
सरस्तदासाद्य वनं च पुण्यं
ततः परं किमकुर्वन्त पार्थाः ॥
M N Dutt
Janamejaya said : O Brahmana, when those foremost of men, the sons of Pritha, were passing their days in the forest exposed to the inclemencies of the winter and the summer, of the wind and the sun, what did they do after they had reached the lake and the forest named Dvaita?
वैशंपायन उवाच ।
३.२२५.२
सरस्तदासाद्य तु पाण्डुपुत्रा
जनं समुत्सृज्य विधाय चैषाम् ।
वनानि रम्याण्यथ पर्वतांश्च
नदीप्रदेशांश्च तदा विचेरुः ॥
जनं समुत्सृज्य विधाय चैषाम् ।
वनानि रम्याण्यथ पर्वतांश्च
नदीप्रदेशांश्च तदा विचेरुः ॥
M N Dutt
Vaishampayana said : When the Pandavas reached the lake, they chose a place to live in far from the habitations of men. They roamed through charming forests and delightful mountains and beautiful valleys through which ran many rivers and stream-lets.
३.२२५.३
तथा वने तान्वसतः प्रवीरा
न्स्वाध्यायवन्तश्च तपोधनाश्च ।
अभ्याययुर्वेदविदः पुराणा
स्तान्पूजयामासुरथो नराग्र्याः ॥
न्स्वाध्यायवन्तश्च तपोधनाश्च ।
अभ्याययुर्वेदविदः पुराणा
स्तान्पूजयामासुरथो नराग्र्याः ॥
M N Dutt
When they began to live there, many venerable ascetics, learned in the Vedas, often came to see them. Those foremost of men always received those Veda-knowing Rishis with great respect.
३.२२५.४
ततः कदाचित्कुशलः कथासु
विप्रोऽभ्यगच्छद्भुवि कौरवेयान् ।
स तैः समेत्याथ यदृच्छयैव
वैचित्रवीर्यं नृपमभ्यगच्छत् ॥
विप्रोऽभ्यगच्छद्भुवि कौरवेयान् ।
स तैः समेत्याथ यदृच्छयैव
वैचित्रवीर्यं नृपमभ्यगच्छत् ॥
M N Dutt
Thereupon one day there came to the Kuru princes a certain Brahmana who was celebrated on carth for his powers of speech. Having talked with them for some time, he went away to the king, the of Vichitravirya (Dhritarashtra).
३.२२५.५
अथोपविष्टः प्रतिसत्कृतश्च
वृद्धेन राज्ञा कुरुसत्तमेन ।
प्रचोदितः सन्कथयां बभूव
धर्मानिलेन्द्रप्रभवान्यमौ च ॥
वृद्धेन राज्ञा कुरुसत्तमेन ।
प्रचोदितः सन्कथयां बभूव
धर्मानिलेन्द्रप्रभवान्यमौ च ॥
M N Dutt
Having been received with all respect by that foremost of the Kurus, that old king (Dhritarashtra) the Brahmanas took his seat; and then asked by the king, he talked about the son of Dharma, Pavana, Indra and the twins (Asvinis). son
३.२२५.६
कृशांश्च वातातपकर्शिताङ्गा
न्दुःखस्य चोग्रस्य मुखे प्रपन्नान् ।
तां चाप्यनाथामिव वीरनाथां
कृष्णां परिक्लेशगुणेन युक्ताम् ॥
न्दुःखस्य चोग्रस्य मुखे प्रपन्नान् ।
तां चाप्यनाथामिव वीरनाथां
कृष्णां परिक्लेशगुणेन युक्ताम् ॥
M N Dutt
All of whom having fallen into great misery had become emaciated and reduced owing to exposure to the wind and the sun. He also talked of Krishna (Draupadi) who had been overwhelmed with sufferings and who had become protectorless though she had heroes for her lords.
३.२२५.७
ततः कथां तस्य निशम्य राजा
वैचित्रवीर्यः कृपयाभितप्तः ।
वने स्थितान्पार्थिवपुत्रपौत्रा
ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् ॥
वैचित्रवीर्यः कृपयाभितप्तः ।
वने स्थितान्पार्थिवपुत्रपौत्रा
ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् ॥
M N Dutt
On hearing his words, the king Vichitravirya's son became afflicted with grief, thinking that the royal princess (Draupadi) had been drowned in a river of sorrow.
३.२२५.८
प्रोवाच दैन्याभिहतान्तरात्मा
निःश्वासबाष्पोपहतः स पार्थान् ।
वाचं कथंचित्स्थिरतामुपेत्य
तत्सर्वमात्मप्रभवं विचिन्त्य ॥
निःश्वासबाष्पोपहतः स पार्थान् ।
वाचं कथंचित्स्थिरतामुपेत्य
तत्सर्वमात्मप्रभवं विचिन्त्य ॥
M N Dutt
His inmost soul was afflicted with sorrow. Trembling all over with sighs, he quieted himself with great effort, thinking that his folly was the cause of everything. He said,
३.२२५.९
कथं नु सत्यः शुचिरार्यवृत्तो
ज्येष्ठः सुतानां मम धर्मराजः ।
अजातशत्रुः पृथिवीतलस्थः
शेते पुरा राङ्कवकूटशायी ॥
ज्येष्ठः सुतानां मम धर्मराजः ।
अजातशत्रुः पृथिवीतलस्थः
शेते पुरा राङ्कवकूटशायी ॥
M N Dutt
"Alas, how is it that Dharmaraja Yudhishthira who is the eldest of my sons, who is truthful and pious and virtuous in his behaviour, who has not a single enemy (on earth) and who formerly used to sleep on beds made of soft Ranku-skins, sleeps now on the bare ground!
३.२२५.१०
प्रबोध्यते मागधसूतपूगै
र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः ।
पतत्रिसंघैः स जघन्यरात्रे
प्रबोध्यते नूनमिडातलस्थः ॥
र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः ।
पतत्रिसंघैः स जघन्यरात्रे
प्रबोध्यते नूनमिडातलस्थः ॥
M N Dutt
He used to be awakened by the Sutas and Magdhas and other singers with his praises melodiously chanted every morning. That Indra-like Kuru prince is now awakened from the bare ground early in the morning by innumerable birds.
३.२२५.११
कथं नु वातातपकर्शिताङ्गो
वृकोदरः कोपपरिप्लुताङ्गः ।
शेते पृथिव्यामतथोचिताङ्गः
कृष्णासमक्षं वसुधातलस्थः ॥
वृकोदरः कोपपरिप्लुताङ्गः ।
शेते पृथिव्यामतथोचिताङ्गः
कृष्णासमक्षं वसुधातलस्थः ॥
M N Dutt
How does Vrikodara, reduced by exposure to wind and sun and filled with wrath, sleep on the bare ground in the presence of the Panchala princess unfit as he is to suffer such misery?
३.२२५.१२
तथार्जुनः सुकुमारो मनस्वी
वशे स्थितो धर्मसुतस्य राज्ञः ।
विदूयमानैरिव सर्वगात्रै
र्ध्रुवं न शेते वसतीरमर्षात् ॥
वशे स्थितो धर्मसुतस्य राज्ञः ।
विदूयमानैरिव सर्वगात्रै
र्ध्रुवं न शेते वसतीरमर्षात् ॥
M N Dutt
Perhaps the intelligent Arjuna who is incapable of bearing pain and who though ever obedient to Yudhishthira yet feels himself pierced by the remembrance of his wrongs, does not at all sleep in the night.
३.२२५.१३
यमौ च कृष्णां च युधिष्ठिरं च
भीमं च दृष्ट्वा सुखविप्रयुक्तान् ।
विनिःश्वसन्सर्प इवोग्रतेजा
ध्रुवं न शेते वसतीरमर्षात् ॥
भीमं च दृष्ट्वा सुखविप्रयुक्तान् ।
विनिःश्वसन्सर्प इवोग्रतेजा
ध्रुवं न शेते वसतीरमर्षात् ॥
M N Dutt
Seeing the twins (Nakula and Sahadeva) and Krishna (Draupadi) and Yudhishthira and Bhima in the greatest possible misery, Arjuna certainly sighs like a fearful serpent and from wrath does not sleep in the night.
३.२२५.१४
तथा यमौ चाप्यसुखौ सुखार्हौ
समृद्धरूपावमरौ दिवीव ।
प्रजागरस्थौ ध्रुवमप्रशान्तौ
धर्मेण सत्येन च वार्यमाणौ ॥
समृद्धरूपावमरौ दिवीव ।
प्रजागरस्थौ ध्रुवमप्रशान्तौ
धर्मेण सत्येन च वार्यमाणौ ॥
M N Dutt
The twins also, who are even like a couple of blessed celestials in heaven, sunk in misery though deserving of happiness and comfort, certainly pass their nights without sleep, only restrained from taking revenge by virtue and truth.
३.२२५.१५
समीरणेनापि समो बलेन
समीरणस्यैव सुतो बलीयान् ।
स धर्मपाशेन सितोग्रतेजा
ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥
समीरणस्यैव सुतो बलीयान् ।
स धर्मपाशेन सितोग्रतेजा
ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥
M N Dutt
The mighty son of Vayu (Bhima) who is equal to Vayu himself in strength certainly sighs and restrains his wrath tied through his eldest brother (Yudhishthira) to the bond of truth.
३.२२५.१६
स चापि भूमौ परिवर्तमानो
वधं सुतानां मम काङ्क्षमाणः ।
सत्येन धर्मेण च वार्यमाणः
कालं प्रतीक्षत्यधिको रणेऽन्यैः ॥
वधं सुतानां मम काङ्क्षमाणः ।
सत्येन धर्मेण च वार्यमाणः
कालं प्रतीक्षत्यधिको रणेऽन्यैः ॥
M N Dutt
Superior in battle to all warriors, he now quietly lies on the ground. Being restrained by virtue and truth but burning to kill my sons, he simply passes his time.
३.२२५.१७
अजातशत्रौ तु जिते निकृत्या
दुःशासनो यत्परुषाण्यवोचत् ।
तानि प्रविष्टानि वृकोदराङ्गं
दहन्ति मर्माग्निरिवेन्धनानि ॥
दुःशासनो यत्परुषाण्यवोचत् ।
तानि प्रविष्टानि वृकोदराङ्गं
दहन्ति मर्माग्निरिवेन्धनानि ॥
M N Dutt
The cruel words that Duhshasana spoke after Ajatshatru (Yudhishthira) had been deceitfully defeated at dice have reached the inner most depth of Vrikodara's heart. They are consuming him as a blazing bundle of straw consumes a faggot of dry wood.
३.२२५.१८
न पापकं ध्यास्यति धर्मपुत्रो
धनंजयश्चाप्यनुवर्तते तम् ।
अरण्यवासेन विवर्धते तु
भीमस्य कोपोऽग्निरिवानिलेन ॥
धनंजयश्चाप्यनुवर्तते तम् ।
अरण्यवासेन विवर्धते तु
भीमस्य कोपोऽग्निरिवानिलेन ॥
M N Dutt
The son of Dharma (Yudhishthira) never sinfully acts. Dhananjaya (Arjuna) also always obeys him, but the anger of Bhima is daily increasing like a fire helped by the wind in consequence of a life of exile.
३.२२५.१९
स तेन कोपेन विदीर्यमाणः
करं करेणाभिनिपीड्य वीरः ।
विनिःश्वसत्युष्णमतीव घोरं
दहन्निवेमान्मम पुत्रपौत्रान् ॥
करं करेणाभिनिपीड्य वीरः ।
विनिःश्वसत्युष्णमतीव घोरं
दहन्निवेमान्मम पुत्रपौत्रान् ॥
M N Dutt
That hero, burning in wrath, squeezes his hands and breathes hot and fearful sighs, as if he wants to consume by them all my sons and grandsons.
३.२२५.२०
गाण्डीवधन्वा च वृकोदरश्च
संरम्भिणावन्तककालकल्पौ ।
न शेषयेतां युधि शत्रुसेनां
शरान्किरन्तावशनिप्रकाशान् ॥
संरम्भिणावन्तककालकल्पौ ।
न शेषयेतां युधि शत्रुसेनां
शरान्किरन्तावशनिप्रकाशान् ॥
M N Dutt
The wielder of Gandiva (Arjuna) and Bhima when angry are like Yama and Kala themselves. Hurling their arrows which are like so many thunderbolts, they exterminate their enemies in battle.
३.२२५.२१
दुर्योधनः शकुनिः सूतपुत्रो
दुःशासनश्चापि सुमन्दचेताः ।
मधु प्रपश्यन्ति न तु प्रपातं
वृकोदरं चैव धनंजयं च ॥
दुःशासनश्चापि सुमन्दचेताः ।
मधु प्रपश्यन्ति न तु प्रपातं
वृकोदरं चैव धनंजयं च ॥
M N Dutt
Alas, Duryodhana and Shakuni and Suta's son (Karna) and the wicked minded Duhshasana in robbing the Pandavas of their kingdom by means of dice saw only honey (on the tree) without thinking the terrible fall from it!
३.२२५.२२
शुभाशुभं पुरुषः कर्म कृत्वा
प्रतीक्षते तस्य फलं स्म कर्ता ।
स तेन युज्यत्यवशः फलेन
मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥
प्रतीक्षते तस्य फलं स्म कर्ता ।
स तेन युज्यत्यवशः फलेन
मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥
M N Dutt
A man having acted rightly or wrongly expects to get the fruit of his acts. But fruits however (often) confounds and paralyses him. How can a man thus obtain salvation!
३.२२५.२३
क्षेत्रे सुकृष्टे ह्युपिते च बीजे
देवे च वर्षत्यृतुकालयुक्तम् ।
न स्यात्फलं तस्य कुतः प्रसिद्धि
रन्यत्र दैवादिति चिन्तयामि ॥
देवे च वर्षत्यृतुकालयुक्तम् ।
न स्यात्फलं तस्य कुतः प्रसिद्धि
रन्यत्र दैवादिति चिन्तयामि ॥
M N Dutt
If land is properly cultivated and the seed sown and if the god (Indra) seasonably showers rain, still the crop might not grow. This is what we often hear. How could this be true as I think unless everything here in this world) is ruled by Destiny. The gambler Shakuni has behaved deceitfully towards the son of Pandu (Yudhishthira) who always acts honestly and virtuously. From the love and fondness that I bear of my wicked sons I also have similarly acted. Alas, it is for this the time, for the destruction of the Kurus has come.
३.२२५.२४
कृतं मताक्षेण यथा न साधु
साधुप्रवृत्तेन च पाण्डवेन ।
मया च दुष्पुत्रवशानुगेन
यथा कुरूणामयमन्तकालः ॥
साधुप्रवृत्तेन च पाण्डवेन ।
मया च दुष्पुत्रवशानुगेन
यथा कुरूणामयमन्तकालः ॥
M N Dutt
If land is properly cultivated and the seed sown and if the god (Indra) seasonably showers rain, still the crop might not grow. This is what we often hear. How could this be true as I think unless everything here in this world) is ruled by Destiny. The gambler Shakuni has behaved deceitfully towards the son of Pandu (Yudhishthira) who always acts honestly and virtuously. From the love and fondness that I bear of my wicked sons I also have similarly acted. Alas, it is for this the time, for the destruction of the Kurus has come.
३.२२५.२५
ध्रुवं प्रवास्यत्यसमीरितोऽपि
ध्रुवं प्रजास्यत्युत गर्भिणी या ।
ध्रुवं दिनादौ रजनीप्रणाश
स्तथा क्षपादौ च दिनप्रणाशः ॥
ध्रुवं प्रजास्यत्युत गर्भिणी या ।
ध्रुवं दिनादौ रजनीप्रणाश
स्तथा क्षपादौ च दिनप्रणाशः ॥
M N Dutt
Or perhaps what is inevitable must come to pass. The wind, whether impelled or not, must move. The woman who conceives must give birth to a child. Darkness must pass away in the morning and the day in the evening.
३.२२५.२८
गतो ह्यरण्यादपि शक्रलोकं
धनंजयः पश्यत वीर्यमस्य ।
अस्त्राणि दिव्यानि चतुर्विधानि
ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥
धनंजयः पश्यत वीर्यमस्य ।
अस्त्राणि दिव्यानि चतुर्विधानि
ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥
M N Dutt
Behold what great is the prowess of Arjuna who went to the abode of Indra from the forest. Having secured the four kinds of celestials weapons, he has returned to earth.
३.२२५.२९
स्वर्गं हि गत्वा सशरीर एव
को मानुषः पुनरागन्तुमिच्छेत् ।
अन्यत्र कालोपहताननेका
न्समीक्षमाणस्तु कुरून्मुमूर्षून् ॥
को मानुषः पुनरागन्तुमिच्छेत् ।
अन्यत्र कालोपहताननेका
न्समीक्षमाणस्तु कुरून्मुमूर्षून् ॥
M N Dutt
What man is there who having gone to heaven in his own human body ever wishes to come back? Because he sees the Kurus at the point of death by Time, he has returned.
३.२२५.३०
धनुर्ग्राहश्चार्जुनः सव्यसाची
धनुश्च तद्गाण्डिवं लोकसारम् ।
अस्त्राणि दिव्यानि च तानि तस्य
त्रयस्य तेजः प्रसहेत को नु ॥
धनुश्च तद्गाण्डिवं लोकसारम् ।
अस्त्राणि दिव्यानि च तानि तस्य
त्रयस्य तेजः प्रसहेत को नु ॥
M N Dutt
The wielder of the bow is Arjuna Savyasachi, the bow is the Gandiva of fearful energy, the weapons are also all celestials, who is there who would be able to withstand the (combination of these) three."
३.२२५.३१
निशम्य तद्वचनं पार्थिवस्य
दुर्योधनो रहिते सौबलश्च ।
अबोधयत्कर्णमुपेत्य सर्वं
स चाप्यहृष्टोऽभवदल्पचेताः ॥
दुर्योधनो रहिते सौबलश्च ।
अबोधयत्कर्णमुपेत्य सर्वं
स चाप्यहृष्टोऽभवदल्पचेताः ॥
M N Dutt
Having heard those words of the king, the son of Subala Shakuni went to Duryodhana who was then with Karna and told them everything in private. The foolish Duryodhana was filled with grief at what he heard.
॥ इति ३.२२५ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.