मार्कण्डेय उवाच ।
३.२२१.४
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह ।
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥
M N Dutt
Looking like the sun with flames of lightening illuminating masses of clouds which are adorned with the bow of Indra. In front of him proceeded the lord of wealth (Kubera) with his followers Guhyakas,
३.२२१.१८
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् ।
छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् ।
चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ ॥
छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् ।
चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ ॥
M N Dutt
The clouds went along making their obeisance to the wielder of Pinaka. Soma held a white umbrella over his head.
३.२२१.१९
शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः ।
सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ॥
सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ॥
M N Dutt
And Agni and Vayu fanned him with Chamaras. O king, he was followed by the prosperity-bound Indra accompanied with the Royal sages singing the praises of Vrishadhvaja (Shiva).
३.२२१.२०
गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया ।
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ॥
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ॥
M N Dutt
Gauri, Vidhya, Gandhari, Keshini, Mitra and Savitri, all followed Parvati and so did also all those that are Vidhyas, created by the learned.
३.२२१.२२
स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः ।
व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा ।
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥
व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा ।
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥
M N Dutt
That foremost of Yakshas, named Pingala, the friend of Rudra, who is always present in the place where corpses are burnt and who is agreeable to all people, merrily marched with him, sometime going in front of the army and sometime falling behind it, his movements were not certain.
स्कन्द उवाच ।
३.२२१.२७
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो ।
यदन्यदपि मे कार्यं देव तद्वद माचिरम् ॥
यदन्यदपि मे कार्यं देव तद्वद माचिरम् ॥
M N Dutt
O lord, very well, I shall command, the seventh army corps. Now tell me soon if I am to do any thing else.
रुद्र उवाच ।
३.२२१.२८
कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि ।
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥
M N Dutt
Rudra said: O son, you shall always find me in the field of battle. By looking at me and by devotion to me, you shall derive great good.
मार्कण्डेय उवाच ।
३.२२१.२९
इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः ।
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् ।
सहसैव महाराज देवान्सर्वान्प्रमोहयत् ॥
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् ।
सहसैव महाराज देवान्सर्वान्प्रमोहयत् ॥
M N Dutt
Markandeya said : Having said this, Maheshvara Maheshvara (Shiva) embraced him and then permitted him to go. When Skanda was thus allowed to go, great disasters occurred.
३.२२१.४१
जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान् ।
अभिद्रवत भद्रं वो मया सह महासुरान् ॥
अभिद्रवत भद्रं वो मया सह महासुरान् ॥
M N Dutt
Resolve upon displaying bravery; you will then meet with no more misfortune and you will then be able to defeat these wicked and terrible wretches, the Danavas. Be blessed; attack the great Danavas with me.” Having heard the words of Shakra, the dwellers of heaven became reassured.
३.२२१.४२
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः ।
दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ॥
दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ॥
M N Dutt
And under his leadership they again attacked the Danavas. Thereupon all the celestials and the greatly powerful Marutas.
॥ इति ३.२२१ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.