मार्कण्डेय उवाच ।
३.२१०.४
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा ।
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ॥
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ॥
M N Dutt
Its head was brilliant as the flaming fire, its arms were as bright as the sun; its skin and eyes were gold coloured and its feet, O descendant of Bharata, were black.
३.२१०.५
पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः ।
पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः ॥
पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः ॥
M N Dutt
Its five colours were given to it by these five men, by reason of their great penance. This celestials being is therefore described as appertaining to five men and he is the progenitor of the five tribes.
३.२१०.६
दश वर्षसहस्राणि तपस्तप्त्वा महातपाः ।
जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् ॥
जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् ॥
M N Dutt
Having performed asceticism for ten thousand years, that being of great merit, produced the terrible fire appertaining to the Pitris in order to begin the work of creation and from his head and mouth respectively. was son
३.२१०.७
बृहद्रथंतरं मूर्ध्नो वक्त्राच्च तरसाहरौ ।
शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् ॥
शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् ॥
M N Dutt
He created Brihat and Rathantara, who quickly steal life away. He created Shiva from his naval, Indra from his prowess and wind and fire from his soul.
३.२१०.८
बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह ।
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ॥
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ॥
M N Dutt
And from his two arms and hymns Udatta and Anudatta. He also created the mind and the five senses and other creatures. Having created these he produced the five sons of the Pitris,
३.२१०.९
बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः ।
भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः ॥
भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः ॥
M N Dutt
Of these Pranidhi was the son of Brihadratha, Mahattara the son of Kashyapa, Bhanu was the grand son of Chyavana and Saubhara, the son of Varcha.
३.२१०.१०
प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः ।
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ॥
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ॥
३.२१०.१४
त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक् ।
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः ॥
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः ॥
M N Dutt
These deities were divided into three classes of five each. Placed here in this world, they destroy the sacrifices in heaven.
३.२१०.१५
तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि ।
स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च ॥
स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च ॥
M N Dutt
They frustrate their objects and spoil their oblations of Ghee; they do this only to spite the sacred fires carrying oblations to the celestials.
३.२१०.१६
हविर्वेद्यां तदादानं कुशलैः संप्रवर्तितम् ।
तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ॥
तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ॥
M N Dutt
If the priests are careful, they place the oblation in their honour outside the sacrificial altar; to that particular place where the sacred fire may be placed, they cannot go.
३.२१०.१७
चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते ।
मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् ॥
मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् ॥
M N Dutt
They carry the oblations offered by the votaries by means of wings. When appeased by hymns they do not frustrate the sacrificial rites.
३.२१०.१८
बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः ।
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते ॥
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते ॥
M N Dutt
Brihaduktha, another son of Tapa belongs to the earth. He is worshipped in the world by virtuous who perform Agnihotra sacrifices.
३.२१०.१९
रथंतरश्च तपसः पुत्रोऽग्निः परिपठ्यते ।
मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः ।
मुमुदे परमप्रीतः सह पुत्रैर्महायशाः ॥
मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः ।
मुमुदे परमप्रीतः सह पुत्रैर्महायशाः ॥
M N Dutt
Of the son of Tapa, who is known as Rathantara, it is said by the priests that oblation offered in his honour is offered to Mitravinda. The celebrated Tapa was thus very happy with his sons. men J
॥ इति ३.२१० ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.