वैशंपायन उवाच ।
३.१९२.१
युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ ।
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ॥
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ॥
M N Dutt
Vaishampayana said : O great king, having heard from the highsouled Markandeya the account of the attainment of heaven by the royal sage Indradhyumna, that foremost of the Bharatas, Yudhishthira, again thus asked that sinless great ascetic and long-lived Markandeya.
३.१९२.२
विदितास्तव धर्मज्ञ देवदानवराक्षसाः ।
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ।
न तेऽस्त्यविदितं किंचिदस्मिँल्लोके द्विजोत्तम ॥
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ।
न तेऽस्त्यविदितं किंचिदस्मिँल्लोके द्विजोत्तम ॥
M N Dutt
Yudhishthira said : O virtuous one, you know all the celestials and the Danavas, the Rakshasas, also various royal dynasties and many everlasting dynasties of the Rishis.
३.१९२.४
कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः ।
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ॥
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ॥
M N Dutt
O foremost of Brahmanas, I desire to hear from you all these accounts. Why did that invincible descendant of Ikshvaku, known by the name of Kuvalashva change and assume another, namely Dhundhumara?
३.१९२.५
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम ।
विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः ॥
विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः ॥
M N Dutt
O best of the Bhrigu race, I desire to know in detail why the name of the highly intelligent Kuvalashva underwent a change.
मार्कण्डेय उवाच ।
३.१९२.६
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर ।
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ॥
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ॥
M N Dutt
Markandeya said : O king Yudhishthira, I shall tell you all. Listen to me. The story of Dhundhumara is a moral story, hear it.
३.१९२.७
यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः ।
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ॥
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ॥
M N Dutt
O ruler of earth, hear why the royal sage Kuvalashva of the race of Ikshvaku came to be known as Dhundhumara.
३.१९२.८
महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत ।
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ॥
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ॥
M N Dutt
O descendant of Bharata, O child, there was a celebrated great Rishi named Uttanka. He had his hermitage in a charming forest.
३.१९२.९
उत्तङ्कस्तु महाराज तपोऽतप्यत्सुदुश्चरम् ।
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो ॥
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो ॥
M N Dutt
O great king, Uttanka performed serverest asceticism. In order to secure the grace of Vishnu that lord (Uttanka) performed that severest penance for many hundreds of years.
३.१९२.१०
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् ।
दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः ॥
दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः ॥
M N Dutt
Being gratified with him that exalted deity (Vishnu) appeared before him in his embodied form. As soon as the Rishi saw him, he gratified him in all humility and with many hymns.
३.१९२.११
त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः ।
स्थावराणि च भूतानि जङ्गमानि तथैव च ।
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते ॥
स्थावराणि च भूतानि जङ्गमानि तथैव च ।
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते ॥
M N Dutt
Uttanka said: O god, all mobile and immobile creatures with the celestial, the Asuras and the humanbeings have been all created by you.
३.१९२.१२
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ ।
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत ।
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ॥
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत ।
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ॥
M N Dutt
O undeteriorating one, the winds are your breaths, the fire is your splendour, the directions are your arms and the great ocean is your stomach.
३.१९२.१३
ऊरू ते पर्वता देव खं नाभिर्मधुसूदन ।
पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा ॥
पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा ॥
M N Dutt
O god, O slayer of Madhu, the hills and the mountains are your thighs, the atmosphere is your hips, the goddess earth is your feet and the plants are the down of your body.
३.१९२.१४
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः ।
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥
M N Dutt
Indra, Soma, Agni and Varuna, the celestial, the Asuras and the great Nagas, all wait upon you and adore you with various hymns.
३.१९२.१५
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर ।
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ॥
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ॥
M N Dutt
O lord of earth all created things are pervaded by you. The great Rishis and the greatly effulgent Yogis all adore you with hymns.
३.१९२.१६
त्वयि तुष्टे जगत्स्वस्थं त्वयि क्रुद्धे महद्भयम् ।
भयानामपनेतासि त्वमेकः पुरुषोत्तम ॥
भयानामपनेतासि त्वमेकः पुरुषोत्तम ॥
M N Dutt
O foremost of men, when you are pleased the universe enjoys peace; when you are angry, a great fear pervades all. You are the only great dispeller of all fears; you are the supreme one.
३.१९२.१७
देवानां मानुषाणां च सर्वभूतसुखावहः ।
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः ।
असुराणां समृद्धानां विनाशश्च त्वया कृतः ॥
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः ।
असुराणां समृद्धानां विनाशश्च त्वया कृतः ॥
M N Dutt
O god, you are the cause of happiness of both the celestials and the human beings. By your three steps you covered all the three worlds.
३.१९२.१९
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः ।
आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः ॥
आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः ॥
M N Dutt
O greatly effulgent one, it was your anger that vanquished the great Daitya chiefs. You are the creator, you are the destroyer of all the creatures of this world. Adoring you, the celestials have obtained happiness and bliss.”
३.१९२.२०
एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना ।
उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ॥
उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ॥
M N Dutt
There was Hrishikesha (Vishnu) praised by the high-souled Uttanka. Vishnu then thus spoke to Uttanka, “I am gratified, Ask for a boon."
उत्तङ्क उवाच ।
३.१९२.२१
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् ।
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ॥
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ॥
M N Dutt
(Uttanka said), “It is (already) a great boon to me that you have become visible to me, you who are Hari, the eternal being, the celestials creator, the lord of the universe."
विष्णुरुवाच ।
३.१९२.२२
प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम ।
अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ॥
अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ॥
M N Dutt
Vishnu said, "O excellent one. I am pleased with your this littleness of desire and great devotion. O Brahmana, O twice-born one, you should certainly accept some boon from me."
३.१९२.२३
एवं संछन्द्यमानस्तु वरेण हरिणा तदा ।
उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ॥
उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ॥
M N Dutt
Thus requested by Hari to ask for a boon, O best of the Bharata race, Uttanka with joined hands asked for a boon.
३.१९२.२४
यदि मे भगवान्प्रीतः पुण्डरीकनिभेक्षणः ।
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा ।
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर ॥
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा ।
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर ॥
M N Dutt
"O lotus-eyed deity, if your exalted self is pleased with me, O lord, then let my heart be always devoted to virtue, truth and contentment. Let my mind be always devoted to you."
विष्णुरुवाच ।
३.१९२.२५
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज ।
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् ।
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ॥
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् ।
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ॥
M N Dutt
(The deity replied), “O Brahmana, all this will happen to you through my favour. A Yoga will be manifest in you. Through its power you will perform a great act for the dwellers of heaven as also for the three worlds.
३.१९२.२६
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः ।
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ॥
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ॥
M N Dutt
A great Asura, named Dhundhu, is now undergoing severe austerities in order to destroy the world. Hear who will kill him.
३.१९२.२७
बृहदश्व इति ख्यातो भविष्यति महीपतिः ।
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः ॥
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः ॥
M N Dutt
O child, a mighty and invincible king of the race of Ikshvaku, known by the name of Brihadashva, will be the ruler over earth. His son will be very illustrious, self-controlled and holy; he will be known by the name of Kuvalashva.
३.१९२.२८
स योगबलमास्थाय मामकं पार्थिवोत्तमः ।
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ॥
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ॥
M N Dutt
O foremost of Brahmanas, that best of kings will be endued with Yoga power derived from me. Commanded by you he will be the slayer of Dhundhu.” Having said this to that Brahmana Vishnu disappeared.
मार्कण्डेय उवाच ।
॥ इति ३.१९२ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.