वैशंपायन उवाच ।
३.१७४.१
नगोत्तमं प्रस्रवणैरुपेतं
दिशां गजैः किंनरपक्षिभिश्च ।
सुखं निवासं जहतां हि तेषां
न प्रीतिरासीद्भरतर्षभाणाम् ॥
दिशां गजैः किंनरपक्षिभिश्च ।
सुखं निवासं जहतां हि तेषां
न प्रीतिरासीद्भरतर्षभाणाम् ॥
M N Dutt
Vaishampayana said : Those foremost of the Bharatas, on leaving their delightful abode on that excellent mountain with waterfalls, the elephants of eight quarters, the Kinnaras and birds, were not happy at heart.
३.१७४.२
ततस्तु तेषां पुनरेव हर्षः
कैलासमालोक्य महान्बभूव ।
कुबेरकान्तं भरतर्षभाणां
महीधरं वारिधरप्रकाशम् ॥
कैलासमालोक्य महान्बभूव ।
कुबेरकान्तं भरतर्षभाणां
महीधरं वारिधरप्रकाशम् ॥
M N Dutt
But those best of the Bharatas again experienced a great delight on beholding the favourite mountain of Kubera, the Kailasa looking (white as the clouds).
३.१७४.३
समुच्छ्रयान्पर्वतसंनिरोधा
न्गोष्ठान्गिरीणां गिरिसेतुमालाः ।
बहून्प्रपातांश्च समीक्ष्य वीराः
स्थलानि निम्नानि च तत्र तत्र ॥
न्गोष्ठान्गिरीणां गिरिसेतुमालाः ।
बहून्प्रपातांश्च समीक्ष्य वीराः
स्थलानि निम्नानि च तत्र तत्र ॥
M N Dutt
And those heroes, the excellent of mortals, armed with bows and swords, felt a great delight, beholding (on their way) elevations and defiles, dens of lions, rows of craggy causeways, numerous waterfalls, low lands here and there and various other great forests inhabited by numerous deer, birds and elephants.
३.१७४.५
वनानि रम्याणि सरांसि नद्यो
गुहा गिरीणां गिरिगह्वराणि ।
एते निवासाः सततं बभूवु
र्निशानिशं प्राप्य नरर्षभाणाम् ॥
गुहा गिरीणां गिरिगह्वराणि ।
एते निवासाः सततं बभूवु
र्निशानिशं प्राप्य नरर्षभाणाम् ॥
M N Dutt
(And as they journeyed on), romantic forests, rivers, lakes, caves of mountain, mighty mountain, caverns-all these always, by day and night became the dwelling places of those most excellent men.
३.१७४.६
ते दुर्गवासं बहुधा निरुष्य
व्यतीत्य कैलासमचिन्त्यरूपम् ।
आसेदुरत्यर्थमनोरमं वै
तमाश्रमाग्र्यं वृषपर्वणस्ते ॥
व्यतीत्य कैलासमचिन्त्यरूपम् ।
आसेदुरत्यर्थमनोरमं वै
तमाश्रमाग्र्यं वृषपर्वणस्ते ॥
M N Dutt
(Thus) resting in many inaccessible places and crossing the mountain Kailasa of incomprehensible grandeur, they at length reached the exceedingly beautiful hermitage of Vrishaparva.
३.१७४.७
समेत्य राज्ञा वृषपर्वणस्ते
प्रत्यर्चितास्तेन च वीतमोहाः ।
शशंसिरे विस्तरशः प्रवासं
शिवं यथावद्वृषपर्वणस्ते ॥
प्रत्यर्चितास्तेन च वीतमोहाः ।
शशंसिरे विस्तरशः प्रवासं
शिवं यथावद्वृषपर्वणस्ते ॥
M N Dutt
Meeting with the king, Vrishaparva and being welcomed by him they recovered from fatigue and then they related to him) faithfully and fully the story of their stay in the mountains.
३.१७४.८
सुखोषितास्तत्र त एकरात्रं
पुण्याश्रमे देवमहर्षिजुष्टे ।
अभ्याययुस्ते बदरीं विशालां
सुखेन वीराः पुनरेव वासम् ॥
पुण्याश्रमे देवमहर्षिजुष्टे ।
अभ्याययुस्ते बदरीं विशालां
सुखेन वीराः पुनरेव वासम् ॥
M N Dutt
And having happily spent a night in that sacred hermitage frequented by the celestials and the Maharshis, those warriors gladly repaired to the great Jujube tree for a sojourn again.
३.१७४.९
ऊषुस्ततस्तत्र महानुभावा
नारायणस्थानगता नराग्र्याः ।
कुबेरकान्तां नलिनीं विशोकाः
संपश्यमानाः सुरसिद्धजुष्टाम् ॥
नारायणस्थानगता नराग्र्याः ।
कुबेरकान्तां नलिनीं विशोकाः
संपश्यमानाः सुरसिद्धजुष्टाम् ॥
M N Dutt
Then arriving at the place of Narayana, all those high-souled men, devoid of sorrow, began to dwell there, beholding the beloved lake of Kubera, frequented by the celestials and he Siddhas.
३.१७४.१०
तां चाथ दृष्ट्वा नलिनीं विशोकाः
पाण्डोः सुताः सर्वनरप्रवीराः ।
ते रेमिरे नन्दनवासमेत्य
द्विजर्षयो वीतभया यथैव ॥
पाण्डोः सुताः सर्वनरप्रवीराः ।
ते रेमिरे नन्दनवासमेत्य
द्विजर्षयो वीतभया यथैव ॥
M N Dutt
(And) seeing that lake, those sons of Pandu, the best of all men, devoid of sorrow, began to sport there, (just) as the sinless Brahmana sages do on getting a habitation in the garden of Nandana.
३.१७४.११
ततः क्रमेणोपययुर्नृवीरा
यथागतेनैव पथा समग्राः ।
विहृत्य मासं सुखिनो बदर्यां
किरातराज्ञो विषयं सुबाहोः ॥
यथागतेनैव पथा समग्राः ।
विहृत्य मासं सुखिनो बदर्यां
किरातराज्ञो विषयं सुबाहोः ॥
M N Dutt
Then having spent a month happily at Badari, all those heroes gradually proceeded towards the country of Subahu, the king of the Kiratas, along the same route by which they had come (before).
३.१७४.१२
चीनांस्तुखारान्दरदान्सदार्वा
न्देशान्कुणिन्दस्य च भूरिरत्नान् ।
अतीत्य दुर्गं हिमवत्प्रदेशं
पुरं सुबाहोर्ददृशुर्नृवीराः ॥
न्देशान्कुणिन्दस्य च भूरिरत्नान् ।
अतीत्य दुर्गं हिमवत्प्रदेशं
पुरं सुबाहोर्ददृशुर्नृवीराः ॥
M N Dutt
Journeying through China, Turaska, Darada and all the provinces of Kulinda, rich in heaps of jewels and crossing the inaccessible Himalayan regions, those warriors (at length) beheld the capital of Subahu.
३.१७४.१३
श्रुत्वा च तान्पार्थिवपुत्रपौत्रा
न्प्राप्तान्सुबाहुर्विषये समग्रान् ।
प्रत्युद्ययौ प्रीतियुतः स राजा
तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥
न्प्राप्तान्सुबाहुर्विषये समग्रान् ।
प्रत्युद्ययौ प्रीतियुतः स राजा
तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥
M N Dutt
Hearing of the arrival of those sons and grandsons of kings in his capital, King Subahu, full of joy, advanced to welcome them. And thosc best of the Kurus also greeted him.
३.१७४.१४
समेत्य राज्ञा तु सुबाहुना ते
सूतैर्विशोकप्रमुखैश्च सर्वैः ।
सहेन्द्रसेनैः परिचारकैश्च
पौरोगवैर्ये च महानसस्थाः ॥
सूतैर्विशोकप्रमुखैश्च सर्वैः ।
सहेन्द्रसेनैः परिचारकैश्च
पौरोगवैर्ये च महानसस्थाः ॥
M N Dutt
Meeting with King Subahu and joined by their charioteers with Vishoka at their head, by all their attendants together with Indrasena, by the porters and by the servants of the kitchen,
३.१७४.१५
सुखोषितास्तत्र त एकरात्रं
सूतानुपादाय रथांश्च सर्वान् ।
घटोत्कचं सानुचरं विसृज्य
ततोऽभ्ययुर्यामुनमद्रिराजम् ॥
सूतानुपादाय रथांश्च सर्वान् ।
घटोत्कचं सानुचरं विसृज्य
ततोऽभ्ययुर्यामुनमद्रिराजम् ॥
M N Dutt
They spent a night there happily. Dismissing Ghatotkacha together with all his attendants and retaining all the charioteers and he cars, they then proceeded towards the prince of mountains in the neighbourhood of Yamuna.
३.१७४.१७
वराहनानामृगपक्षिजुष्टं
महद्वनं चैत्ररथप्रकाशम् ।
शिवेन यात्वा मृगयाप्रधानाः
संवत्सरं तत्र वने विजह्रुः ॥
महद्वनं चैत्ररथप्रकाशम् ।
शिवेन यात्वा मृगयाप्रधानाः
संवत्सरं तत्र वने विजह्रुः ॥
M N Dutt
And having found in that mountainabounding in water falls-whose orange and grey coloured plateau is covered with a sheet of snow, the great forest (named) Vishakhayupa, inhabited by boars and birds and resembling the forest of Chitraratha, those heroic men began to dwell there. And those foremost of hunters, the Parthas lived peacefully in that forest for a year.
३.१७४.१८
तत्राससादातिबलं भुजंगं
क्षुधार्दितं मृत्युमिवोग्ररूपम् ।
वृकोदरः पर्वतकन्दरायां
विषादमोहव्यथितान्तरात्मा ॥
क्षुधार्दितं मृत्युमिवोग्ररूपम् ।
वृकोदरः पर्वतकन्दरायां
विषादमोहव्यथितान्तरात्मा ॥
M N Dutt
There, in a mountain cave, Vrikodara coming across a very powerful serpent distressed with hunger and terrible like death itself, became afflicted at heart with sorrow and distraction.
३.१७४.१९
द्वीपोऽभवद्यत्र वृकोदरस्य
युधिष्ठिरो धर्मभृतां वरिष्ठः ।
अमोक्षयद्यस्तमनन्ततेजा
ग्राहेण संवेष्टितसर्वगात्रम् ॥
युधिष्ठिरो धर्मभृतां वरिष्ठः ।
अमोक्षयद्यस्तमनन्ततेजा
ग्राहेण संवेष्टितसर्वगात्रम् ॥
M N Dutt
(But) Yudhishthira, of immeasurable prowess, became the liberator of Vrikodara and extricated him from the gripe of the snake which coiled round his whole body.
३.१७४.२२
समीक्ष्य तान्द्वैतवने निविष्टा
न्निवासिनस्तत्र ततोऽभिजग्मुः ।
तपोदमाचारसमाधियुक्ता
स्तृणोदपात्राहरणाश्मकुट्टाः ॥
न्निवासिनस्तत्र ततोऽभिजग्मुः ।
तपोदमाचारसमाधियुक्ता
स्तृणोदपात्राहरणाश्मकुट्टाः ॥
M N Dutt
And seeing them enter Dvaitavana, the inhabitants of that place engaged in asceticism, restraining their passions, practising purity and fervid devotion and living on (foods) crushed with stone, approached them with grass mats and water vessels (in their hands for their reception).
३.१७४.२३
प्लक्षाक्षरौहीतकवेतसाश्च
स्नुहा बदर्यः खदिराः शिरीषाः ।
बिल्वेङ्गुदाः पीलुशमीकरीराः
सरस्वतीतीररुहा बभूवुः ॥
स्नुहा बदर्यः खदिराः शिरीषाः ।
बिल्वेङ्गुदाः पीलुशमीकरीराः
सरस्वतीतीररुहा बभूवुः ॥
M N Dutt
The banks of the river Sarasvati were adorned with the holy fig, the Rudraksha, the cane, the Jujube, the Catechu, the Sirisa, the Bel, the Inguda, the Pilu, the Shami and the Karira tree.
३.१७४.२४
तां यक्षगन्धर्वमहर्षिकान्ता
मायागभूतामिव देवतानाम् ।
सरस्वतीं प्रीतियुताश्चरन्तः
सुखं विजह्रुर्नरदेवपुत्राः ॥
मायागभूतामिव देवतानाम् ।
सरस्वतीं प्रीतियुताश्चरन्तः
सुखं विजह्रुर्नरदेवपुत्राः ॥
M N Dutt
Wandering joyfully by the Sarasvati, beloved by the Yakshas, the Gandharvas and the Maharshis and looking like the abode of the celestials, those sons of king lived there happily.
॥ इति ३.१७४ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.