जनमेजय उवाच ।
३.१७३.१
तस्मिन्कृतास्त्रे रथिनां प्रधाने
प्रत्यागते भवनाद्वृत्रहन्तुः ।
अतः परं किमकुर्वन्त पार्थाः
समेत्य शूरेण धनंजयेन ॥
प्रत्यागते भवनाद्वृत्रहन्तुः ।
अतः परं किमकुर्वन्त पार्थाः
समेत्य शूरेण धनंजयेन ॥
M N Dutt
Janamejaya said : On the return of that best of the car-warriors from the abode of the slayer of Vitra (Indra) being skilled in arms, what did the Parthas do in company with the heroic Dhananjaya.
वैशंपायन उवाच ।
३.१७३.२
वनेषु तेष्वेव तु ते नरेन्द्राः
सहार्जुनेनेन्द्रसमेन वीराः ।
तस्मिंश्च शैलप्रवरे सुरम्ये
धनेश्वराक्रीडगता विजह्रुः ॥
सहार्जुनेनेन्द्रसमेन वीराः ।
तस्मिंश्च शैलप्रवरे सुरम्ये
धनेश्वराक्रीडगता विजह्रुः ॥
M N Dutt
Vaishampayana said : Those foremost of men, brave as Indra, together with Arjuna, sported in the pleasuregardens of the lord of wealth (situated) in those forests on that excellent and beautiful mountain.
३.१७३.३
वेश्मानि तान्यप्रतिमानि पश्य
न्क्रीडाश्च नानाद्रुमसंनिकर्षाः ।
चचार धन्वी बहुधा नरेन्द्रः
सोऽस्त्रेषु यत्तः सततं किरीटी ॥
न्क्रीडाश्च नानाद्रुमसंनिकर्षाः ।
चचार धन्वी बहुधा नरेन्द्रः
सोऽस्त्रेषु यत्तः सततं किरीटी ॥
M N Dutt
Beholding those peerless abodes and pleasure-gardens interspersed with trees, Kiriti, the foremost of men, with a relish for arms and bow in hand, ranged at large (among) those (woods).
३.१७३.४
अवाप्य वासं नरदेवपुत्राः
प्रसादजं वैश्रवणस्य राज्ञः ।
न प्राणिनां ते स्पृहयन्ति राज
ञ्शिवश्च कालः स बभूव तेषाम् ॥
प्रसादजं वैश्रवणस्य राज्ञः ।
न प्राणिनां ते स्पृहयन्ति राज
ञ्शिवश्च कालः स बभूव तेषाम् ॥
M N Dutt
O monarch, those sons of a king, having obtained a residence through the favour of king Vaisravana, did not long for the prosperity of earthly creatures, (in as much as) that period (of their lives) was (quite) a blessing (to them).
३.१७३.५
समेत्य पार्थेन यथैकरात्र
मूषुः समास्तत्र तदा चतस्रः ।
पूर्वाश्च षट्ता दश पाण्डवानां
शिवा बभूवुर्वसतां वनेषु ॥
मूषुः समास्तत्र तदा चतस्रः ।
पूर्वाश्च षट्ता दश पाण्डवानां
शिवा बभूवुर्वसतां वनेषु ॥
M N Dutt
In company with Partha they lived there for four years which appeared to them (short) as a single night. The former six years and these four together numbering ten of their forest life glided smoothly away.
३.१७३.६
ततोऽब्रवीद्वायुसुतस्तरस्वी
जिष्णुश्च राजानमुपोपविश्य ।
यमौ च वीरौ सुरराजकल्पा
वेकान्तमास्थाय हितं प्रियं च ॥
जिष्णुश्च राजानमुपोपविश्य ।
यमौ च वीरौ सुरराजकल्पा
वेकान्तमास्थाय हितं प्रियं च ॥
M N Dutt
Then (once upon a time) seated before the king (Yudhishthira), the intrepid son of Vayu (the wind-god), together with Vishnu and the heroic twins, resembling the king of the celestials, spoke in private these sweet and beneficial words.
३.१७३.७
तव प्रतिज्ञां कुरुराज सत्यां
चिकीर्षमाणास्त्वदनु प्रियं च ।
ततोऽनुगच्छाम वनान्यपास्य
सुयोधनं सानुचरं निहन्तुम् ॥
चिकीर्षमाणास्त्वदनु प्रियं च ।
ततोऽनुगच्छाम वनान्यपास्य
सुयोधनं सानुचरं निहन्तुम् ॥
M N Dutt
"O king of the Kurus, in order to make your promise bear fruit and to further your interests, we are not going to slay Suyodhana together with (all) his followers.
३.१७३.९
तवाज्ञया पार्थिव निर्विशङ्का
विहाय मानं विचरन्वनानि ।
समीपवासेन विलोभितास्ते
ज्ञास्यन्ति नास्मानपकृष्टदेशान् ॥
विहाय मानं विचरन्वनानि ।
समीपवासेन विलोभितास्ते
ज्ञास्यन्ति नास्मानपकृष्टदेशान् ॥
M N Dutt
In spite of our being deprived by Suyodhana of the happiness we deserve, we have been (hitherto happily) dwelling (in the woods) these eleven years. And hereafter too, O monarch, at your command, wandering in the forests regardless of our position, we shall easily spend the period of our incognits life, deluding that being of wicked mind and character. And (Suyodhana) being tempted by our residence in the neighbourhood will not be inclined to believe that we have removed to a distant country.
३.१७३.१०
संवत्सरं तं तु विहृत्य गूढं
नराधमं तं सुखमुद्धरेम ।
निर्यात्य वैरं सफलं सपुष्पं
तस्मै नरेन्द्राधमपूरुषाय ॥
नराधमं तं सुखमुद्धरेम ।
निर्यात्य वैरं सफलं सपुष्पं
तस्मै नरेन्द्राधमपूरुषाय ॥
M N Dutt
There O king, remaining in concealment for one year and (then) wrecking our vengeance on that worst of mortals, Suyodhana as well as his followers, we shall root out that vilest being (like a thorn) and regain our kingdom after the overthrow of our enemies. Therefore, O foremost of the virtuous, come down on earth. O king of mortals, if we continue to dwell in this country resembling heaven itself, we shall be able to forget our grief's.
३.१७३.१२
कीर्तिश्च ते भारत पुण्यगन्धा
नश्येत लोकेषु चराचरेषु ।
तत्प्राप्य राज्यं कुरुपुंगवानां
शक्यं महत्प्राप्तमथ क्रियाश्च ॥
नश्येत लोकेषु चराचरेषु ।
तत्प्राप्य राज्यं कुरुपुंगवानां
शक्यं महत्प्राप्तमथ क्रियाश्च ॥
M N Dutt
But then, O Bharata, the sacred fragrance of your fame will disappear from (both) the mobile and the immobile worlds; (for) regaining the kingdom of the most exalted of the Kurus, you will be able to perform glorious deeds.
३.१७३.१३
इदं तु शक्यं सततं नरेन्द्र
प्राप्तुं त्वया यल्लभसे कुबेरात् ।
कुरुष्व बुद्धिं द्विषतां वधाय
कृतागसां भारत निग्रहे च ॥
प्राप्तुं त्वया यल्लभसे कुबेरात् ।
कुरुष्व बुद्धिं द्विषतां वधाय
कृतागसां भारत निग्रहे च ॥
M N Dutt
In that case, O monarch, you will always have what we already obtained from Kubera. (Therefore), O Bharata, direct your thoughts towards the punishment and destruction of your guilty enemies.
३.१७३.१६
तवार्थसिद्ध्यर्थमभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस्तैः ।
तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रयोगे ।
त्वदर्थयोगप्रभवप्रधानाः; समं करिष्याम परान्समेत्य ॥
तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रयोगे ।
त्वदर्थयोगप्रभवप्रधानाः; समं करिष्याम परान्समेत्य ॥
M N Dutt
And, O king, as Krishna together with the Yadavas is eager for your welfare so am I. The twins also are brave and skilled in arms, (And) we, whose chief object consists in the advancement of your wealth and prosperity, encountering your enemies in battle, will kill them."
३.१७३.१९
समाप्तकर्मा सहितः सुहृद्भि
र्जित्वा सपत्नान्प्रतिलभ्य राज्यम् ।
शैलेन्द्र भूयस्तपसे धृतात्मा
द्रष्टा तवास्मीति मतिं चकार ॥
र्जित्वा सपत्नान्प्रतिलभ्य राज्यम् ।
शैलेन्द्र भूयस्तपसे धृतात्मा
द्रष्टा तवास्मीति मतिं चकार ॥
M N Dutt
“Having performed my task, conquered my enemies and recovered my kingdom, may I, O lord of mountains, together with my friends, behold you again, for performing asceticism with subdued mind."
३.१७३.२०
वृतः स सर्वैरनुजैर्द्विजैश्च
तेनैव मार्गेण पतिः कुरूणाम् ।
उवाह चैनान्सगणांस्तथैव
घटोत्कचः पर्वतनिर्झरेषु ॥
तेनैव मार्गेण पतिः कुरूणाम् ।
उवाह चैनान्सगणांस्तथैव
घटोत्कचः पर्वतनिर्झरेषु ॥
M N Dutt
(And) when surrounded by all his brothers and the Brahmanas, the lord of the Kurus proceeded along the former path, he was carried across the mountain waterfalls by Ghatotkacha with his followers.
३.१७३.२१
तान्प्रस्थितान्प्रीतिमना महर्षिः
पितेव पुत्राननुशिष्य सर्वान् ।
स लोमशः प्रीतमना जगाम
दिवौकसां पुण्यतमं निवासम् ॥
पितेव पुत्राननुशिष्य सर्वान् ।
स लोमशः प्रीतमना जगाम
दिवौकसां पुण्यतमं निवासम् ॥
M N Dutt
(And) when they were about to start (on their journey) the great sage, Lomasha, gave them instructions as a father gives to his own sons and then went to the most sacred region of the celestials.
३.१७३.२२
तेनानुशिष्टार्ष्टिषेणेन चैव
तीर्थानि रम्याणि तपोवनानि ।
महान्ति चान्यानि सरांसि पार्थाः
संपश्यमानाः प्रययुर्नराग्र्याः ॥
तीर्थानि रम्याणि तपोवनानि ।
महान्ति चान्यानि सरांसि पार्थाः
संपश्यमानाः प्रययुर्नराग्र्याः ॥
M N Dutt
Similarly advised by Arshtishena those foremost of men, the Parthas, proceeded along, beholding (on the way) various great and beautiful Tirthas (sacred places resorted to by pilgrims).
॥ इति ३.१७३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.