अर्जुन उवाच ।
३.१७०.१
निवर्तमानेन मया महद्दृष्टं ततोऽपरम् ।
पुरं कामचरं दिव्यं पावकार्कसमप्रभम् ॥
पुरं कामचरं दिव्यं पावकार्कसमप्रभम् ॥
M N Dutt
Arjuna said: Then, while returning (to the abode of Indra), I beheld on my way a great celestials city, moving at will, endued with the splendour of the fire or the sun,
३.१७०.२
द्रुमै रत्नमयैश्चैत्रैर्भास्वरैश्च पतत्रिभिः ।
पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् ॥
पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् ॥
M N Dutt
Containing trees made of jewels, teeming with many-coloured birds of sweet voice, inhabited by the Paulomas and the Kalakanja ever merry,
३.१७०.३
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् ।
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ।
द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम् ॥
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ।
द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम् ॥
M N Dutt
Adorned with gate-ways, towers and four gates, impregnable, made of all sorts of jewels celestials wonderful to look at,
३.१७०.४
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः ।
असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ।
चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥
असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ।
चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥
M N Dutt
Surrounded on all sides by the Asuras, always cheerful, adorned with garlands and holding in their hands maces, swords, darts, bows and clubs.
३.१७०.५
तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम् ।
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ॥
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ॥
M N Dutt
Beholding that city of the Daitya, wonderful to look at, O king, I asked Matali "What is it that looks so marvellous?"
मातलिरुवाच ।
३.१७०.६
पुलोमा नाम दैतेयी कालका च महासुरी ।
दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः ।
तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् ॥
दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः ।
तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् ॥
M N Dutt
Matali said : (Formerly) a Daitya-female, named Puloma and another great giantess, Kalaka (by name), practised severe austerities for a thousand celestials years.
३.१७०.७
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् ।
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ॥
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ॥
M N Dutt
When they had finished their austerities, the self-existent (god) Svayambhu granted them boons. (And), O king of kings, they obtained the boons-viz., that their children might never suffer distress; that (they) might obtain a highly beautiful and an exceedingly splendid aerial city,
३.१७०.८
रमणीयं पुरं चेदं खचरं सुकृतप्रभम् ।
सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ।
सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः ॥
सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ।
सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः ॥
M N Dutt
Full of all sorts of gems, unassailable even by immortals, the Maharshis, the Yakshas, the Gandharvas, the Pannagas, the Asuras and the Rakshasas,
३.१७०.९
सर्वकामगुणोपेतं वीतशोकमनामयम् ।
ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् ॥
ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् ॥
M N Dutt
Containing all the desirable objects and devoid of grief and desire. O best of the Bharatas, created by Brahma for the Kalakeyas,
३.१७०.१०
तदेतत्खचरं दिव्यं चरत्यमरवर्जितम् ।
पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥
पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥
M N Dutt
This is that celestials city, devoid of gods, which is moving about. O hero, it is inhabited by the Pauloma and he Kalakeya Danavas.
३.१७०.११
हिरण्यपुरमित्येतत्ख्यायते नगरं महत् ।
रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः ॥
रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः ॥
M N Dutt
This mighty city is called Hiranyapura and is guarded by the powerful Asuras, the Kalakeyas and the Paulomas.
३.१७०.१२
त एते मुदिता नित्यमवध्याः सर्वदैवतैः ।
निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः ।
मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥
निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः ।
मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥
M N Dutt
O king of kings, there they dwell happily, indestructible by the gods, free from anxiety and having all their desires fulfilled.
अर्जुन उवाच ।
३.१७०.१३
सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो ।
अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥
अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥
M N Dutt
Arjuna said: O lord of earth, learning that they were indestructible by the gods and Asuras. I gladly said to Matali "do you go to this city speedily.
३.१७०.१४
त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् ।
न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः ॥
न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः ॥
M N Dutt
I will bring about the destruction of all these enemies of the celestials with weapons. There exist no wicked enemies of the gods whom I do not consider my victims."
३.१७०.१५
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् ।
रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥
रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥
M N Dutt
Thereupon, Matali had me speedily conveyed by that celestials car, yoked with steeds, towards the-neighbourhood of Hiranyapura.
३.१७०.१६
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः ।
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ॥
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ॥
M N Dutt
On beholding me, those sons of Diti, wearing various sorts of garments and mounted on chariots, rushed at me with great violence.
३.१७०.१७
ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः ।
अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥
अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥
M N Dutt
Then those foremost of the Danavas (possessed) of fiery prowess, angrily assailed me with Nalikas, Narachas, Bhallas, Maces, swords and Tomaras.
३.१७०.१८
तदहं चास्त्रवर्षेण महता प्रत्यवारयम् ।
शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥
शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥
M N Dutt
Thereupon, O king, availing myself of the strength of my knowledge (in arms), I warded off that shower of weapons by mighty discharges of arrows;
३.१७०.१९
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे ।
तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ॥
तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ॥
M N Dutt
And coursing through the field of battle on the car, bewildered them. Thus confounded, the Danavas began to fell down one another.
३.१७०.२०
तेषामहं विमूढानामन्योन्यमभिधावताम् ।
शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसंघशः ॥
शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसंघशः ॥
M N Dutt
(And) with blazing arrows I cut off, by hundreds, the heads of those who, getting confounded, were rushing at one another.
३.१७०.२१
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः ।
खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥
खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥
M N Dutt
Thus smitten (by me) those sons of Diti, taking refuge in that city, again rose up in the air with it, by the help of illusion peculiar to the Danavas.
३.१७०.२२
ततोऽहं शरवर्षेण महता प्रत्यवारयम् ।
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥
M N Dutt
Thereupon, O descendant of the Kurus, covering the passage of the Daityas by heavy shower of arrows, I obstructed their movement.
३.१७०.२३
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् ।
दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥
दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥
M N Dutt
(But) the sons of Diti, on the strength of their boon, easily supported themselves on that celestials and aerial city of sun-like splendour and moving at will.
३.१७०.२४
अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते ।
पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति ॥
पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति ॥
M N Dutt
At one time it plunged into the earth and then rose up in the air again, now it took a curved direction and then again submerged under water.
३.१७०.२५
अमरावतिसंकाशं पुरं कामगमं तु तत् ।
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप ॥
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप ॥
M N Dutt
(Then), O tormentor of foes, I surrounded with various weapons that mighty moving about at will.
३.१७०.२६
ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च ।
न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ ॥
न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ ॥
M N Dutt
And, O best of the Bharatas, I assailed that city together with the Daityas by showers of arrows, shot from celestials weapons.
३.१७०.२७
विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः ।
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥
M N Dutt
(And), O king, that city of the Asuras, riven and broken by straight-coursing steels darts shot by me, fell to the ground.
३.१७०.२८
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः ।
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥
M N Dutt
Those Asuras too, O king, wounded by my iron shafts, fleet as the thunder and propelled by Fate, began to rove about.
३.१७०.२९
ततो मातलिरप्याशु पुरस्तान्निपतन्निव ।
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥
M N Dutt
Then, Matali, soaring to the heavens, as if taking a leap in front, speedily came down to the earth on that chariot effulgent as the sun.
३.१७०.३०
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् ।
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ॥
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ॥
M N Dutt
O Bharata, then, desirous of fighting with me, they furiously hemmed me in with sixty thousand cars. (But) I destroyed those (cars) by sharpened arrows adorned with vulture feathers.
३.१७०.३८
ततोऽहं देवदेवाय रुद्राय प्रणतो रणे ।
स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् ।
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ॥
स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् ।
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ॥
M N Dutt
Saying "may all beings remain in place," and sent that mighty weapon which is named Rudra and is destructive of all enemies.
३.१७०.३९
ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् ।
त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् ।
लेलिहानैर्महानागैः कृतशीर्षममित्रहन् ॥
त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् ।
लेलिहानैर्महानागैः कृतशीर्षममित्रहन् ॥
M N Dutt
Then I beheld a person with three heads, nine eyes, three faces, six arms and with hair blazing as the sun or the fire.
३.१७०.४२
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः ।
मृगाणामथ सिंहानां व्याघ्राणां च विशां पते ।
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ॥
मृगाणामथ सिंहानां व्याघ्राणां च विशां पते ।
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ॥
M N Dutt
(Such as), O lord of the earth, those of deer, of lions, of tigers, of bears, of buffaloes, of serpents, of cows.
३.१७०.४४
गृध्राणां गरुडानां च मकराणां तथैव च ।
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥
M N Dutt
Of the celestials, of the Rishis, of all the Gandharva, of the Pishachas, of the Yakshas, of the enemies of the gods,
३.१७०.४५
गुह्यकानां च संग्रामे नैरृतानां तथैव च ।
झषाणां गजवक्त्राणामुलूकानां तथैव च ॥
झषाणां गजवक्त्राणामुलूकानां तथैव च ॥
M N Dutt
Of the Guhyakas in battle, of the Nirritas, of elephant-mouthed sharks, of owls,
३.१७०.४६
मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् ।
तथैव यातु धानानां गदामुद्गरधारिणाम् ॥
तथैव यातु धानानां गदामुद्गरधारिणाम् ॥
M N Dutt
Of the creatures having the shapes of fishes and horses, of beings armed with various weapons and swords and of the Rakshasas, armed with maces and clubs.
३.१७०.४७
एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा ।
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥
M N Dutt
These and numerous other (beings), wearing various shapes, filled the universe when the weapon was discharged.
॥ इति ३.१७० ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.