अर्जुन उवाच ।
३.१६९.१
अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया ।
अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम् ॥
अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम् ॥
M N Dutt
Arjuna said: The demons, concealed from view, began fighting by the help of illusion. I also by the power of invisible weapons (i.e. weapons operating on unseen objects) fought with them,
३.१६९.२
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः ।
अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन् ॥
अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन् ॥
M N Dutt
And by means of arrows duly shot from the Gandiva, I cut off their heads wherever they were stationed.
३.१६९.३
ततो निवातकवचा वध्यमाना मया युधि ।
संहृत्य मायां सहसा प्राविशन्पुरमात्मनः ॥
संहृत्य मायां सहसा प्राविशन्पुरमात्मनः ॥
M N Dutt
Thereupon, the Nivatakavachas, thus struck dead by me, all on a sudden, forsook their illusion and entered into their own city.
३.१६९.४
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने ।
अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ॥
अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ॥
M N Dutt
The Daityas having fled and everything being disclosed to view, I beheld there hundreds and thousands of the Danavas (lying) slain.
३.१६९.५
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च ।
कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ॥
कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ॥
M N Dutt
(And) I saw by hundred their crushed weapons ornaments, limbs and mails.
३.१६९.६
हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् ।
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ॥
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ॥
M N Dutt
In consequence of the battlefield being strewn all over with dead bodies, the steeds had no room to move from one step to another, Thereupon with a sudden spring they took their station in the air.
३.१६९.७
ततो निवातकवचा व्योम संछाद्य केवलम् ।
अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ॥
अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ॥
M N Dutt
Then concealed from view, the Nivatakavachas, covering the entire firmament, rained down crags.
३.१६९.८
अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ ।
न्यगृह्णन्दानवा घोरा रथचक्रे च भारत ॥
न्यगृह्णन्दानवा घोरा रथचक्रे च भारत ॥
M N Dutt
Other dreadful Danavas entering into the entrails of the earth, O Bharata, caught hold of the legs of the horses and the car-wheels.
३.१६९.९
विनिगृह्य हरीनश्वान्रथं च मम युध्यतः ।
सर्वतो मामचिन्वन्त सरथं धरणीधरैः ॥
सर्वतो मामचिन्वन्त सरथं धरणीधरैः ॥
M N Dutt
were When engaged in fighting, (they) seizing the horses and the car, covered me on the car, on all sides with rocks.
३.१६९.१०
पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः ।
स देशो यत्र वर्ताम गुहेव समपद्यत ॥
स देशो यत्र वर्ताम गुहेव समपद्यत ॥
M N Dutt
On account of the rocks with which we were covered and of the others which were falling (around us), the place where we stationed, looked like a cave.
३.१६९.११
पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः ।
अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ॥
अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ॥
M N Dutt
That I was sore afflicted on account of being surrounded by rocks and the steeds being hard pressed, was perceived by Matali.
३.१६९.१२
लक्षयित्वा तु मां भीतमिदं वचनमब्रवीत् ।
अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय ॥
अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय ॥
M N Dutt
Seeing me terrified he spoke these words, "O Arjuna, O Arjuna, don't be afraid; discharge the weapon, Vajra (thunderbolt)."
३.१६९.१३
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् ।
देवराजस्य दयितं वज्रमस्त्रं नराधिप ॥
देवराजस्य दयितं वज्रमस्त्रं नराधिप ॥
M N Dutt
Then, O lord of men, hearing these words of his, I let go that favourite weapon of the king of the celestials, the terrible Vajra (thunderbolt).
३.१६९.१४
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च ।
अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान् ॥
अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान् ॥
M N Dutt
Inspiring the Gandiva with mantras and aiming at the locality of the rocks, I discharged sharpened iron darts having the touch of the thunderbolt.
३.१६९.१५
ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् ।
ते वज्रचोदिता बाणा वज्रभूताः समाविशन् ॥
ते वज्रचोदिता बाणा वज्रभूताः समाविशन् ॥
M N Dutt
And those arrows, turned into thunderbolt (on account of their) being shot from the Vajra, penetrated through the illusion and all the Nivatakavachas.
३.१६९.१६
ते वज्रवेगाभिहता दानवाः पर्वतोपमाः ।
इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ॥
इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ॥
M N Dutt
Then those Danavas, big as rocks smitten by the force of the thunder, fell on the ground clashing against one another,
३.१६९.१७
अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः ।
अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् ॥
अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् ॥
M N Dutt
And the shafts, penetrating those Danavas, who entering into the bowels of the earth had seized the horses and the car, sent them to the abode of Yama.
३.१६९.१८
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः ।
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ॥
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ॥
M N Dutt
That place was completely filled with those Nivatakavachas looking like mountains, who were (either) killed or wounded and lying scattered like (so many) rocks.
३.१६९.१९
न हयानां क्षतिः काचिन्न रथस्य न मातलेः ।
मम चादृश्यत तदा तदद्भुतमिवाभवत् ॥
मम चादृश्यत तदा तदद्भुतमिवाभवत् ॥
M N Dutt
And the fact, that neither did the horses, nor Matali, nor myself, suffer the least (by that event), appeared strange.
३.१६९.२०
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत ।
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ॥
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ॥
M N Dutt
Then, O king, Matali addressed me with a smile "the prowess displayed by you cannot be seen even among the gods.”
३.१६९.२१
हतेष्वसुरसंघेषु दारास्तेषां तु सर्वशः ।
प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ॥
प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ॥
M N Dutt
On the Danava hosts being slain all their wives in that city began to bewail like cranes in autumn.
३.१६९.२२
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् ।
त्रासयन्रथघोषेण निवातकवचस्त्रियः ॥
त्रासयन्रथघोषेण निवातकवचस्त्रियः ॥
M N Dutt
Then accompanied by Matali, I entered that city, terrifying the females of the Nivatakavachas by the rattling noise of the car.
३.१६९.२३
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् ।
रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः ॥
रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः ॥
M N Dutt
Beholding those ten thousands of steeds resembling peacocks and that car of the splendour of the sun, the females began to flee in large numbers.
३.१६९.२४
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः ।
शिलानामिव शैलेषु पतन्तीनामभूत्तदा ॥
शिलानामिव शैलेषु पतन्तीनामभूत्तदा ॥
M N Dutt
Thereupon, there arose a sound of the falling of the ornaments (from the persons) of those terrified ladies like the sound of hail falling upon a mountain.
३.१६९.२५
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् ।
बहुरत्नविचित्राणि शातकुम्भमयानि च ॥
बहुरत्नविचित्राणि शातकुम्भमयानि च ॥
M N Dutt
At last the affrighted ladies of the Daityas entered into their respective golden palaces decked with innumerable gems.
३.१६९.२६
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् ।
विशिष्टं देवनगरादपृच्छं मातलिं ततः ॥
विशिष्टं देवनगरादपृच्छं मातलिं ततः ॥
M N Dutt
Then beholding that wonderful and excellent city, superior to that of the gods, I asked Matali,
३.१६९.२७
इदमेवंविधं कस्माद्देवता नाविशन्त्युत ।
पुरंदरपुराद्धीदं विशिष्टमिति लक्षये ॥
पुरंदरपुराद्धीदं विशिष्टमिति लक्षये ॥
M N Dutt
“This city appears superior to that of Purandara. How is it that the Gods do not reside in such a place?"
मातलिरुवाच ।
३.१६९.२८
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् ।
ततो निवातकवचैरितः प्रच्याविताः सुराः ॥
ततो निवातकवचैरितः प्रच्याविताः सुराः ॥
M N Dutt
Matali answered O Partha, formerly it was the city of our lord of the gods. (But) afterwards the gods were expciled from here by the Nivatakavachas.
३.१६९.२९
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् ।
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ॥
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ॥
M N Dutt
Having pleased Brahma by the performance of rigid asceticism, they asked (of him) the boons, (namely), to dwell here and to be free from all fears of the gods in wars.
३.१६९.३०
ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः ।
विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ॥
विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ॥
M N Dutt
Then the self-existent lord (Shiva) was thus addressed by Shakra. "O lord, keeping our welfare in view, do what you think proper."
३.१६९.३१
तत उक्तो भगवता दिष्टमत्रेति वासवः ।
भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् ॥
भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् ॥
M N Dutt
Thereupon, O Bharata, the lord (Shiva) thus commanded Indra saying "O destroyer of foes, assuming another body you will kill these (demons).”
३.१६९.३२
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव ।
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ॥
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ॥
M N Dutt
Therefore, Shakra gave you the weapons for the destruction of these (demons). Even the gods had been unable to slay these that have been killed by you.
३.१६९.३३
कालस्य परिणामेन ततस्त्वमिह भारत ।
एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ॥
एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ॥
M N Dutt
O Bharata, as you have come hither just at the appointed time, you have been able to kill them.
३.१६९.३४
दानवानां विनाशार्थं महास्त्राणां महद्बलम् ।
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ॥
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ॥
M N Dutt
O best of mortals, in order to destroy these Danavas, Mahendra conferred on you the energy (that belongs to the possessor) of those excellent weapons.
अर्जुन उवाच ।
३.१६९.३५
ततः प्रविश्य नगरं दानवांश्च निहत्य तान् ।
पुनर्मातलिना सार्धमगच्छं देवसद्म तत् ॥
पुनर्मातलिना सार्धमगच्छं देवसद्म तत् ॥
M N Dutt
Arjuna said : Having killed the Danavas and subdued (their) city, I returned to the abode of the celestials accompanied by Matali.
॥ इति ३.१६९ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.