वैशंपायन उवाच ।
३.१६१.१
तस्मिन्नगेन्द्रे वसतां तु तेषां
महात्मनां सद्व्रतमास्थितानाम् ।
रतिः प्रमोदश्च बभूव तेषा
माकाङ्क्षतां दर्शनमर्जुनस्य ॥
महात्मनां सद्व्रतमास्थितानाम् ।
रतिः प्रमोदश्च बभूव तेषा
माकाङ्क्षतां दर्शनमर्जुनस्य ॥
M N Dutt
Vaishampayana said : Those noble-minded (Pandavas), the observers of pious vows, desirous of beholding Arjuna dwelling in that best of mountains, became passionately attached (to it) and got themselves amused.
३.१६१.३
तं पादपैः पुष्पधरैरुपेतं
नगोत्तमं प्राप्य महारथानाम् ।
मनःप्रसादः परमो बभूव
यथा दिवं प्राप्य मरुद्गणानाम् ॥
नगोत्तमं प्राप्य महारथानाम् ।
मनःप्रसादः परमो बभूव
यथा दिवं प्राप्य मरुद्गणानाम् ॥
M N Dutt
Getting to that excellent mountain, adorned with blossoming trees, those mighty carwarriors were supremely glad at heart as the Maruts on reaching the heavenly regions.
३.१६१.४
मयूरहंसस्वननादितानि
पुष्पोपकीर्णानि महाचलस्य ।
शृङ्गाणि सानूनि च पश्यमाना
गिरेः परं हर्षमवाप्य तस्थुः ॥
पुष्पोपकीर्णानि महाचलस्य ।
शृङ्गाणि सानूनि च पश्यमाना
गिरेः परं हर्षमवाप्य तस्थुः ॥
M N Dutt
Beholding the summit and the table-land of that mighty mountain, covered with flowers and ringing with the cries of peacocks and cranes, they remained there feeling great joy.
३.१६१.५
साक्षात्कुबेरेण कृताश्च तस्मि
न्नगोत्तमे संवृतकूलरोधसः ।
कादम्बकारण्डवहंसजुष्टाः
पद्माकुलाः पुष्करिणीरपश्यन् ॥
न्नगोत्तमे संवृतकूलरोधसः ।
कादम्बकारण्डवहंसजुष्टाः
पद्माकुलाः पुष्करिणीरपश्यन् ॥
M N Dutt
On that excellent mountain they beheld tanks, excavated by Kubera himself, full of lotuses and frequented by Kadamvas, Karandavas and swans and with their banks covered with (trees).
३.१६१.६
क्रीडाप्रदेशांश्च समृद्धरूपा
न्सुचित्रमाल्यावृतजातशोभान् ।
मणिप्रवेकान्सुमनोहरांश्च
यथा भवेयुर्धनदस्य राज्ञः ॥
न्सुचित्रमाल्यावृतजातशोभान् ।
मणिप्रवेकान्सुमनोहरांश्च
यथा भवेयुर्धनदस्य राज्ञः ॥
M N Dutt
(They beheld also) magnificent sporting grounds, pleasant to the mind and covered with arrays of beautiful and variegated garlands and studded with gems and suited to the taste of the king (Kubera), the giver of wealth.
३.१६१.७
अनेकवर्णैश्च सुगन्धिभिश्च
महाद्रुमैः संततमभ्रमालिभिः ।
तपःप्रधानाः सततं चरन्तः
शृङ्गं गिरेश्चिन्तयितुं न शेकुः ॥
महाद्रुमैः संततमभ्रमालिभिः ।
तपःप्रधानाः सततं चरन्तः
शृङ्गं गिरेश्चिन्तयितुं न शेकुः ॥
M N Dutt
The best of ascetics, always wandering (there) could not (sufficiently) comprehended (the sublimity) of that mountain summit furnished as it was with various many-coloured trees and covered with masses of clouds.
३.१६१.८
स्वतेजसा तस्य नगोत्तमस्य
महौषधीनां च तथा प्रभावात् ।
विभक्तभावो न बभूव कश्चि
दहर्निशानां पुरुषप्रवीर ॥
महौषधीनां च तथा प्रभावात् ।
विभक्तभावो न बभूव कश्चि
दहर्निशानां पुरुषप्रवीर ॥
M N Dutt
O great hero, by reason of the splendour of this excellent mountain itself and of the brilliancy of the annual herbs there was no difference between day and night.
३.१६१.९
यमास्थितः स्थावरजङ्गमानि
विभावसुर्भावयतेऽमितौजाः ।
तस्योदयं चास्तमयं च वीरा
स्तत्र स्थितास्ते ददृशुर्नृसिंहाः ॥
विभावसुर्भावयतेऽमितौजाः ।
तस्योदयं चास्तमयं च वीरा
स्तत्र स्थितास्ते ददृशुर्नृसिंहाः ॥
M N Dutt
Those best of men saw the rising and setting of Vibhavasu of unrivalled splendour, while, dwelling in that mountain, remaining where he (the sun) nourishes all the mobile and the immobile (creatures).
३.१६१.१०
रवेस्तमिस्रागमनिर्गमांस्ते
तथोदयं चास्तमयं च वीराः ।
समावृताः प्रेक्ष्य तमोनुदस्य
गभस्तिजालैः प्रदिशो दिशश्च ॥
तथोदयं चास्तमयं च वीराः ।
समावृताः प्रेक्ष्य तमोनुदस्य
गभस्तिजालैः प्रदिशो दिशश्च ॥
M N Dutt
Having witnessed the setting in and exit of darkness, the rising and the setting of the sun and all the cardinal points covered with his (sun's rays), those heroes,
३.१६१.११
स्वाध्यायवन्तः सततक्रियाश्च
धर्मप्रधानाश्च शुचिव्रताश्च ।
सत्ये स्थितास्तस्य महारथस्य
सत्यव्रतस्यागमनप्रतीक्षाः ॥
धर्मप्रधानाश्च शुचिव्रताश्च ।
सत्ये स्थितास्तस्य महारथस्य
सत्यव्रतस्यागमनप्रतीक्षाः ॥
M N Dutt
Awaiting the arrival of that mighty carwarrior, firm in truth and of true vows, were engaged in reciting the Vedas, constantly practising rituals, chiefly discharging the religious duties and observing pure vows.
३.१६१.१२
इहैव हर्षोऽस्तु समागतानां
क्षिप्रं कृतास्त्रेण धनंजयेन ।
इति ब्रुवन्तः परमाशिषस्ते
पार्थास्तपोयोगपरा बभूवुः ॥
क्षिप्रं कृतास्त्रेण धनंजयेन ।
इति ब्रुवन्तः परमाशिषस्ते
पार्थास्तपोयोगपरा बभूवुः ॥
M N Dutt
Saying "let all those assembled experience joy by meeting speedily here with Arjuna skilled in arms," those highly blessed Parthas became absorbed in Yoga.
३.१६१.१३
दृष्ट्वा विचित्राणि गिरौ वनानि
किरीटिनं चिन्तयतामभीक्ष्णम् ।
बभूव रात्रिर्दिवसश्च तेषां
संवत्सरेणैव समानरूपः ॥
किरीटिनं चिन्तयतामभीक्ष्णम् ।
बभूव रात्रिर्दिवसश्च तेषां
संवत्सरेणैव समानरूपः ॥
M N Dutt
Inspite of beholding many romantic forests on the mountain, as they could not help constantly thinking of Arjuna, every day and night appeared to them (long) as a year.
३.१६१.१४
यदैव धौम्यानुमते महात्मा
कृत्वा जटाः प्रव्रजितः स जिष्णुः ।
तदैव तेषां न बभूव हर्षः
कुतो रतिस्तद्गतमानसानाम् ॥
कृत्वा जटाः प्रव्रजितः स जिष्णुः ।
तदैव तेषां न बभूव हर्षः
कुतो रतिस्तद्गतमानसानाम् ॥
M N Dutt
From that very moment when the nobleminded Vishnu, with Dhaumya's leave, matting his hair, went abroad, they (Pandavas) did not experience joy. How could they, lost in his thought, experience any happiness there (on that mountain however romantic it might be)?
३.१६१.१५
भ्रातुर्नियोगात्तु युधिष्ठिरस्य
वनादसौ वारणमत्तगामी ।
यत्काम्यकात्प्रव्रजितः स जिष्णु
स्तदैव ते शोकहता बभूवुः ॥
वनादसौ वारणमत्तगामी ।
यत्काम्यकात्प्रव्रजितः स जिष्णु
स्तदैव ते शोकहता बभूवुः ॥
M N Dutt
Since the very moment when in accordance with the command of his brother Yudhishthira, Vishnu, endowed with the gait of an elephant (with exuberance of spirits), left the forest Kamyaka they became buried in deep sorrow.
३.१६१.१६
तथा तु तं चिन्तयतां सिताश्व
मस्त्रार्थिनं वासवमभ्युपेतम् ।
मासोऽथ कृच्छ्रेण तदा व्यतीत
स्तस्मिन्नगे भारत भारतानाम् ॥
मस्त्रार्थिनं वासवमभ्युपेतम् ।
मासोऽथ कृच्छ्रेण तदा व्यतीत
स्तस्मिन्नगे भारत भारतानाम् ॥
M N Dutt
O Bharata, in this way the Bharatas passed a month with great difficulty on that mountain thinking of Sitasvha Arjuna, who had gone to Vasava, desirous of learning the (science of) arims.
३.१६१.१७
ततः कदाचिद्धरिसंप्रयुक्तं
महेन्द्रवाहं सहसोपयातम् ।
विद्युत्प्रभं प्रेक्ष्य महारथानां
हर्षोऽर्जुनं चिन्तयतां बभूव ॥
महेन्द्रवाहं सहसोपयातम् ।
विद्युत्प्रभं प्रेक्ष्य महारथानां
हर्षोऽर्जुनं चिन्तयतां बभूव ॥
M N Dutt
Vaishampayana said : Once upon a time, when those mighty carwarriors were thinking of Arjuna they were delighted at beholding the car of Mahendra, yoked with horses and bright as lightning ¡ approaching all on a sudden.
३.१६१.१८
स दीप्यमानः सहसान्तरिक्षं
प्रकाशयन्मातलिसंगृहीतः ।
बभौ महोल्केव घनान्तरस्था
शिखेव चाग्नेर्ज्वलिता विधूमा ॥
प्रकाशयन्मातलिसंगृहीतः ।
बभौ महोल्केव घनान्तरस्था
शिखेव चाग्नेर्ज्वलिता विधूमा ॥
M N Dutt
That flaming car, driven by Matali, suddenly illuminating the firmament, appeared like a mighty meteor hidden in clouds or like the smokeless and blazing tongues of fire.
३.१६१.१९
तमास्थितः संददृशे किरीटी
स्रग्वी वराण्याभरणानि बिभ्रत् ।
धनंजयो वज्रधरप्रभावः
श्रिया ज्वलन्पर्वतमाजगाम ॥
स्रग्वी वराण्याभरणानि बिभ्रत् ।
धनंजयो वज्रधरप्रभावः
श्रिया ज्वलन्पर्वतमाजगाम ॥
M N Dutt
Placed in that car, appeared Kirita wearing garlands and fresh ornaments (Then) Dhananjaya, powerful as the wielder of the thunderbolt and blazing of beauty, alighted on (that) mountain,
३.१६१.२०
स शैलमासाद्य किरीटमाली
महेन्द्रवाहादवरुह्य तस्मात् ।
धौम्यस्य पादावभिवाद्य पूर्व
मजातशत्रोस्तदनन्तरं च ॥
महेन्द्रवाहादवरुह्य तस्मात् ।
धौम्यस्य पादावभिवाद्य पूर्व
मजातशत्रोस्तदनन्तरं च ॥
M N Dutt
Arriving at the mountain and descending from the car of Mahendra, that intelligent, one wearing a coronet and garlands, saluted the feet of Dhaumya first and then those of Ajatshatru Yudhishthira.
३.१६१.२१
वृकोदरस्यापि ववन्द पादौ
माद्रीसुताभ्यामभिवादितश्च ।
समेत्य कृष्णां परिसान्त्व्य चैनां
प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥
माद्रीसुताभ्यामभिवादितश्च ।
समेत्य कृष्णां परिसान्त्व्य चैनां
प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥
M N Dutt
He (Arjuna) also bowed down to the feet of Vrikodara and was himself saluted by the (twin) sons of Madri. (And then) going to Krishna and consoling her, he stood before his brother (Yudhishthira) with humility.
३.१६१.२२
बभूव तेषां परमः प्रहर्ष
स्तेनाप्रमेयेण समागतानाम् ।
स चापि तान्प्रेक्ष्य किरीटमाली
ननन्द राजानमभिप्रशंसन् ॥
स्तेनाप्रमेयेण समागतानाम् ।
स चापि तान्प्रेक्ष्य किरीटमाली
ननन्द राजानमभिप्रशंसन् ॥
M N Dutt
Those present (there) were highly delighted at being joined with that peerless man (Arjuna). (And) beholding them he (Arjuna) too, who wore a coronet and garlands, was delighted and began to eulogise the king.
३.१६१.२३
यमास्थितः सप्त जघान पूगा
न्दितेः सुतानां नमुचेर्निहन्ता ।
तमिन्द्रवाहं समुपेत्य पार्थाः
प्रदक्षिणं चक्रुरदीनसत्त्वाः ॥
न्दितेः सुतानां नमुचेर्निहन्ता ।
तमिन्द्रवाहं समुपेत्य पार्थाः
प्रदक्षिणं चक्रुरदीनसत्त्वाः ॥
M N Dutt
Beholding that car of Indra, placed in which the slayer of Namuchi had destroyed seven battalions of Diti's sons, those Parthas with rich spirits, went round it.
३.१६१.२४
ते मातलेश्चक्रुरतीव हृष्टाः
सत्कारमग्र्यं सुरराजतुल्यम् ।
सर्वं यथावच्च दिवौकसस्ता
न्पप्रच्छुरेनं कुरुराजपुत्राः ॥
सत्कारमग्र्यं सुरराजतुल्यम् ।
सर्वं यथावच्च दिवौकसस्ता
न्पप्रच्छुरेनं कुरुराजपुत्राः ॥
M N Dutt
Those descendants of the king Kuru, being exceedingly delighted, paid excellent adoration to Matali, worthy of the lord of the celestials himself; and then duly inquired of him about the welfare of all the gods,
३.१६१.२५
तानप्यसौ मातलिरभ्यनन्द
त्पितेव पुत्राननुशिष्य चैनान् ।
ययौ रथेनाप्रतिमप्रभेण
पुनः सकाशं त्रिदिवेश्वरस्य ॥
त्पितेव पुत्राननुशिष्य चैनान् ।
ययौ रथेनाप्रतिमप्रभेण
पुनः सकाशं त्रिदिवेश्वरस्य ॥
M N Dutt
Matali too then greeted them and having instructed the Parthas as a father does his (own) sons, (he) returned to the lord of heaven, ascending that car of unrivalled splendour.
३.१६१.२९
संक्षेपतो वै स विशुद्धकर्मा
तेभ्यः समाख्याय दिवि प्रवेशम् ।
माद्रीसुताभ्यां सहितः किरीटी
सुष्वाप तामावसतिं प्रतीतः ॥
तेभ्यः समाख्याय दिवि प्रवेशम् ।
माद्रीसुताभ्यां सहितः किरीटी
सुष्वाप तामावसतिं प्रतीतः ॥
M N Dutt
And have pleased all the gods together with Indra by humility and concentration." Having in short related to them to his stay in heaven, Kirita of pure deeds slept pleasantly that night with the sons of Madri."
॥ इति ३.१६१ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.