वैशंपायन उवाच ।
३.१६०.१
ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम ।
आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत ॥
आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत ॥
M N Dutt
Then, O tormentor of foes, when the sun rose, Dhaumya, on performing his devotions, visited the Pandavas, with Arstisena.
३.१६०.२
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह ।
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ॥
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ॥
M N Dutt
Having bowed down to the feet of Dhaumya and Arstisena, they then worshipped all the Brahmanas with joined hands.
३.१६०.३
ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे ।
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ॥
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ॥
M N Dutt
Then the great sage Dhaumya, taking Yudhishthira by the right hand and looking towards the East, said this:
३.१६०.४
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति ।
शैलराजो महाराज मन्दरोऽभिविराजते ॥
शैलराजो महाराज मन्दरोऽभिविराजते ॥
M N Dutt
O Great king, covering the earth up to the sea reigns this Mandara, the prince of mountains.
३.१६०.५
इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः ।
पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् ॥
पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् ॥
M N Dutt
O Pandava, this point, adorned with mountains, woods and forest, is protected by Indra and Vaisravana.
३.१६०.६
एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च ।
ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः ॥
ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः ॥
M N Dutt
O child, it is said by the intelligent sages, acquainted with all duties, that this (region) is the abode of Mahendra and of king Vaisravana.
३.१६०.७
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः ।
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ॥
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ॥
M N Dutt
The twice-born ones and the righteous sages and the Siddhas and the Sadhyas and the celestials, worship the sun who rises from this point.
३.१६०.८
यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः ।
प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् ॥
प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् ॥
M N Dutt
And that righteous king Yama, the lord of all living creatures, presides over yonder southern point, the path of the spirits of the departed.
३.१६०.९
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम् ।
प्रेतराजस्य भवनमृद्ध्या परमया युतम् ॥
प्रेतराजस्य भवनमृद्ध्या परमया युतम् ॥
M N Dutt
This is Sanyamana, the abode of the lord of the departed souls, sacred, highly wonderful to look at and full of crowning bliss.
३.१६०.१०
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति ।
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ॥
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ॥
M N Dutt
The intelligent ones denominate that prince of mountains Ashta, getting to which Savita ever observed the truth.
३.१६०.११
एतं पर्वतराजानं समुद्रं च महोदधिम् ।
आवसन्वरुणो राजा भूतानि परिरक्षति ॥
आवसन्वरुणो राजा भूतानि परिरक्षति ॥
M N Dutt
Similarly, dwelling in this prince of mountains and the mighty sea, king Varuna protects all creatures.
३.१६०.१२
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् ।
महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः ॥
महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः ॥
M N Dutt
O highly fortunate one, illuminating the northern point, there stretches the powerful and auspicious (Mountains) Mahameru-the refuge to those holding communion with Brahma.
३.१६०.१३
यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः ।
भूतात्मा विसृजन्सर्वं यत्किंचिज्जङ्गमागमम् ॥
भूतात्मा विसृजन्सर्वं यत्किंचिज्जङ्गमागमम् ॥
M N Dutt
There the court of Brahma is (held) and remaining where the universal soul Prajapati created all that is mobile and immobile.
३.१६०.१४
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् ।
तेषामपि महामेरुः स्थानं शिवमनामयम् ॥
तेषामपि महामेरुः स्थानं शिवमनामयम् ॥
M N Dutt
(This) Mahameru is the auspicious and blissful abode of Daksha and six others who are known as the mind-born sons of Brahma.
३.१६०.१५
अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च ।
सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा ॥
सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा ॥
M N Dutt
O child, here too the seven divine sages with Vasishtha at their head sit and rise again.
३.१६०.१६
देशं विरजसं पश्य मेरोः शिखरमुत्तमम् ।
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ॥
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ॥
M N Dutt
Behold that excellent summit of the Meru that bright region when the grandsire (Brahma) sits with the gods, happy in self-knowledge.
३.१६०.१७
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् ।
अनादिनिधनं देवं प्रभुं नारायणं परम् ॥
अनादिनिधनं देवं प्रभुं नारायणं परम् ॥
M N Dutt
(And) next to the abode of Brahma appears the region of that original lord, the god Narayana who has neither beginning nor end and who is said to be the really first cause of the origin of the whole creation. Even the gods cannot behold that auspicious (place)) composed of all energies.
३.१६०.१९
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः ।
स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ॥
स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ॥
M N Dutt
(And) by reason of its own splendour surpassing the sun or fire in lustre, the place of the high-souled Vishnu is not visible to the gods and the Danavas.
३.१६०.२३
स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम् ।
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ॥
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ॥
M N Dutt
O highly fortunate Yudhishthira, this place is eternal, without deterioration or end; because it is always the very life of that god.
३.१६०.२४
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि ।
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ॥
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ॥
M N Dutt
The god Aditya too, the dispeller of darkness, attracting all the luminaries, goes round this (Meru).
३.१६०.२५
अस्तं प्राप्य ततः संध्यामतिक्रम्य दिवाकरः ।
उदीचीं भजते काष्ठां दिशमेष विभावसुः ॥
उदीचीं भजते काष्ठां दिशमेष विभावसुः ॥
M N Dutt
That author of the day, Vibhavasu, having gone down and then having passed the evening, takes the excellent northern point.
३.१६०.२६
स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव ।
प्राङ्मुखः सविता देवः सर्वभूतहिते रतः ॥
प्राङ्मुखः सविता देवः सर्वभूतहिते रतः ॥
M N Dutt
O Pandava, that god Savita, bent on the welfare of all creatures, then coming near the Meru, again goes on his course facing the East.
३.१६०.२७
स मासं विभजन्कालं बहुधा पर्वसंधिषु ।
तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ॥
तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ॥
M N Dutt
Similarly, the divine moon moves with the stars (round this mountain) dividing the mouth into many sections when he arrives at the Parvas.
३.१६०.२८
एवमेष परिक्रम्य महामेरुमतन्द्रितः ।
भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् ॥
भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् ॥
M N Dutt
Thus crossing the Mahameru unerringly and nourishing all the creatures (the moon) goes back to the Mandara.
३.१६०.२९
तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत् ।
मार्गमेतदसंबाधमादित्यः परिवर्तते ॥
मार्गमेतदसंबाधमादित्यः परिवर्तते ॥
M N Dutt
In a similar way, the god Aditya, the dispeller of darkness displaying the universe by his rays, moves round this unobstructed path.
३.१६०.३०
सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम् ।
ततः सर्वाणि भूतानि कालः शिशिरमृच्छति ॥
ततः सर्वाणि भूतानि कालः शिशिरमृच्छति ॥
M N Dutt
When he takes the southern direction with a view to cause dew, then the cold weather comes upon all the creatures.
३.१६०.३१
स्थावराणां च भूतानां जङ्गमानां च तेजसा ।
तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः ॥
तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः ॥
M N Dutt
(Then) turning back, he, by his own energy, withdraws the energy from all beings both mobile and immobile.
३.१६०.३२
ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् ।
प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते ॥
प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते ॥
M N Dutt
In consequence of this perspiration, fatigue, drowsiness and lethargy comes upon men and all living beings always feel inclined to sleep.
३.१६०.३३
एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान् ।
पुनः सृजति वर्षाणि भगवान्भावयन्प्रजाः ॥
पुनः सृजति वर्षाणि भगवान्भावयन्प्रजाः ॥
M N Dutt
Then the god Bhanumana coursing that unknown path (i.e. the firmament) gives birth to rains reviving (all) creatures.
३.१६०.३४
वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान् ।
वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते ॥
वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते ॥
M N Dutt
And having nourished all (creatures) both mobile and immobile by the comfort caused by rain, wind and warmth, that one of mighty splendour resumes his (former) course.
३.१६०.३५
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः ।
प्रकर्षन्सर्वभूतानि सविता परिवर्तते ॥
प्रकर्षन्सर्वभूतानि सविता परिवर्तते ॥
M N Dutt
Thus increasingly turning on the wheel of time and influencing all creatures, O Partha, Savita goes on his course.
३.१६०.३६
संतता गतिरेतस्य नैष तिष्ठति पाण्डव ।
आदायैव तु भूतानां तेजो विसृजते पुनः ॥
आदायैव तु भूतानां तेजो विसृजते पुनः ॥
M N Dutt
O Pandava his course is unremitting and he never rests. And withdrawing the energy of (all) creatures, he gives it back.
३.१६०.३७
विभजन्सर्वभूतानामायुः कर्म च भारत ।
अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः ॥
अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः ॥
M N Dutt
O Bharata, the lord (sun), always imparting life and motion to all living creatures, creates day and night, Kala and Kashtha.
॥ इति ३.१६० ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.