वैशंपायन उवाच ।
३.१५४.८
तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः ।
धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ॥
धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ॥
M N Dutt
Having been thus stolen (by the Rakshasa), Dharmaraja Yudhishthira thus spoke to him, "O fool virtue decreases in you; you do not look to it.
३.१५४.१०
समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते ।
इमं च लोकं शोचन्तमनुशोचन्ति देवताः ।
पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ॥
इमं च लोकं शोचन्तमनुशोचन्ति देवताः ।
पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ॥
M N Dutt
If prosperity attends the human race, your (Rakshasa) race will also be prosperous. If calamity falls on men, even the celestials thereby suffer grief.
३.१५४.११
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस ।
राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ॥
राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ॥
३.१५४.१३
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् ।
येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥
येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥
M N Dutt
We are ever intent on bowing down to our superiors and the Brahmanas. A friend, a confiding man, he whose food has been partaken and he who has given shelter should never be injured; you have happily lived in our place and you were duly honoured by us.
३.१५४.३२
विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे ।
आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा ।
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् ॥
आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा ।
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् ॥
M N Dutt
But as I had no apprehension from you, I did not kill you. You are in the disguise of a Brahmana and you did not speak towards us any harsh words.
३.१५४.३३
प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् ।
अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् ।
राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् ॥
अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् ।
राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् ॥
M N Dutt
You took delight in pleasing us, you did not do us any harm and again you were our guest, how could I therefore kill you who were in the garb of a Brahmana and who were innocent?
३.१५४.३४
अपक्वस्य च कालेन वधस्तव न विद्यते ।
नूनमद्यासि संपक्वो यथा ते मतिरीदृशी ।
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा ॥
नूनमद्यासि संपक्वो यथा ते मतिरीदृशी ।
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा ॥
M N Dutt
Today that time has surely come, in as much as your mind has been led away by the wonder-performing fate to carry off Krishna (Draupadi).
३.१५४.३५
बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः ।
मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि ॥
मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि ॥
M N Dutt
(By thus allowing you to commit this act), you have swallowed the hook fastened to the line of Fate. Like the fish (hooked) you will meet with your destruction today.
३.१५४.३६
यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते ।
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ॥
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ॥
M N Dutt
You shall not have to go where you intend to go or where you have already mentally gone. You shall go (today) to the place where Hidimba and Baka have gone.”
३.१५४.३७
एवमुक्तस्तु भीमेन राक्षसः कालचोदितः ।
भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ॥
भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ॥
M N Dutt
Having been thus addressed by Bhima, the Rakshasa became alarmed. He put them down and being forced by Fate came to fright.
३.१५४.३८
अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः ।
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ॥
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ॥
M N Dutt
With his lips trembling in anger, he thus spoke to Bhima,“ sinful wretch, I am not bewildered; I am waiting for you.
३.१५४.३९
श्रुता मे राक्षसा ये ये त्वया विनिहता रणे ।
तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् ॥
तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् ॥
M N Dutt
I have heard about those Rakshasas whom you have killed in battle. I will today offer oblations of your blood to them."
३.१५४.४२
वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे ।
माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् ॥
माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् ॥
M N Dutt
When they were fighting a fearful wrestling match, the sons of Madri (Nakula and Sahadeva), becoming exceedingly angry, rushed forward.
३.१५४.४३
न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः ।
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ॥
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ॥
M N Dutt
The son of Kunti, Vrikodara (Bhima), smiled and asked them to stop. He spoke to them, “Behold, I am more than a match for this (Rakshasa).
३.१५४.४४
आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च ।
इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ॥
इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ॥
M N Dutt
O king, by my own self, by my brothers, by my merit, by my good deeds and by my sacrifices, I swear that I shall kill this Rakshasa."
३.१५४.४५
इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् ।
बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ॥
बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ॥
M N Dutt
Having said this, those two heroes, the Rakshasa and Vrikodara, challenged each other and caught each other by the arms.
३.१५४.४६
तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः ।
अमृष्यमाणयोः संख्ये देवदानवयोरिव ॥
अमृष्यमाणयोः संख्ये देवदानवयोरिव ॥
M N Dutt
They did not forgive each other; the angry Bhima and the Rakshasa fought a terrible battle like that between a celestials and a demon.
३.१५४.४७
आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः ।
जीमूताविव घर्मान्ते विनदन्तौ महाबलौ ॥
जीमूताविव घर्मान्ते विनदन्तौ महाबलौ ॥
M N Dutt
Uprooting the trees, those two greatly strong heroes again and again struck each other, roaring and shouting like masses of clouds.
३.१५४.४८
बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ ।
अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ ॥
अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ ॥
M N Dutt
Those two foremost of strong men, each wishing to kill the other and each rushing at the other with great force, broke down many gigantic trees by (the press of) their thighs.
३.१५४.४९
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥
M N Dutt
Thus went on that battle with trees, destructive of plants like that between the two brothers Bali and Sugriva, both desirous of possessing the woman.
॥ इति ३.१५४ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.